Adhyaya 155
Avanti KhandaReva KhandaAdhyaya 155

Adhyaya 155

第155章以对话体展开,马尔坎德耶指出那尔摩陀河(Narmadā)北岸的白圣渡(Śukla Tīrtha)为无与伦比的朝圣胜地。经文建立诸圣地(tīrtha)的层级,宣称其他圣地的功德,连白圣渡的一小部分都无法相比。 其论证首先赞颂那尔摩陀为普遍净化之圣河;继而叙述缘起:毗湿奴(Viṣṇu)在白圣渡久修苦行(tapas),湿婆(Śiva)显现并加以祝圣,使此地成为既赐世间安泰、亦能导向解脱(mokṣa)的圣域。随后以迦那迦王(Cāṇakya)为例:两位受诅咒者化作乌鸦被遣往阎摩(Yama)之界,阎摩却宣告,凡死于白圣渡者不在其管辖之内,无须审判便得更高境界。 乌鸦又述见阎摩之城,列举诸地狱及其道德因果,并提及施舍(dāna)者享受布施之果报。章末迦那迦王断除情欲,尽舍财物,入圣渡沐浴后得毗湿奴信奉者之善终,重申本章关于德行与救度的宗旨。

Shlokas

Verse 1

। श्रीमार्कण्डेय उवाच । अतः परं प्रवक्ष्यामि सर्वतीर्थादनुत्तमम् । उत्तरे नर्मदाकूले शुक्लतीर्थं युधिष्ठिर

圣者马尔坎德耶说道:接下来我将宣说一切圣地(tīrtha)中无与伦比者——在那尔摩陀河(Narmadā)北岸的白圣地“舒克拉圣地”(Śukla-tīrtha),噢,尤迪希提罗。

Verse 2

तस्य तीर्थस्य चान्यानि पुण्यत्वाच्छुभदर्शनात् । पृथिव्यां सर्वतीर्थानि कलां नार्हन्ति षोडशीम्

由于此圣地(tīrtha)的神圣与吉祥之见,世间一切其他圣地都不及其光辉的十六分之一。

Verse 3

युधिष्ठिर उवाच । तस्य तीर्थस्य माहात्म्यं श्रोतुमिच्छामि तत्त्वतः । भ्रातृभिः सहितः सर्वैस्तथान्यैर्द्विजसत्तमैः

玉帝士提罗说道:我愿如实、详尽地聆听那圣地(tīrtha)的伟大功德——与我诸兄弟同在,并与其他最尊贵的婆罗门一同聆听。

Verse 4

श्रीमार्कण्डेय उवाच । शुक्लतीर्थस्य चोत्पत्तिमाकर्णय नरेश्वर । यस्य संदर्शनादेव ब्रह्महत्या प्रलीयते

圣者摩尔甘德耶说道:大王啊,请听我讲述白圣地(Śukla-tīrtha)的起源;仅凭一见,连弑婆罗门之罪亦得消融。

Verse 5

नर्मदा सरितां श्रेष्ठा सर्वपापप्रणाशिनी । यच्च बाल्यं कृतं पापं दर्शनादेव नश्यति

那尔摩陀河(Narmadā)为诸河之最胜,能灭尽一切罪业;即便童年所造之过失,也仅因一见而消散。

Verse 6

मोक्षदानि न सर्वत्र शुक्लतीर्थमृते नृप । शुक्लतीर्थस्य माहात्म्यं पुराणे यच्छ्रुतं मया

大王啊,能赐解脱(mokṣa)的圣地并非处处皆有——唯有白圣地(Śukla-tīrtha)例外。白圣地的伟大功德,乃我在诸《往世书》(Purāṇa)中所闻。

Verse 7

समागमे मुनीनां तु देवानां हि तथैव च । कथितं देवदेवेन शितिकण्ठेन भारत । कैलासे पर्वतश्रेष्ठे तत्ते संकथयाम्यहम्

在诸牟尼的会集之中,亦在诸天神之前,天中之天——青颈者湿提迦ṇṭha(湿婆),婆罗多啊,于最胜之山迦罗娑(Kailāsa)如是宣说。此事缘由,我今当为汝叙述。

Verse 8

पुरा कृतयुगस्यादौ तोषितुं गिरिजापतिम् । तपश्चचार विपुलं विष्णुर्वर्षसहस्रकम् । वायुभक्षो निराहारः शुक्लतीर्थे व्यवस्थितः

