
本章以问答式神学论述展开。尤提士提罗请马尔坎德耶简要说明:为何一尊被称为“自母牛之身显出”的林伽,会安置在那尔玛达河(Narmadā)南岸、摩尼那伽(Maṇināga)附近;又为何此处被奉为能灭罪的圣地。马尔坎德耶叙述:苏拉毗/迦毗罗(Surabhi/Kapilā)这位典范之牛,为诸世界利益而以虔敬与禅观礼念大自在天(Maheśvara);湿婆欢喜示现,并允诺住于该渡口圣地(tīrtha),使其以“一浴速净”而闻名。 随后经文制定施与之仪的伦理规范:“瞿波雷湿伐罗牛施”(Gopāreśvara-go-dāna)应以信敬而行,将合格之牛(并依所说配以金饰/装饰)施予具德婆罗门,并注明时日(如黑半月第十四日/第八日,尤重迦尔提迦月 Kārttika)。又列举辅行:为拔济饿鬼(preta)而行的团食供(piṇḍadāna),每日礼敬鲁陀罗(Rudra-namaskāra)以消融罪障,以及放施公牛(vṛṣotsarga),利益祖灵(pitṛ),并按公牛毛数得在湿婆界(Śiva-loka)久享荣誉,继而获吉祥再生。章末重申圣地身份:那尔玛达河南岸之瞿波雷湿伐罗,其林伽的非凡来由正是此 tīrtha 神圣性的标记。
Verse 1
श्रीमार्कण्डेय उवाच । नर्मदादक्षिणे कूले तीर्थं परमशोभनम् । सर्वपापहरं पार्थ गोपारेश्वरमुत्तमम् । गोदेहान्निःसृतं लिङ्गं पुण्यं भूमितले नृप
圣者马尔坎德耶说道:在那尔摩陀河的南岸,有一处极其庄严美妙的圣地,哦帕尔塔——最上妙的戈帕雷湿伐罗,能除尽一切罪垢。哦大王,在那大地之上安住着一尊清净的林伽,乃自一头母牛之身显现而出。
Verse 2
युधिष्ठिर उवाच । गोदेहान्निःसृतं कस्माल्लिङ्गं पापक्षयंकरम् । दक्षिणे नर्मदाकूले मणिनागसमीपतः । संक्षेपात्कथ्यतां विप्र गोपारेश्वरसम्भवम्
尤提希提罗说道:为何那自母牛之身涌现的林伽,能成为灭罪之因?在那尔摩陀河南岸、摩尼那伽近旁,请你简要讲述吧,婆罗门啊,戈帕雷湿伐罗的由来。
Verse 3
श्रीमार्कण्डेय उवाच । कामधेनुस्तपस्तत्र पुरा पार्थ चकार ह । ध्यायते परया भक्त्या देवदेवं महेश्वरम्
圣者马尔坎德耶说道:往昔,哦帕尔塔,迦摩提奴曾在彼处修行苦行,以至诚无上的奉爱观想摩诃湿伐罗——诸神之神。
Verse 4
तुष्टस्तस्या जगन्नाथ कपिलाय महेश्वरः । निःसृतो देहमध्यात्तु अच्छेद्यः परमेश्वरः
世间之主摩诃湿伐罗因她而欢喜,为迦毗罗显现,从她身躯中央涌出,作为不可分割的至上主。
Verse 5
तुष्टो देवि जगन्मातः कपिले परमेश्वरि । आराधनं कृतं यस्मात्तद्वदाशु शुभानने
女神啊,世间之母——迦毗罗,至上女主——既已成就供奉礼敬,便请你这容颜端丽者速速言明所愿。
Verse 6
सुरभ्युवाच । लोकानामुपकाराय सृष्टाहं परमेष्ठिना । लोककार्याणि सर्वाणि सिध्यन्ति मत्प्रसादतः
苏罗毗说道:为利益诸世界,我由至上造物主帕罗摩什提因(梵天)所造。凭我的恩惠,世间众生的一切事业与所求皆得成就。
Verse 7
लोकाः स्वर्गं प्रयास्यन्ति मत्प्रसादेन शङ्कर । तीर्थे त्वं भव मे शम्भो लोकानां हितकाम्यया
商羯罗啊,凭我的恩典,人们得以趋向天界。因此,商部啊,请为我在此圣地(tīrtha)显现,出于对诸世界福祉的愿心。
Verse 8
तथेति भगवानुक्त्वा तीर्थे तत्रावसन्मुदा । तदाप्रभृति तत्तीर्थं विख्यातं वसुधातले । स्नानेनैकेन राजेन्द्र पापसङ्घं व्यपोहति
圣尊说道:“如是。”便欢喜地住于彼处圣地(tīrtha)。自此以后,此圣处在大地上声名远播。王中之王啊,只需一次沐浴,便能涤除无数罪垢。
Verse 9
गोपारेश्वरगोदानं यस्तु भक्त्या च कारयेत् । योग्ये द्विजोत्तमे देया योग्या धेनुः सकाञ्चना
凡以虔敬为戈帕雷湿伐罗(Gopāreśvara)举行“施牛”者,当施与堪受的最上二次生者:一头合宜之母牛,并以黄金相随。
Verse 10
