Adhyaya 9
Avanti KhandaReva KhandaAdhyaya 9

Adhyaya 9

本章由圣者室利·摩尔坎德耶(Śrī Mārkaṇḍeya)宣说,描绘劫末大毁灭(yugānta-pralaya)的景象:世界为洪水所淹没。至上主湿婆(Śiva)安住于瑜伽三昧之中,由原质(Prakṛti)承托;诸仙与天众瞻仰赞叹其无上威德。 继而展开一段教义问答:梵天(Brahmā)哀叹四部吠陀失落,指出吠陀对再度创世、对时间(过去/现在)的记忆与对有序知识皆不可或缺。依湿婆之启示,纳尔玛达(Narmadā,亦名Revā)说明缘由:强大的阿修罗族大力士摩度与凯塔婆(Madhu、Kaiṭabha)趁神圣“睡眠”之际的空隙,将吠陀藏入大海深处。 随后追述毗湿奴的介入:神明化为鱼形(mīnarūpa),下至帕塔拉(Pātāla)寻得吠陀,击败二魔,并将吠陀归还梵天,使创世得以重启。章末归结为河流神学:恒河(Gaṅgā)、瑞瓦/纳尔玛达与萨拉斯瓦蒂(Sarasvatī)乃同一神圣力量的三种显现,各与重要神格相应。纳尔玛达被赞为微妙、遍在、能净化、并为渡越轮回(saṃsāra)之途;触及其水与在其岸边虔敬礼拜湿婆,能得清净与更高的灵性果报。

Shlokas

Verse 1

श्रीमार्कण्डेय उवाच । पुनर्युगान्तं ते चान्यं सम्प्रवक्ष्यामि तच्छृणु । सूर्यैरादीपिते लोके जङ्गमे स्थावरे पुरा

圣者摩尔坎德耶说道:“我将再为你宣说另一种劫末;谛听。往昔,当诸日炽燃灼烤世界之时,动者与不动者皆受其苦。”

Verse 2

सरित्सरःसमुद्रेषु क्षयं यातेषु सर्वशः । निर्मानुषवषट्कारे ह्यमर्यादगतिं गते

当江河、湖泊与大海处处尽皆枯竭毁灭,而人间祭仪中“婆沙吒(vaṣaṭ)”之声亦告止息——确然,当一切堕入越出正序的境地——……

Verse 3

नानारूपैस्ततो मेघैः शक्रायुधविराजितैः । सर्वमापूरितं व्योम वार्यौघैः पूरिते तदा

随后,苍穹尽被千姿万状的云层充满,因帝释天之武器——闪电——而辉耀;彼时又为奔涌的水流所漫灌。

Verse 4

ततस्त्वेकार्णवीभूते सर्वतः सलिलावृते । जगत्कृत्वोदरे सर्वं सुष्वाप भगवान्हरः

继而,当万有化作一片大海,四方尽为水所覆时,吉祥的诃罗(湿婆)将整个宇宙纳入腹中,遂卧而入睡。

Verse 5

प्रकृतिं स्वामवष्टभ्य योगात्मा स प्रजापतिः । शेते युगसहस्रान्तं कालमाविश्य सार्णवम्

执持自身之普拉克利提(宇宙本性),那以瑜伽为体、为众生之祖的主(Prajāpati),融入海洋洪流之中安卧,直至千劫终尽。

Verse 6

तत्र सुप्तं महात्मानं ब्रह्मलोकनिवासिनः । भृग्वादिऋषयः सर्वे ये चान्ये सनकादयः

彼处,大圣者安卧沉睡;居于梵天界(Brahmaloka)的一切圣仙——婆利古等——以及如萨那迦与其诸弟等,皆前来瞻礼而观。

Verse 7

पर्यङ्के विमले शुभ्रे नानास्तरणसंस्तृते । शयानं ददृशुर्देवं सपत्नीकं वृषध्वजम्

在一张清净光耀的卧榻上,铺陈着重重帷褥;他们见到神安卧其中——牛旗之主(Vṛṣadhvaja)湿婆——并与其圣配同在。

Verse 8

विश्वरूपा तु सा नारी विश्वरूपो महेश्वरः । गाढमालिङ्ग्य सुप्तस्तां ददृशे चाहमव्ययम्

