Adhyaya 8
Brahma KhandaDharmaranya MahatmyaAdhyaya 8

Adhyaya 8

第八章开篇,尤提士提罗请求毗耶娑继续讲述,显示“达摩林”(Dharmāraṇya)的事迹令人长久好奇并增长虔敬。毗耶娑说明此段出自《斯甘达往世书》,本为斯塔努(湿婆)对斯甘达所说,具多处圣地(tīrtha)之功德,且能除障消难。 场景转至凯拉萨山:湿婆以圣像相显现——五面、十臂、三目,执三叉戟,兼持头骨器(kapāla)与卡特瓦昂伽杖(khaṭvāṅga)——众伽那侍从,仙圣与天界乐神齐声赞颂。斯甘达禀告诸天与高位神祇在门前候见;湿婆起身欲行,斯甘达遂问其急行之由。 湿婆言将与诸天同往达摩林,并宣说创世之理:劫坏(pralaya)时的本初梵、伟大实体之显现、毗湿奴在水中的神圣游戏、榕树与叶上卧童之出现、梵天自脐莲而生,并受命建立宇宙球体及诸界众生(含诸“胎生/生类”yoni之分类)。继而叙及谱系次第——梵天意生诸子、迦叶波与诸妻、阿底提耶诸神,以及“达摩林”之名源于达摩的作用——并描绘诸天、悉地者、乾闼婆、龙族、行星等大会。章末梵天往毗昆塔,庄严赞颂毗湿奴;毗湿奴以圣像示现,贯通创世教义、圣地地理与神圣训诲。

Shlokas

Verse 1

युधिष्ठिर उवाच । धर्मारण्यकथां पुण्यां श्रुत्वा तृप्तिर्न मे विभो । यदायदा कथयसि तदा प्रोत्सहते मनः । अतः परं किमभवत्परं कौतूहलं हि मे

玉提湿提罗说道:大能者啊,即使听闻了达摩阿兰尼亚的神圣事迹,我仍未满足。每当你讲述时,我心愈发渴慕。故而其后发生了什么?我的好奇实在深切。

Verse 2

व्यास उवाच । शृणु पार्थ महापुण्यां कथां स्कंदपुराणजाम् । स्थाणुनोक्तां च स्कंदाय धर्मारण्योद्भवां शुभाम्

毗耶娑说道:听吧,婆尔他啊,这至为功德的故事,出自《斯坎达往世书》;它吉祥殊胜,起于达摩阿兰尼亚,由斯塔努(湿婆)对斯坎达宣说。

Verse 3

सर्वतीर्थस्य फलदां सर्वोपद्रवनाशिनीम् । कैलासशिखरासीनं देवदेवं जगद्गुरुम् । पंचवक्त्रं दशभुजं त्रिनेत्रं शूलपाणिनम्

(此圣传)赐予一切圣地(tīrtha)之果报,摧灭诸般灾厄。(它描绘)诸神之神、世间导师,端坐于凯拉萨之巅——五面、十臂、三目,手执三叉戟。

Verse 4

कपालखटवांगकरं नागयज्ञोपवीतिनम् । गणैः परिवृतं तत्र सुरासुरनमस्कृतम्

他手持骷髅与佉吒梵伽杖(khaṭvāṅga),以蛇为圣线;在那里为其众侍从(gaṇa)环绕,诸天与阿修罗同来稽首礼敬。

Verse 5

नानारूपगुणैर्गीतं नारदप्रमुखैर्युतम् । गंधर्वैश्चाप्सरोभिश्च सेवितं तमुमापतिम् । तत्रस्थं च महादेवं प्रणिपत्याब्रवीत्सुतः

那位乌玛之主,受纳罗陀等众圣以多种妙德之赞歌歌咏,又为乾闼婆与阿普萨拉侍奉。于是,斯坎达向在座的摩诃提婆顶礼后,开口说道。

Verse 6

स्कंद उवाच । स्वामिन्निंद्रादयो देवा ब्रह्माद्याश्चैव सर्वशः । तव द्वारे समायातान्त्वद्दर्शनैकलालसाः । किमाज्ञापयसे देव करवाणि तवाग्रतः

斯坎达说道:大主啊,因陀罗等诸天神——梵天以及其余一切——都来到您的门前,只渴望得见您的圣容。天主啊,您有何命令?我当在您面前作何事?