सवत्सा तरुणी शुभ्रा बहुक्षीरा सवस्त्रका । कृष्णपक्षे चतुर्दश्यामष्टम्यां वा प्रदापयेत्
当施与一头年轻洁白之母牛,携其犊,乳汁丰盈,并配以衣布;应于黑半月第十四日,或第八日行施。
Verse 11
सर्वेषु चैव मासेषु कार्त्तिके च विशेषतः । दापयेत्परया भक्त्या द्विजे स्वाध्यायतत्परे
于诸月之中——尤以迦尔提迦月(Kārttika)为胜——当以至上虔敬,施与专志于诵习圣典(svādhyāya)之二次生者。
Verse 12
विधिना च प्रदद्याद्यो विधिना यस्तु गृह्णते । तावुभौ पुण्यकर्माणौ प्रेक्षकः पुण्यभाजनम्
依仪轨而施者,依仪轨而受者,二者皆为行福德业之人;即便旁观者,亦成受福之器。
Verse 13
पिण्डदानं प्रकुर्याद्यः प्रेतानां भक्तिसंयुतः । पिण्डेनैकेन राजेन्द्र प्रेता यान्ति परां गतिम्
凡以虔敬为亡者行皮恩达供(piṇḍa-dāna)者——噢,诸王之最——即使仅以一枚供团,亡灵亦得趋入至上归趣。
Verse 14
भक्त्या प्रणामं रुद्रस्य ये कुर्वन्ति दिने दिने । तेषां पापं प्रलीयेत भिन्नपात्रे जलं यथा
凡日日以虔敬向鲁陀罗顶礼者——其罪业消融,如水入裂器而散。
Verse 15
तत्र तीर्थे तु यो राजन्वृषभं च समुत्सृजेत् । पितरश्चोद्धृतास्तेन शिवलोके महीयते
大王啊,凡在彼圣地渡口行放牛施(vṛṣotsarga)者——由其功德,祖先得以超拔,而彼人在湿婆之界受尊崇。
Verse 16
युधिष्ठिर उवाच । वृषोत्सर्गे कृते तात फलं यज्जायते नृणाम् । तत्सर्वं कथयस्वाशु प्रयत्नेन द्विजोत्तम
尤提希提罗说道:“尊者啊,婆罗门中最胜者——请速以谨慎详告:人们行放牛施(vṛṣotsarga)时所生的一切果报。”
Verse 17
श्रीमार्कण्डेय उवाच । सर्वलक्षणसम्पूर्णे वृषे चैव तु यत्फलम् । तदहं सम्प्रवक्ष्यामि शृणुष्व धर्मनन्दन
圣者马尔坎德耶说道:“放生具足一切吉祥相之雄牛所得之果报——我今当宣说。听吧,法之子。”
Verse 18
कार्त्तिके चैव वैशाखे पूर्णिमायां नराधिप । रुद्रस्य सन्निधौ भूत्वा शुचिः स्नातो जितेन्द्रियः
在人主啊,于迦尔提迦月及毗舍佉月之望日——来到鲁陀罗之前,身心清净,沐浴已毕,制御诸根——
Verse 19
वृषस्यैव समुत्सर्गं कारयेत्प्रीयतां हरः । सांनिध्ये कारयेत्पुत्र चतस्रो वत्सिकाः शुभाः
应当施放公牛作为布施,使哈罗(湿婆)欢喜。并且就在其面前,孩子啊,还应安排四头吉祥的小母牛犊。
Verse 20
दत्त्वा तु विप्रमुख्याय सर्वलक्षणसंयुताः । प्रीयतां च महादेवो ब्रह्मा विष्णुर्महेश्वरः
将这些具足一切吉相者布施给最尊贵的婆罗门,愿大天(摩诃提婆)欢喜;愿梵天、毗湿奴与大自在天(摩醯首罗)亦皆欢喜。
Verse 21
वृषभे रोमसंख्या या सर्वाङ्गेषु नराधिप । तावद्वर्षप्रमाणं तु शिवलोके महीयते
大王啊,公牛全身有多少毛发,就有多少年的时量;以此年数,人在湿婆之界受尊崇而显耀。
Verse 22
शिवलोके वसित्वा तु यदा मर्त्येषु जायते । कुले महति सम्भूतिर्धनधान्यसमाकुले
在湿婆之界居住之后,当再度生于人间,便投生于显赫家族,财宝与谷粮充盈。
Verse 23
नीरोगो रूपवांश्चैव विद्याढ्यः सत्यवाक्शुचिः । गोपारेश्वरमाहात्म्यं मया ख्यातं युधिष्ठिर । गोदेहान्निःसृतं लिङ्गं नर्मदादक्षिणे तटे
由此人将无病安康、容貌端严、学识丰厚、言语真实而清净。尤提施提罗啊,我已宣说戈帕雷湿伐罗的伟大:那是在那尔摩达河之南岸,从母牛之身显现的林伽。
Verse 73
। अध्याय
章终(章末题记/结束标记)。