久远以前,于克利多(Kṛta)劫初,为令吉利迦之主(湿婆)欢喜,毗湿奴修行广大苦行一千年。唯以风为食,绝断饮食,安住于白净圣渡处——Śukla-tīrtha。

Verse 9

ततः प्रत्यक्षतामागाद्देवदेवो महेश्वरः । प्रादुर्भूतस्तु सहसा तत्र तीर्थे नराधिप

于是,天中之天大自在天(Maheśvara)亲自显现;人中王啊,他忽然在那圣渡处(tīrtha)现身。

Verse 10

क्रोशद्वयमिदं चक्रे भुक्तिमुक्तिप्रदायकम् । तस्मिंस्तीर्थे नरः स्नात्वा मुच्यते सर्वकिल्बिषैः

他使此地周延二拘舍(krośa),成为赐予世间福乐(bhukti)与解脱(mukti)之所。人在彼圣渡处沐浴,即得脱离一切罪垢。

Verse 11

गङ्गा कनखले पुण्या कुरुक्षेत्रे सरस्वती । ग्रामे वा यदि वारण्ये पुण्या सर्वत्र नर्मदा

恒河在迦那迦罗(Kanakhala)为圣;萨拉斯瓦蒂在俱卢之野(Kurukṣetra)为圣。然而那尔摩陀河(Narmadā)处处皆圣——无论村落或林野。

Verse 12

सर्वौषधीनामशनं प्रधानं सर्वेषु पेयेषु जलं प्रधानम् । निद्रा सुखानां प्रमदा रतीनां सर्वेषु गात्रेषु शिरः प्रधानम्

在一切药物之中,饮食为最上;在一切饮品之中,清水为最上。于诸乐之中,睡眠为最上;于爱欲之欢中,所爱之女为最上。于诸肢体之中,头为最上。

Verse 13

स्नातस्यापि यथा पुण्यं ललाटं नृपसत्तम । शुक्लतीर्थं तथा पुण्यं नर्मदायां युधिष्ठिर

大王之最胜者啊,正如即便已沐浴之人,其额亦被视为尤为吉祥;如是,尤提希提罗啊,纳尔玛达河上的白圣渡(Śukla-tīrtha)亦尤为神圣。

Verse 14

सरितां च यथा गङ्गा देवतानां जनार्दनः । शुक्लतीर्थं तथा पुण्यं नर्मदायां व्यवस्थितम्

正如诸河之中恒河为最上,诸天之中阇那尔达那(Janārdana)为最上;如是,安住于纳尔玛达的白圣渡(Śuklatīrtha)亦为至圣。

Verse 15

चतुष्पदानां सुरभिर्वर्णानां ब्राह्मणो यथा । प्रधानं सर्वतीर्थानां शुक्लतीर्थं तथा नृप

大王啊,正如四足众生之中苏拉毗(Surabhī)为最上,诸种姓(varṇa)之中婆罗门(Brāhmaṇa)为最上;如是,白圣渡(Śukla-tīrtha)亦为一切圣地渡口之最上。

Verse 16

ग्रहाणां तु यथादित्यो नक्षत्राणां यथा शशी । शिरो वा सर्वगात्राणां धर्माणां सत्यमिष्यते

正如诸曜(graha)之中太阳为首,诸宿之中月亮为首;又如诸肢体之中头为最上——如是,真理(satya)被认作一切法(dharma)之最上。

Verse 17

तथैव पार्थ तीर्थानां शुक्लतीर्थमनुत्तमम् । दुर्विज्ञेयो यथा लोके परमात्मा सनातनः

同样啊,普利塔之子,在诸圣地(tīrtha)之中,白圣地(Śuklatīrtha)无与伦比;然而它难以识别,正如此世中永恒的至上自性(Paramātman)难以了悟。

Verse 18

सुसूक्ष्मत्वादनिर्देश्यः शुक्लतीर्थं तथा नृप । मन्दप्रज्ञत्वमापन्ने महामोहसमन्वितः

同样啊,大王,白圣地(Śuklatīrtha)因其极其微妙而难以指示;陷入迟钝之智、为大迷妄所覆者,终不能领会它。

Verse 19

शुक्लतीर्थं ना जानाति नर्मदातटसंस्थितम् । बहुनात्र किमुक्तेन धर्मपुत्र पुनः पुनः

他不知那位于纳尔玛达河岸的白圣地(Śuklatīrtha)。在此又何必多言,法之子(Dharmaputra)啊,一再重复呢?