Verse 7

व्यास उवाच । स्कंदस्य वचनं श्रुत्वा आसनादुत्थितो हरः । वृषभं न समारूढो गंतुकामोऽभवत्तदा

毗耶娑说道:听闻斯坎达之言,哈罗从座上起身。祂未乘圣牛,便当即起意出行。

Verse 8

गतुकामं शिवं दृष्ट्वा स्कंदो वाक्यमथाब्रवीत्

斯坎达见湿婆已欲启程,便说出如下言辞。

Verse 9

स्कंद उवाच । किं कार्यं देव देवानां यत्त्वमाहूयसे त्वरम् । वृषं त्यक्त्वा कृपासिंधो कृपास्ति यदि मे वद

斯坎达说道:天神之中有何要事,主啊,使您如此急切被召?连圣牛也暂置一旁,慈悲之海啊——若您赐我恩典,请告知于我。

Verse 10

देवदानव युद्धं वा किं कार्यं वा महत्तरम्

这是诸天与达那婆之间的战争吗?还是另有更为重大的事业?

Verse 11

शिव उवाच । शृणुष्वैकाग्रमनसा येनाहं व्यग्रचेतसः । अस्ति स्थानं महापुण्यं धर्म्मारण्यं च भूतले

湿婆说道:“当以一心专注而听,因为我心切而急。于大地之上,确有一处至极功德、无比圣地——达摩林(Dharmāraṇya),即法之森林。”

Verse 12

तत्रापि गंतुकामोऽहं देवैः सह षडाननः

“我也愿往彼处——与诸天神同往,噢六面者(Ṣaḍānana)。”

Verse 13

स्कंद उवाच । तत्र गत्वा महादेव किं करिष्यसि सांप्रतम् । तन्मे ब्रूहि जगन्नाथ कृत्यं सर्वमशेषतः

军荼(Skanda)说道:“噢大天(Mahādeva),你到了那里,如今将作何事?请告知我,宇宙之主啊,你的一切旨意与所行之事,毫无遗漏。”

Verse 14

शिव उवाच । श्रूयतां वचनं पुत्र मनसोल्हादकारणम् । आदितः सर्व्ववृत्तानां सृष्टि स्थितिकरं महत्

湿婆说道:“儿啊,且听我言,此言能令心欢悦;我将从最初说起,那伟大叙述,乃一切事相之创造与住持之因。”

Verse 15

परंतु प्रलये जाते सर्वतस्तमसा वृतम् । आसीदेकं तदा ब्रह्म निर्गुणं बीजमव्ययम्

“然而当大毁灭(pralaya)降临,四方尽为黑暗所覆之时,那时唯有梵(Brahman)独存——无相无德——不坏之种,永恒不灭。”

Verse 16

निर्मितं वै गुणैरादौ मह द्द्रव्यं प्रचक्ष्यते

在最初,确由诸“古那”(guṇa)而生,被称为“摩诃特”(mahat)的大本原。

Verse 17

महाकल्पे च संप्राप्ते चराचरे क्षयं गते । जलरूपी जगन्नाथो रममाणस्तु लीलया

当大劫来临,动与不动的一切皆归于灭时,宇宙之主化作水相,仍以戏游之力(līlā)安住。

Verse 18

चिरकाले गते सोपि पृथिव्यादिसुतत्त्वकैः । वृक्षमुत्पादयामासायुतशाखामनोरमम्

久远之后,祂亦以从地大起首的微细诸真理(tattva)为缘,生出一株悦意之树,具一万枝条。

Verse 19

फलैर्विशालैराकीर्णं स्कंधकांडादिशोभितम् । फलौघाढ्यो जटायुक्तो न्यग्रो धो विटपो महान्