那位女神具足宇宙之相,摩诃湿伐罗亦具足宇宙之相。祂紧紧拥抱着她而安睡;我得见那不坏不灭的永恒者。

Verse 9

। अध्याय

章——章节标题标记。

Verse 10

विमलाम्बरसंवीतां व्यालयज्ञोपवीतिनीम् । श्यामां कमलपत्राक्षीं सर्वाभरणभूषिताम्

他们见她身披洁净无垢之衣,以蛇为圣线;肤色幽黯,双目如莲瓣,遍身庄严诸般饰物。

Verse 11

सकलं युगसाहस्रं नर्मदेयं विजानती । प्रसुप्तं देवदेवेशमुपास्ते वरवर्णिनी

她深知那尔摩陀之域;那位容光殊胜的女神,恭敬侍奉沉入深定安卧的诸天之天主,历经整整千个劫期。

Verse 12

हृतैर्वेदैश्चतुर्भिश्च ब्रह्माप्येवं महेश्वरः । भृग्वाद्यैर्मानसैः पुत्रैः स्तौति शङ्करमव्ययम्

即便梵天——纵使四部吠陀已被夺去——也如此与婆利古等诸位意生之子一同赞颂不坏的商羯罗。

Verse 13

भक्त्या परमया राजंस्तत्र शम्भुमनामयम् । स्तुवन्तस्तत्र देवेशं मन्त्रैरीश्वरसम्भवैः

大王啊,他们在那里以至上的虔敬赞颂无瑕的商布(Śambhu);又以由自在天(Īśvara)所生的真言,称扬诸神之主。

Verse 14

प्रसुप्तं देवमीशानं बोधयन्समुपस्थितः । उत्तिष्ठ हर पिङ्गाक्ष महादेव महेश्वर

他近前站立,欲唤醒沉睡的主宰伊沙那(Īśāna),说道:“起身吧,哈罗(Hara)!黄褐眼者啊——大天(Mahādeva)、大自在主(Maheśvara)!”

Verse 15

मम वेदा हृताः सर्वे अतोऽहं स्तोतुमुद्यतः । वेदैर्व्याप्तं जगत्सर्वं दिव्यादिव्यं चराचरम्

我的一切吠陀都被夺走了;因此我如今起而献上赞颂。因为整个宇宙——无论神圣或非神圣,动与不动——皆为吠陀所遍满并所维系。

Verse 16

अतीतं वर्तमानं च स्मरामि च सृजाम्यहम् । तैर्विना चाहमेकस्तु मूकोऽधो जडवत्सदा

我忆念过去与现在,也使创造显现;然而离开它们(吠陀),我独自便恒常沉默、卑微而迟钝,如同失觉之人。

Verse 17

गतिर्वीर्यं बलोत्साहौ तैर्विना न प्रजायते । तैर्विना देवदेवेश नाहं किंचित्स्मरामि वै

没有它们,行进、精进、力量与决意都不会生起。没有它们,诸神之主啊,我确实什么也记不起。

Verse 18

तान्वेदान्देवदेवेश शीघ्रं मे दातुमर्हसि । जडान्धबधिरं सर्वं जगत्स्थावरजङ्गमम्

因此,诸天之主啊,愿你速赐我那诸《吠陀》。若无《吠陀》,整个世界——无论静止或行走——都如同麻木、盲目而聋哑。

Verse 19

स्थानादि दश चत्वारि न शोभन्ते सुरेश्वर । प्रणमाम्यल्पवीर्यत्वाद्वेदहीनः सुरेश्वर

诸天之主啊,于我而言,十四处境界等皆不显光辉。因缺失《吠陀》而力微,我向你顶礼,哦,天主(Sureśvara)。

Verse 20

वेदेभ्यः सकलं जातं यत्किंचित्सचराचरम् । तावच्छोभन्ति शास्त्राणि समस्तानि जगद्गुरो