Verse 20

शुक्लतीर्थं महापुण्यं सम्प्राप्तं कल्मषक्षयात् । योऽत्र दत्ते शुचिर्भूत्वा एकं रेवाजलाञ्जलिम्

白圣地(Śuklatīrtha)具大功德,能灭除罪垢。凡人在此先令身心清净,献上一捧合掌(añjali)的瑞瓦河(Revā,即纳尔玛达)之水——

Verse 21

कल्पकोटिसहस्राणि पितरस्तेन तर्पिताः

凭此功行,祖先得以满足,历经千亿(crore)劫(kalpa)而受供养安慰。

Verse 22

एकः पुत्रो धरापृष्ठे पित्ःणामार्तिनाशनः । चाणक्यो नाम राजाभूच्छुक्लतीर्थं च वेद सः

在大地之上,有一位独子,能消除祖先的忧苦。名为迦那迦(Cāṇakya)的国王兴起;唯有他确知白净圣渡(Śuklatīrtha)。

Verse 23

युधिष्ठिर उवाच । कोऽसौ द्विजवरश्रेष्ठ चाणक्यो नाम नामतः । शुक्लतीर्थस्य यो वेत्ता नान्यो वेत्ता हि कश्चन

玉提湿提罗说道:“噢,最上等的婆罗门中之最胜者,那位名叫迦那迦(Cāṇakya)的人是谁?他知晓白净圣渡(Śuklatīrtha),而确实再无他人被称为知者。”

Verse 24

केनोपायेन तत्तीर्थं तेन ज्ञातं धरातले । तदहं श्रोतुमिच्छामि परं कौतूहलं हि मे

“那处圣渡(tīrtha)在世间是以何种方法被发现的?又是谁发现的?我愿聆听,因为我的好奇极其强烈。”

Verse 25

श्रीमार्कण्डेय उवाच । इक्ष्वाकुप्रभवो राजा नप्ता शुद्धोदनस्य च । चाणक्यो नाम राजर्षिर्बुभुजे पृथिवीमिमाम्

圣者马尔坎德耶说道:“有一位国王出自伊克湿伐库(Ikṣvāku)族系,是净饭王(Śuddhodana)之孙。那位名为迦那迦(Cāṇakya)的王仙,统御此大地。”

Verse 26

विक्रान्तो मतिमाञ्छूरः सर्वलोकैरवञ्चितः । वञ्चितः सहसा धूर्तवायसाभ्यां नृपोत्तमः

他勇猛、睿智、英武——从不为众人所欺——然而这位最胜之王,却忽然被两只狡黠的乌鸦所蒙骗。

Verse 27

युधिष्ठिर उवाच । कथं स वञ्चितो राजा वायसाभ्यां कुतोऽथवा । पुरा येन प्रतिज्ञातं धीगर्भेण महात्मना

尤提希提罗说道:“那位国王如何被两只乌鸦所欺骗——它们又从何而来?而在久远以前,大心者提伽尔婆(Dhīgarbha)又是如何立下誓约的?”