其上遍布硕大之果,树干枝柯等皆庄严;果簇繁盛,垂根具足——此乃伟大的尼耶伽罗陀(Nyagrodha)榕树。

Verse 20

बालभावं ततः कृत्वा वासुदेवो जनार्द्दनः । शेतेऽसौ वटपत्रेषु विश्वं निर्मातुमुत्सुकः

于是,婆苏提婆(Vāsudeva)、阇那尔达那(Janārdana)化作婴孩,卧于榕叶之上,渴望创造宇宙。

Verse 21

सनाभिकमले विष्णो र्जातो ब्रह्मा हि लोककृत् । सर्वं जलमयं पश्यन्नानाकारमरूपकम्

从毗湿奴脐中生出的莲华里,诞生了梵天——诸世界的造作者。环顾四方,他见一切皆为水性,无定形相,却能现出种种形态。

Verse 22

तं दृष्ट्वा सहसोद्वेगाद्ब्रह्मा लोकपितामहः । इदमाह तदा पुत्र किं करो मीति निश्चितम्

见到此景,梵天——诸世界的祖父(Pitāmaha)——骤然心生惊惶不安。于是他说道:“噢,孩子,我究竟该做什么?”——心中如此决断。

Verse 23

खे जजान ततो वाणी देवात्सा चाशरीरिणी । तपस्तप विधे धातर्यथा मे दर्शनं भवेत्

随后,在虚空中响起天界诸神所发的无形神声:“行苦行(tapas)吧,维达特里(Vidhātṛ)、造化者(Dhātṛ)啊,如此你将得见我的圣容(darśana)。”

Verse 24

तच्छ्रुत्वा वचनं तत्र ब्रह्मा लोकपितामहः । प्रातप्यत तपो घोरं परमं दुष्करं महत्

听闻此言,梵天——诸世界的祖父——当即在那里修行猛烈的苦行:至高无上,极其艰难,而其威力广大。

Verse 25

प्रहसन्स तदा बालरूपेण कमलापतिः । उवाच मधुरां वाचं कृपालुर्बाल लीलया

于是,迦摩罗波底(Kamalāpati,吉祥天女拉克什米之主)含笑示现为童子之形,以慈悲之心说出柔和甘美之语,宛如神圣的童戏。

Verse 26

श्रीविष्णुरुवाच । पुत्र त्वं विधिना चाद्य कुरु ब्रह्मांडगोलके । पातालं भूतलं चैव सिंधुसागरकाननम्

圣毗湿奴说道:“孩子啊,如今依照既定的法则,在宇宙之卵的圆域之中创造:帕塔拉(下界诸域)、大地之界,以及江河、海洋与森林的诸境。”

Verse 27

वृक्षाश्च गिरयो द्विपदाः पशवस्तथा । पक्षिणश्चैव गंधर्वाः सिद्धा यक्षाश्च राक्षसाः

“(创造)树木与群山;两足之众与诸兽;并且创造飞鸟——以及乾闼婆、悉达、夜叉与罗刹。”

Verse 28

श्वापदाद्याश्च ये जीवाश्चतुराशीतियोनयः । उद्भिज्जाः स्वेदजाश्चैव जरायुजास्तथांडजाः

“并且创造从野兽等开始的一切众生——(总计)八十四种生类:地生者、汗生者、胎生者与卵生者。”

Verse 29

एकविंशतिलक्षाणि एकैकस्य च योनयः । कुरु त्वं सकलं चाशु इत्युक्त्वांतरधीयत । ब्रह्मणा निर्मितं सर्वं ब्रह्मांडं च यथोदितम्