一切所有——动与不动——皆由《吠陀》而生。唯有依《吠陀》而立,诸经论方得光明,哦,世间之师。

Verse 21

यावद्वेदनिधिरयं नोपतिष्ठेत्सनातनः । यथोदितेन सूर्येण तमो याति विनाशताम्

只要这永恒的《吠陀》宝藏尚未现前,黑暗便仍存;正如太阳升起,幽暗即趋于消亡。

Verse 22

एवं समस्तपापानि यान्ति वेदस्य धारणात् । वेदे रहसि यत्सूक्ष्मं यत्तद्ब्रह्म सनातनम्

如是,凭持守《吠陀》,一切罪垢皆得远离。而《吠陀》中那幽微而秘密的精髓——当知即是永恒的梵(Brahman)。

Verse 23

हृदिस्थं देव जानामि गतं तद्वेदगर्जनात् । वेदानुच्चरतो मेऽद्य तव शङ्कर चाग्रतः

噢神明,我知那曾住于我心者已离去,被吠陀的轰鸣所卷走。今日我不能诵持诸吠陀,便立于你前,噢商羯罗。

Verse 24

अकस्मात्ते गता वेदा न सृजेयं विभो भुवम् । तेऽपि सर्वे महादेव प्रविष्टाः सम्मुखार्णवम्

当你的诸吠陀忽然离去,噢主宰,我便不能创造世界。那些吠陀亦然,噢摩诃提婆,尽皆进入你面前的海洋之中。

Verse 25

ते याच्यमाना देवेश तिष्ठन्तु स्मरणे मम । दुहितेयं विशालाक्षी सर्वः सर्वं विजानते

噢诸神之主,当人恳求之时,愿他们常住我忆念之中。此女广目,知晓一切;诚然,全知者洞悉万有。

Verse 26

जायती युगसाहस्रं नान्या काचिद्भवेदृशी । ऋषिश्चायं महाभागो मार्कण्डो धीमतां वरः

她延续千劫(yuga)而不坏,世间再无与之相似者。此圣仙亦然,福德深厚的马尔坎德耶,为智者之最上。

Verse 27

कल्पे कल्पे महादेव त्वामयं पर्युपासते । जगत्त्रयहितार्थाय चरते व्रतमुत्तमम्

在每一劫(kalpa)之中,噢摩诃提婆,他都以虔敬随侍而礼拜于你。为三界之安乐,他奉行最上之誓戒。

Verse 28

एवमुक्तस्तु देवेशो ब्रह्मणा परमेष्ठिना । उवाच श्लक्ष्णया वाचा नर्मदां सरितां वराम्

至上者梵天如此启请之后,诸天之主以柔和之语对那尔玛达河——众河之最——说道。

Verse 29

कथयस्व महाभागे ब्रह्मणस्त्वं तु पृच्छतः । केन वेदा हृताः सर्वे वेधसो जगतीगुरोः

大福德者啊,请如实告知;梵天正在询问:是谁从造物主、世间之师那里盗走了一切吠陀?

Verse 30

एवमुक्ता तु रुद्रेण उवाच मृगलोचना । ब्रह्मणो जपतो वेदांस्त्वयि सुप्ते महेश्वर

鲁陀罗如此问罢,那位鹿眼者答道:“当梵天诵持吠陀之时,而你,摩诃伊湿伐罗啊,正沉睡之际……”