Verse 28

न जीवे वञ्चितोऽन्येन प्राणांस्त्यक्ष्ये न संशयः । एतन्मे वद विप्रेन्द्र परं कौतूहलं मम

“若被他人欺骗,我必不再苟活;我将舍弃性命——毫无疑问。请告诉我吧,婆罗门中最胜者;我心中好奇至极。”

Verse 29

श्रीमार्कण्डेय उवाच । आत्मानं वञ्चितं ज्ञात्वा तदा संगृह्य वायसौ । प्रेषयामास तीव्रेण दण्डेन यमसादनम्

圣者马尔坎德耶说道:“他觉知自己受了欺骗,便擒住那两只乌鸦,以严厉的刑罚将它们送往阎摩之所——死亡之境。”

Verse 30

वायसावूचतुः । सुन्दोपसुन्दयोः पुत्रावावां काकत्वमागतौ । मा वधीस्त्वं महाभाग कस्मिंश्चित्कारणान्तरे

两只乌鸦说道:“我们是孙陀与优婆孙陀之子,因缘所致而堕为乌鸦之身。吉祥的国王啊,莫杀我们;此中自有缘由。”

Verse 31

तावावां कृतसंकल्पौ त्वया कोपेन मानद । निरस्तावनिरस्तौ वा यास्यावः परमां गतिम्

“我们二者已为宿命之誓所系。因你的忿怒,赐荣者啊,无论你弃绝我们与否,我们终将抵达至高归宿。”

Verse 32

तदादेशय राजेन्द्र कृत्वा तव महत्प्रियम् । मुक्तशापौ भविष्यावो ब्रह्मणो वचनं तथा

因此,王中之王啊,请降下命令——先行一件令你大悦之事。如此我们便能脱离诅咒;这正是梵天(Brahmā)之言。

Verse 33

तच्छ्रुत्वा काकवचनं चाणक्यो नृपसत्तमः । नाहं जीवे विदित्वैवं वञ्चितः केन कर्हिचित्

听到乌鸦的话语,旃那迦(Cāṇakya)——诸王之最——心想:“既已知此,我不愿再苟活;我竟曾在任何时候被人欺骗。”

Verse 34

तस्मात्तीर्थं विजानीतं यमस्य सदने द्विजौ । प्रेषयामि यथान्यायं श्रुत्वा तत्कथयिष्यथः

“因此,二位婆罗门啊,当知此处即便在阎摩之居亦为圣渡。我要依正法次第遣你们前往;亲见之后,你们当为我述说。”

Verse 35

तेनैव मुक्तौ तौ काकौ स्रक्चन्दनविभूषितौ । शीघ्रगौ प्रेषयामास यमस्य सदनं प्रति

正因那一举动,两只乌鸦得以解脱,身披花鬘,涂抹檀香;振翅迅疾,他将它们遣往阎摩之所。

Verse 36

राजोवाच । तत्र धर्मपुरं गत्वा विचरन्तावितस्ततः । यदि पृच्छति धर्मात्मा यमः संयमनो महान्

国王说道:“你们到了法之城后,便在其间往来巡行。若那具正法之心的阎摩——伟大的制御者——询问你们……”

Verse 37

कुतो वामागतं ब्रूतं केन वा भूषितावुभौ । मदीया भारती तस्य कथनीया ह्यशङ्कितम्

“告诉他你们从何处而来,又是谁装饰了你们二位。并将我的话原原本本转告他——不可迟疑。”

Verse 38

इक्ष्वाकुसंभवो राजा चाणक्यो नाम धार्मिकः । द्वादशाहे मृतस्यास्य तर्पितावशनादिना

“有一位名为迦那迦(Cāṇakya)的正法之王,出自伊叉婆拘(Ikṣvāku)族系;在亡者十二日祭仪中,他以饮食等供养使我们得以满足。”

Verse 39

तच्छ्रुत्वा वचनं राज्ञो गतौ तौ यमसादनम् । क्रीडितौ प्राङ्गणे तस्य स्रक्चन्दनविभूषितौ । धर्मराजेन तौ दृष्टौ पृष्टौ धृष्टौ च वायसौ

听闻国王之言,二者便前往阎摩之居。身佩花鬘,涂抹檀香,在其庭院中嬉游。法王(Dharmarāja)见那两只大胆的乌鸦,便开口询问。

Verse 40

यम उवाच । कुतः स्थानात्समायातौ केन वा भूषितावुभौ । वृत्तं वै कथ्यतामेतद्वायसावविशङ्कया

阎摩说道:“你们从何处而来?又是谁装饰了你们二位?乌鸦啊,将此事始末尽数道来,不必恐惧,不必疑虑。”

Verse 41

काकावूचतुः । इक्ष्वाकुसम्भवो राजा चाणक्यो नाम धार्मिकः । द्वादशाहे मृतस्यास्य तर्पितावशनादिभिः