“每一类各有二十一‘拉克’(二百一十万)种生门。你当速速成就这一切。”言毕,主即隐没。于是梵天依其所宣而造作万有,宇宙之卵亦如是成就。

Verse 30

यस्मिन्पितामहो जज्ञे प्रभुरेकः प्रजापतिः । स्थाणुः सुरगुरुर्भानुः प्रचेताः परमेष्ठिनः

在那宇宙的秩序中,祖父神(皮塔摩诃)诞生——唯一的主宰、众生之主(Prajāpati);亦名为斯塔努、天神之师、婆努、普罗切塔与至上座者(Parameṣṭhin)。

Verse 31

यथा दक्षो दक्षपुत्रा स्तथा सप्तर्षयश्च ये । ततः प्रजानां पतयः प्राभवन्नेकविंशतिः

正如达克沙与达克沙之子成为众生的始祖,七圣仙亦复如是。由他们生起二十一位众生之主(般阇波提),统摄后裔繁衍的展开。

Verse 32

पुरुषश्चाप्रमेयश्च एवं वंश्यर्षयो विदुः । विश्वेदेवास्तथादित्या वसव श्चाश्विनावपि

通晓世系的圣贤如是知:宇宙之人(普鲁沙)与不可量者(阿普罗梅亚);又有毗湿毗天众、阿底提之子诸天(阿底提耶)、八位瓦苏,以及双生的阿湿毗尼,皆依神圣次第而起。

Verse 33

यक्षाः पिशाचाः साध्याश्च पितरो गुह्यकास्तथा । ततः प्रसूता विद्वांसो ह्यष्टौ ब्रह्मर्षयोऽमलाः

夜叉、毗舍遮、萨陀耶、祖灵(皮特里)以及隐秘众(古希亚迦)皆由此而出。同一展开之中,又诞生八位无垢的梵仙(婆罗摩利希)——安住于清净智的贤明圣见者。

Verse 34

राजर्षयश्च बहवः सर्वे समुदिता गुणैः । द्यौरापः पृथिवी वायुरंतरिक्षं दिशस्तथा

又有许多王仙(罗阇利希)出现,皆具诸德。并且显现了天、诸水、大地、风、中空(空界),以及四方诸方位。

Verse 35

संवत्सरार्तवो मासाः पक्षाहोरात्रयः क्रमात् । कलाकाष्ठामुहूर्तादि निमे षादि लवास्तथा

依次而生者:一年、诸季、诸月、半月(朔望期)、昼与夜;又有时间的度量,如迦罗(kalā)、迦湿吒(kāṣṭhā)、牟呼尔多(muhūrta)等,乃至一瞬(nimeṣa)与一微分(lava)。

Verse 36

ग्रहचक्रं सनक्षत्रं युगा मन्वन्तरादयः । यच्चान्यदपि तत्सर्वं संभूतं लोकसाक्षिकम्

诸行星之轮与诸星宿同在,诸劫(yuga)、诸摩奴期(manvantara)等,乃至其余一切——皆已生成,作为诸世界之见证与纲维。

Verse 37

यदिदं दृश्यते चक्रं किंचि त्स्थावरजंगमम् । पुनः संक्षिप्यते पुत्र जगत्प्राप्ते युगक्षये

此所见之轮转秩序——凡静者与动者——在世界至一劫终尽之时,复又收摄归并,吾子。

Verse 38

यथर्तावृतुलिंगानि नामरूपाणि पर्यये । दृश्यन्ते तानि तान्येव तथा वत्स युगादिकम्

譬如四时轮转,其相应之征兆,以及同样的名与形,于次第中反复显现;如是,爱子啊,诸劫与相关诸周期亦复循环再来。

Verse 39

शिव उवाच । अतः परं प्रवक्ष्यामि कथां पौराणिकीं शुभाम् । ब्रह्मणश्च तथा पुत्र वंशस्यैवानुकीर्तनम्