Verse 31

भवतश्छिद्रमासाद्य घोरेऽस्मिन्सलिलावृते । पूर्वकल्पसमुद्भूतावसुरौ सुरदुर्जयौ

趁得你一时疏漏,在这被洪水覆蔽的可怖广域中,出现了两位出自前一劫的阿修罗——连诸天也难以战胜。

Verse 32

श्रियावृत्तौ महादेव त्वया चोत्पादितौ पुरा । सुरासुरसुदुर्जेयौ दानवौ मधुकैटभौ

摩诃提婆啊,因与吉祥天女室利之运转相关,你昔日令其出生——檀那婆魔度与凯塔婆,诸天与阿修罗皆难以征服。

Verse 33

तौ वायुभूतौ सूक्ष्मौ च पठतोऽस्मात्पितामहात् । तावाशु हृत्वा वेदांश्च प्रविष्टौ च महार्णवम्

那二者化作如风般微细之形,趁梵祖诵读之时迅速盗走诸吠陀,随即潜入浩瀚大海。

Verse 34

एतच्छ्रुत्वा महातेजा ह्यमृतायास्ततो वचः । सस्मार स च देवेशं शङ्खचक्रगदाधरम्

听闻甘露女神(那尔摩陀)之言,那位大威光者遂忆念主宰——执螺、持轮、握杵者。

Verse 35

स विवेश महाराज भूतलं ससुरोत्तमः । दानवान्तकरो देवः सर्वदैवतपूजितः

大王啊,那位神——为诸天中最胜者所赞,灭尽檀那婆者,亦为一切神众所礼敬——遂进入大地之下的幽冥界。

Verse 36

मीनरूपधरो देवो लोडयामास चार्वणम् । वेदांश्च ददृशे तत्र पाताले निहितान्प्रभुः

主宰化为鱼身,翻搅搜寻那水之深处;并在波多罗界中,至尊见到被藏匿的诸吠陀。

Verse 37

तौ च दैत्यौ महावीर्यौ दृष्टवान्मधुसूदनः । महावेगौ महाबाहू सूदयामास तेजसा

见那两位勇力无比、冲势迅疾的代底耶,摩度苏陀那——大臂之主——以神威光明将其击倒。

Verse 38

वेदांस्तत्रापि तोयस्थानानिनाय जगद्गुरुः । चतुर्वक्त्राय देवायाददाच्चक्रविभूषितः

随后,世间之师甚至从那水中居处取回诸吠陀;他身佩神轮(苏达尔沙那轮),将吠陀交付给四面之神梵天。

Verse 39

ततः प्रहृष्टो भगवान् वेदांल्लब्ध्वा पितामहः । जनयामास निखिलं जगद्भूयश्चराचरम्

其后,受敬的始祖梵天得回诸吠陀而欢喜,复又生起整个宇宙——动者与不动者尽皆如故。

Verse 40

सा च देवी नदी पुण्या रुद्रस्य परिचारिका । पावनी सर्वभूतानां प्रोवाह सलिलं तदा

而那位圣洁的河流女神,乃鲁陀罗之侍从,净化一切众生;当时便令清流奔涌而出。

Verse 41

तस्यास्तीरे ततो देवा ऋषयश्च तपोधनाः । यजन्ति त्र्यम्बकं देवं प्रहृष्टेनान्तरात्मना

在她的河岸上,诸天与富于苦行之仙人礼敬三目神特里安巴卡(湿婆),内心充满欢悦。

Verse 42

एका मूर्तिर्महेशस्य कारणान्तरमागता । त्रैगुण्या कुरुते कर्म ब्रह्मचक्रीशरूपतः

大自在天摩诃湿婆以另一因缘之相显现,凭借三种古那而行诸业:或现为梵天,或现为持轮者毗湿奴,或现为自在主湿婆。

Verse 43

एतेषां तु पृथग्भावं ये कुर्वन्ति सुमोहिताः । तेषां धर्मः कुतः सिद्धिर्जायते पापकर्मिणाम्

然而那些被迷惑至深、执意在这些神圣形相之间分别彼此的人——这样的罪业之人,怎能成就正法与灵性圆满?