两只乌鸦说道:“有一位名为迦那迦(Cāṇakya)的正法之王,出自伊叉婆拘(Ikṣvāku)族系;在亡者十二日守仪之时,他以饮食等供品使我们得以满足。”

Verse 42

तयोस्तद्वचनं श्रुत्वा सदा वैवस्वतो यमः । चित्रगुप्तं कलिं कालं वीक्ष्यतामिदमब्रवीत्

听闻他们的陈述后,毗婆斯瓦多·阎摩转目望向质多罗古普多、迦梨与迦罗,遂说出如下言辞。

Verse 43

अण्डजस्वेदजातीनां भूतानां सचराचरे । विहितं लोककर्त्ःणां सान्निध्यं ब्रह्मणा मम

“对于卵生与汗生之众生——乃至一切动与不动的造化——诸世界的创造者梵天已敕定:我当在此为其制御与裁量者。”

Verse 44

गतः कुत्र दुराचारश्चाणक्यो नामतस्त्विह । अन्विष्यतां पुराणेषु त्वितिहासेषु या गतिः

“那名行恶之人——此处名为旃那迦者——如今去了何方?当于诸《往世书》与《史传》中寻究:他究竟得了何等归宿。”

Verse 45

ततस्तैर्धर्मपालैस्तु धर्मराजप्रचोदितैः । निरीक्षिता पुराणोक्ता कर्मजा गतिरागतिः

于是,那些护持法度者在法王(阎摩)的催令下,考察了《往世书》所宣说的往来之途——由业行所生的去来命运。

Verse 46

ततः प्रोवाच वचनं धर्मो धर्मभृतां वरः । शृण्वतां धर्मपालानां मेघगम्भीरया गिरा

随后,达摩——诸持法者之最胜——以如雷云般深沉的声音,对聆听的护法众宣说言辞。

Verse 47

शुक्लतीर्थे मृतानां तु नर्मदाविमले जले । अण्डजस्वेदजातीनां न गतिर्मम सन्निधौ

然而,凡在白净圣渡(Śukla Tīrtha)——于那摩陀河(Narmadā)清净之水中——命终者,皆不得入我之境域;纵是卵生或汗生之类亦然。

Verse 48

तत्तीर्थं धार्मिकं लोके ब्रह्मविष्णुमहेश्वरैः । निर्मितं परया भक्त्या लोकानां हितकाम्यया

彼圣渡在世间以“法之座”而著称;乃梵天(Brahmā)、毗湿奴(Viṣṇu)与大自在天(Maheśvara)以至上虔敬所造,为求一切众生之安乐。

Verse 49

पापोपपातकैर्युक्ता ये नरा नर्मदाजले । शुक्लतीर्थे मृताः शुद्धा न ते मद्विषयाः क्वचित्

即便是被罪业与小过所缠之人,若在那摩陀河水中的白净圣渡(Śukla Tīrtha)命终,亦得清净;他们永不归我所辖。

Verse 50

एतच्छ्रुत्वा तु वचनं तौ काकौ यमभाषितम् । आगतौ शीघ्रगौ पार्थ दृष्ट्वा यमपुरं महत्

二鸦听闻阎摩(Yama)所说之言,便迅疾返还;噢,帕尔塔(Pārtha),他们已目睹阎摩那宏伟之城。

Verse 51

पृष्टौ तौ प्रणतौ राज्ञा यथावृत्तं यथाश्रुतम् । कथयामासतुः पार्थ दानवौ काकतां गतौ

王问之,二者俯首致敬,便如实陈述所经历与所闻,噢,帕尔塔(Pārtha):乃二位化作乌鸦之达那婆(dānava)。

Verse 52

अस्मात्स्थानाद्गतावावां यमस्य पुरमुत्तमम् । पृथिव्या दक्षिणे भागे ह्यतीत्य बहुयोनिजम्