湿婆曰:继而我将宣说一段吉祥的《往世书》(Purāṇa)圣传;并且,吾子,我亦将依次诵述梵天(Brahmā)之族系。

Verse 40

ब्रह्मणो मानसाः पुत्रा विदिताः षण्महर्षयः । मरीचिरत्र्यंगिरसौ पुलस्त्यः पुलहः क्रतुः

梵天(Brahmā)之意生诸子,世所共知为六大圣仙(ṛṣi):摩利支(Marīci)、阿底利(Atri)、安吉罗(Aṅgiras)、普罗娑底耶(Pulastya)、普罗诃(Pulaha)与克罗都(Kratu)。

Verse 41

मरीचेः कश्यपः पुत्रः कश्यपाच्चरमाः प्रजाः । प्रजज्ञिरे महाभागा दक्षकन्यास्त्रयोदश

迦叶波(Kaśyapa)为摩利支(Marīci)之子。由迦叶波而生后世诸类众生——达叉(Dakṣa)那十三位福德显赫的女儿。

Verse 42

अदितिर्दितिर्दनुः काला दनायुः सिंहिका तथा । क्रोधा प्रोवा वसिष्ठा च विनता कपिला तथा

阿底提(Aditi)、底提(Diti)、达奴(Danu)、迦罗(Kālā)、达那优(Danāyu),以及辛希迦(Siṃhikā);又有克罗陀(Krodhā)、普罗婆(Provā)、婆悉吒(Vasiṣṭhā)、毗那多(Vinatā),并迦毗罗(Kapilā)——(皆为达叉之女名号)。

Verse 43

कण्डूश्चैव सुनेत्रा च कश्यपाय ददौ तदा । अदित्यां द्वादशादित्याः संजाता हि शुभाननाः

又将甘度(Kaṇḍū)与苏涅特罗(Sunetrā)当时嫁与迦叶波。由阿底提诞生十二阿底提耶(Āditya),光辉灿然,面相吉祥。

Verse 44

सूर्याद्वै धर्मराड् जज्ञे ते नेदं निर्मितं पुरा । धर्मेण निर्मितं दृष्ट्वा धर्मारण्यमनुत्तमम् । धर्मारण्यमिति प्रोक्तं यन्मया स्कन्द पुण्यदम्

实由苏利耶(Sūrya,日神)而生达摩罗阇(Dharmarāṭ);此(圣地)在远古由他所营造。见此由达摩所成、无与伦比之林,故名“达摩阿兰尼耶”(Dharmāraṇya,法之森林)——我今告汝,哦斯甘达(Skanda),此地能赐福德(puṇya)。

Verse 45

स्कन्द उवाच । धर्मारण्यस्य चाख्यानं परमं पावनं तथा । श्रोतुमिच्छामि तत्सर्वं कथयस्व महेश्वर

斯甘达曰:“我愿尽闻达摩阿兰尼耶(Dharmāraṇya)那至为清净的缘起传说。大自在天(Maheśvara)啊,请为我详说一切。”

Verse 46

ईश्वर उवाच । इन्द्राद्याः सकला देवा अन्वयुर्ब्रह्मणा सह । अहं वै तत्र यास्यामि क्षेत्रं पापनिषूदनम्

自在天说道:“以因陀罗为首的一切天神,与梵天一同随行。我也将前往那里——那能灭除罪垢的神圣圣地。”

Verse 47

स्कन्द उवाच । अहमप्यागमिष्यामि तं द्रष्टुं शशिशे खर

军荼(Skanda)说道:“我也将前来,亲眼瞻仰那圣地。”

Verse 48

सूत उवाच । ततः स्कन्दस्तथा रुद्रः सूर्यश्चैवानिलोऽनलः । सिद्धाश्चैव सगन्धर्वास्तथैवाप्सरसः शुभाः

苏多说道:于是军荼、鲁陀罗与苏利耶,同风神伐由与火神阿耆尼;诸成就者(Siddha)与乾闼婆,以及吉祥的天女(Apsaras)也都聚集启行。

Verse 49

पिशाचा गुह्यकाः सर्व इन्द्रो वरुण एव च । नागाः सर्वाः समाजग्मुः शुक्रो वाचस्पतिस्तथा