Verse 44

एवमेता महानद्यस्तिस्रो रुद्रसमुद्भवाः । एका एव त्रिधा भूता गङ्गा रेवा सरस्वती

因此,这三条大河皆由鲁陀罗而生:本为一体,却化作三相——恒河(Gaṅgā)、瑞瓦(Revā,纳尔马达 Narmadā)与萨拉斯瓦蒂(Sarasvatī)。

Verse 45

गङ्गा तु वैष्णवी मूर्तिः सर्वपापप्रणाशिनी । रुद्रदेहसमुद्भूता नर्मदा चैवमेव तु

恒河确是毗湿奴的显现,能灭尽一切罪垢。同样,纳尔马达亦然——由鲁陀罗之身而出,也具同等的灭罪之力。

Verse 46

ब्राह्मी सरस्वती मूर्तिस्त्रिषु लोकेषु विश्रुता । दिव्या कामगमा देवी वाग्विभूत्यै तु संस्थिता

萨拉斯瓦蒂是梵天所生的梵天相(Brāhmī)之化身,名闻三界。她为神圣的满愿女神,安住于赐予言语的光辉与自在之力。

Verse 47

नर्मदा परमा काचिन्मर्त्यमूर्तिकला शिवा । दिव्या कामगमा देवी सर्वत्र सुरपूजिता

纳尔马达至为尊胜——是湿婆自身以一分之相,显现为凡人可见的形体。她神圣而满愿,处处受诸天礼敬。

Verse 48

व्यापिनी सर्वभूतानां सूक्ष्मात्सूक्ष्मतरा स्मृता । अक्षया ह्यमृता ह्येषा स्वर्गसोपानमुत्तमा

她遍满一切众生,被忆念为比至微更微。她确实不坏,确实不死;她是通往天界的至上阶梯。

Verse 49

सृष्टा रुद्रेण लोकानां संसारार्णवतारिणी

她由鲁陀罗为诸世界所造,能渡众生越过轮回之海。

Verse 50

सीरजलं येऽपि पिबन्ति लोके मुच्यन्ति ते पापविशेषसङ्घैः । व्रजन्ति संसारमनादिभावं त्यक्त्वा चिरं मोक्षपदं विशुद्धम्

即便此世饮用犁引之水者,也能从种种罪业之堆中解脱。由于久已舍离清净的解脱境界,他们又复进入无始的轮回世间。

Verse 51

यथा गङ्गा तथा रेवा तथा चैव सरस्वती । समं पुण्यफलं प्रोक्तं स्नानदर्शनचिन्तनैः

恒河如是,勒瓦亦如是,萨拉斯瓦蒂亦复如是。经由沐浴、瞻礼与忆念她们,所生功德之果等量无差。

Verse 52

वरदानान्महाभागा ह्यधिका चोच्यते बुधैः । कारुण्यान्तरभावेन न मृता समुपागता

因她赐予恩愿,这位大福者被智者称为更为殊胜。由于她内在的悲悯之性,她并未“消逝”或减损。

Verse 53

मुच्यन्ते दर्शनात्तेन पातकैः स्नानमङ्गलैः । नर्मदायां नृपश्रेष्ठ ये नमन्ति त्रिलोचनम्

凭借那吉祥的沐浴,乃至仅仅一见,众人便从罪垢中解脱。噢,诸王之最:凡在那尔摩陀河畔顶礼三目主——三眼的湿婆者,皆得如是解脱。

Verse 54

उमारुद्राङ्गसम्भूता येन चैषा महानदी । लोकान्प्रापयते स्वर्गं तेन पुण्यत्वमागता

由于这条大河出自乌玛与鲁陀罗之身,又因她能引导众生趋向天界,因此她获得了至上的功德与神圣之位。

Verse 55

य एवमीशानवरस्य देहं विभज्य देवीमिह संशृणोति । स याति रुद्रं महतारवेण गन्धर्वयक्षैरिव गीयमानः

凡在此如是聆听女神之事迹——即至胜主伊沙那之身如何分化——便得趋至鲁陀罗,伴随宏大的赞颂之声前行,宛如由乾闼婆与夜叉歌咏。