我们从此处启程,前往阎摩(Yama)那至上的城邑;越过诸多众生轮回之境,朝向大地的南方而行。

Verse 53

तत्पुरं कामगं दिव्यं स्वर्णप्राकारतोरणम् । अनेकगृहसम्बाधं मणिकाञ्चनभूषितम्

那城邑神圣而奇妙,随心而现;金墙金门,楼宅无数,宝石与灿然黄金交相辉映。

Verse 54

चतुष्पथैश्चत्वरैश्च घण्टामार्गोपशोभितम् । उद्यानवनसंछन्नं पद्मिनीखण्डमन्दितम्

城中四衢交会、广场开阔,铃声点缀的长街更添庄严;园林与林苑遍覆其间,又以成片莲池装点。

Verse 55

हंससारससंघुष्टं कोकिलाकुलसंकुलम् । सिंहव्याघ्रगजाकीर्णमृक्षवानरसेवितम्

天鹅与鹤鸣声回荡,杜鹃成群聚集;狮、虎、象遍布其间,熊与猿亦常来往。

Verse 56

नरनारीसमाकीर्णं नित्योत्सवविभूषितम् । शंखदुन्दुभिर्निर्घोषैर्वीणावेणुनिनादितम्

男女众多,常年庆典如不间断;海螺与大鼓轰鸣回响,维纳琴与笛声清越流转。

Verse 57

यममार्गेऽपि विहितं स्वर्गलोकमिवापरम् । गतौ तत्र पुनश्चान्यैर्यमदूतैर्यमाज्ञया

即使在阎摩之路上,也被安置得如同另一重天界。抵达彼处之后,又奉阎摩之命,与其他阎摩使者一同前行。

Verse 58

विदितौ प्रेषितौ तत्र यत्र देवो जगत्प्रभुः । प्राणस्य भीत्या दृष्टोऽसौ सिंहासनगतः प्रभुः

他们被认出并被遣往那处——世界之主的神所在之地。只见那位主宰端坐宝座,威严震慑,令人连气息都生惧。

Verse 59

महाकायो महाजङ्घो महास्कन्धो महोदरः । महावक्षा महाबाहुर्महावक्त्रेक्षणो महान्

其身躯广大,胫腿雄健,肩膀宽阔,腹部硕大;胸膛宏阔,臂力强盛——真乃伟岸,面容巨大,目光威摄。

Verse 60

महामहिषमारूढो महामुकुटभूषितः । तत्रान्यश्च कलिः कालश्चित्रगुप्तो महामतिः

他骑乘巨大的水牛,头戴高耸王冠。那里亦有他者——迦梨与迦罗——以及大智的赤多罗笈多(Citragupta)。

Verse 61

समागतौ तदा दृष्टौ मध्ये ज्वलितपावकौ । पुण्यपापानि जन्तूनां श्रुतिस्मृत्यर्थपारगौ

当时又见二者已至,立于炽燃烈火之中——能辨众生福德与罪业者,通达《闻传》(Śruti)与《忆传》(Smṛti)之义。

Verse 62

विचारयन्तौ सततं तिष्ठाते तौ दिवानिशम् । ततो ह्यावां प्रणामान्ते यमेन यममूर्तिना

二者恒常思量,昼夜不离其处。及我等顶礼毕,阎摩——阎摩职司之化身——遂对我等开言。

Verse 63

पृष्टावागमने हेतुं तमब्रूव शृणुष्व तत् । उज्जयिन्यां महीपालश्चाणक्योऽभूत्प्रतापवान्

问及我等来此之因,他说道:“且听此言。”在邬阇衍尼有一位威德赫奕的君王,名曰旃那迦。

Verse 64

द्वादशाहे मृतस्यास्य भुक्त्वा प्राप्तौ यमालयम् । ततोऽस्माकं वचः श्रुत्वा कम्पयित्वा शिरो यमः

为此亡者行毕十二日仪轨后,我等用食,遂至阎摩之宫。闻我等之言,阎摩惊异而摇首。

Verse 65

उवाच वचनं सत्यं सभामध्ये हसन्निव । अस्ति तत्कारणं येन चाणक्यः पापपूरुषः

阎摩于会众之中,似含微笑而说真实之语:“有一缘故,使那罪人旃那迦未至此处。”

Verse 66

नायातो मम लोके तु सर्वपापभयंकरे । शुक्लतीर्थे मृतानां तु नर्मदायां परं पदम्

“他未入我界——为诸罪所惧之可怖归处。凡于那尔摩达河之白净圣渡(Śukla-tīrtha)而终者,得至无上之境。”