一切毗舍遮(Piśāca)与古希耶迦(Guhyaka)都来到;因陀罗与伐楼那亦然。诸那伽(Nāga)尽皆会集于彼,舒克罗与布里哈斯帕提也同来。

Verse 50

ग्रहाः सर्वे सनक्षत्रा वसवोऽष्टौ ध्रुवा दयः । अंतरिक्षचराः सर्वे ये चान्ये नगवासिनः

诸行星(graha)与诸星宿(nakṣatra)尽皆来至;八位婆苏(Vasu)与诸“坚固者”(Dhruva)亦然。凡行于中空者,以及其余居于山岳者,皆会集于彼。

Verse 51

ब्रह्मादयः सुराः सर्वे वैकुण्ठं परया मुदा । मन्त्रणार्थं तदा ब्रह्मा विष्णवेऽमितते जसे

于是梵天与诸天神众,满怀至上欢喜,前往毗昆陀。为求商议,梵天趋近那光辉无量的毗湿奴。

Verse 52

गत्वा तस्मिंश्च वैकुण्ठे ब्रह्मा लोकपितामहः । ध्यात्वा मुहूर्तमाचष्ट विष्णुं प्रति सुहर्षितः

抵达那毗昆陀后,梵天——诸世界之祖父——静观片刻,继而欢欣无比地向毗湿奴启言。

Verse 53

ब्रह्मोवाच । कृष्ण कृष्ण महाबाहो कृपालो परमेश्वर । स्रष्टा त्वं चैव हर्ता त्वं त्वमेव जगतः पिता

梵天说道:“克里希那,克里希那!大臂勇者,慈悲的至上主宰!你是创造者,你亦是收摄者;唯你是宇宙之父。”

Verse 54

नमस्ते विष्णवे सौम्य नमस्ते गरुडध्वज । नमस्ते कम लाकांत नमस्तेब्रह्मरूपिणे

礼敬于你,温和的毗湿奴;礼敬于你,旌旗为迦楼罗者。礼敬于你,莲华女神迦摩罗(吉祥天女拉克希米)之所爱;礼敬于你,示现梵天之形者。

Verse 55

नमस्ते मत्स्यरूपाय विश्वरूपाय वै नमः । नमस्ते दैत्यनाशाय भक्तानामभयाय च

礼敬于你,示现鱼身(摩蹉)之相者;亦礼敬于你,遍一切的宇宙之身。礼敬于你,摧灭阿修罗族(代底耶)者;礼敬于你,赐予信众无畏者。

Verse 56

कंसघ्नाय नमस्तेस्तु बलदैत्यजिते नमः । ब्रह्मणैवं स्तुतश्चासीत्प्रत्यक्षोऽसौ जनार्द्दनः

向你顶礼,诛灭迦ṃ萨者;向你顶礼,降伏魔罗婆罗者。梵天如是赞颂之时,阇那尔达那便在他面前显现。

Verse 57

पीतांबरो घनश्यामो नागारिकृतवाहनः । चतुर्भुजो महा तेजाः शंखचक्रगदाधरः

他身披黄衣,色如雨云般深黯,以大蛇为乘。四臂具足,光辉炽盛,执持海螺、神轮与金刚杵般的神杖。

Verse 58

स्तूयमानः सुरैः सर्वैः स देवोऽमितविक्रमः । विद्याधरैस्तथा नागैः स्तूयमानश्च सर्वशः

那位神祇勇力无量,为一切天众所赞;亦为持明众与龙众所颂,四方处处皆闻赞叹。

Verse 59

उत्तस्थौ स तदा देवो भास्करामितदीप्तिमान् । कोटिरत्नप्रभाभास्वन्मुकुटादिविभूषितः

尔时彼神起身,光耀如无数日轮。其冠冕等诸庄严,放射千万宝珠之辉。