Verse 67

जायते सर्वजन्तूनां नात्र काचिद्विचारणा । अवशः स्ववशो वापि जन्तुस्तत्क्षेत्रमण्डले

对一切众生而言,在那里果报自然生起,无须再作思量;无论身不由己或能自持,凡在那神圣境域(kṣetra-maṇḍala)之内者,皆得其所定之果。

Verse 68

मृतः स वै न सन्देहो रुद्रस्यानुचरो भवेत् । तद्धर्मवचनं श्रुत्वा निर्गत्य नगराद्बहिः

凡在彼处死去者——毫无疑问——将成为鲁陀罗(Rudra)的随从。听闻那番法(dharma)的教诲后,他们走出城外。

Verse 69

पश्यन्तौ विविधां घोरां नरके लोकयातनाम् । त्रिंशत्कोट्यो हि घोराणां नरकाणां नृपोत्तम

当他们二人观看众生在地狱中种种可怖的刑罚时,(叙述者说道):“王中至善者啊,可怖的地狱共有三十俱胝(crore)之多。”

Verse 70

दृष्टा भीतौ परामार्तिगतौ तत्र महापथि । नरको रौरवस्तत्र महारौरव एव च

在那通往后世的大道上,他们被看见惊惧战栗、痛苦不堪。其处显现名为“劳罗婆”(Raurava)的地狱,以及“大劳罗婆”(Mahāraurava)。

Verse 71

पेषणः शोषणश्चैव कालसूत्रोऽस्थिभञ्जनः । तामिस्रश्चान्धतामिस्रः कृमिपूतिवहस्तथा

其间有名为“佩沙那”(Peṣaṇa)与“朔沙那”(Śoṣaṇa)的地狱;“迦罗苏多罗”(Kālasūtra)与“折骨”(Asthibhañjana);“昏暗”(Tāmisra)与“极暗”(Andhatāmisra);以及“虫腐载行”(Kṛmipūtivaha)。

Verse 72

दृष्टश्चान्यो महाज्वालस्तत्रैव विषभोजनः । नरकौ दंशमशकौ तथा यमलपर्वतौ

又见到其他(地狱):名为摩诃焰(Mahājvāla)者,以及就在那里的毒食地狱(Viṣabhojana);又有名为啮噬(Daṃśa)与蚊虻(Maśaka)之狱;并见双生的阎摩山(Yamalaparvata)。

Verse 73

नदी वैतरणी दृष्टा सर्वपापप्रणाशिनी । शीतलं सलिलं यत्र पिबन्ति ह्यमृतोपमम्

他们见到瓦伊塔拉尼河(Vaitaraṇī),能灭尽诸罪;其水清凉,人们饮之,宛如甘露(amṛta)一般。

Verse 74

तदेव नीरं पापानां शोणितं परिवर्तते । असिपत्रवनं चान्यद्दृष्टान्या महती शिला

同样的水,对罪人却化为血。那里又见另一恐怖:剑叶林(Asipatravana),其叶如刃;并且还见一块巨大的岩石石板,令人受压碾。

Verse 75

अग्निपुंजनिभाकारा विशाला शाल्मली परा । इत्यादयस्तथैवान्ये शतसाहस्रसंज्ञिताः

又有至上的娑尔摩梨地狱(Śālmalī),广大无边,其形如火焰堆聚。如此这般,尚有许多其他地狱被宣说,其名号多至数十万。

Verse 76

घोरघोरतरा दृष्टाः क्लिश्यन्ते यत्र मानवाः । वाचिकैर्मानसैः पापैः कर्मजैश्च पृथग्विधैः

又见更为可怖的境界:人类在其中受苦,皆因口业之罪、意业之罪,以及由身行所生的种种恶业。

Verse 77

अहंकारकृतैर्दोषैर्मायावचनपूर्वकैः । पिता माता गुरुर्भ्राता अनाथा विकलेन्द्रियाः

由于我慢所造之过、以欺诳之言为先,人虽成父、成母、成师、成兄,然终至无依无护,诸根残缺。

Verse 78

भ्रमन्ति नोद्धृता येषां गतिस्तेषां हि रौरवे । तत्र ते द्वादशाब्दानि क्षपित्वा रौरवेऽधमाः

凡漂泊而不得救拔者,其归趣实为罗柔婆(Raurava);彼等住于其中,历尽十二年于罗柔婆,诸卑劣者仍随其业而下堕。

Verse 79

इह मानुष्यके लोके दीनान्धाश्च भवन्ति ते । देवब्रह्मस्वहर्त्ःणां नराणां पापकर्मणाम्

在此人间,他们沦为贫苦而盲目者——那些作恶之人,盗取诸天与婆罗门之财物。

Verse 80

महारौरवमाश्रित्य ध्रुवं वासो यमालये । ततः कालेन महता पापाः पापेन वेष्टिताः

被遣入大罗柔婆(Mahāraurava),他们必居于阎摩之宫。其后经久时日,诸罪人被自身罪业缠裹,复随业流转而去。

Verse 81

जायन्ते कण्टकैर्भिन्नाः कोशे वा कोशकारकाः । मृगपक्षिविहङ्गानां घातका मांसभक्षकाः

他们或生而为荆棘所刺穿,或生为茧中作茧者;乃是那些杀害兽类与飞鸟、以食肉为生之人。

Verse 82

पेषणं नरकं यान्ति शोषणं जीवबन्धनात् । तत्रत्यां यातनां घोरां सहित्वा शास्त्रचोदिताम्

他们因捆缚有情众生而堕入名为“Peṣaṇa”的地狱,又入“Śoṣaṇa”。在彼处,忍受依照《圣典》(śāstra)所规定的可怖刑罚之后,(仍将随业力而继续流转)。

Verse 83

इह मानुष्यतां प्राप्य पङ्ग्वन्धबधिरा नराः । गवार्थे ब्राह्मणार्थे च ह्यनृतं वदतामिह

在此世间,即便得人身,亦会成为跛者、盲者与聋者——那些为牛畜之利,或为婆罗门之利,而在世上妄语欺诳之人。

Verse 84

पतनं जायते पुंसां नरके कालसूत्रके । तत्रत्या यातना घोरा विहिता शास्त्रकर्तृभिः

男子堕入名为“Kālasūtra”的地狱;彼处可怖的刑罚,乃由制定圣律者依圣典所安立。

Verse 85

भुक्त्वा समागता ह्यत्र ते यास्यन्त्यन्त्यजां गतिम् । बन्धयन्ति च ये जीवांस्त्यक्त्वात्मकुलसन्ततिम्

受尽其果而复返此世后,他们将趋入“ant’yaja”(贱民、被弃者)之境。凡捆缚有情、断绝自身家族血脉延续者,亦将遭此归趣。

Verse 86

पतन्ति नात्र सन्देहो नरके तेऽस्थिभञ्जने । तत्र वर्षशतस्यान्त इह मानुष्यतां गताः

他们必定无疑堕入名为“Asthibhañjana”(碎骨地狱)之处。在彼处满百年之后,方于此世再得人身。

Verse 87

कुब्जा वामनकाः पापा जायन्ते दुःखभागिनः । ये त्यजन्ति स्वकां भार्यां मूढाः पण्डितमानिनः

那些抛弃自己妻子的罪人——迷妄自负,以为通达学问——将转生为驼背与侏儒,承受苦报。

Verse 88

ते यान्ति नरकं घोरं तामिस्रं नात्र संशयः । तत्र वर्षशतस्यान्ते इह मानुष्यतां गताः

他们必定堕入名为“多蜜斯罗”(Tāmisra)的可怖地狱,毫无疑问。于彼处经百年之后,复归此世再得人身。

Verse 89

दुश्चर्माणो दुर्भगाश्च जायन्ते मानवा हि ते । मानकूटं तुलाकूटं कूटकं तु वदन्ति ये

确实,那些人将生而皮肤患疾、命运不祥——即那些宣称虚假尺度、虚假重量与欺诈伪造之人。

Verse 90

नरके तेऽन्धतामिस्रे प्रपच्यन्ते नराधमाः । शतसाहस्रिकं कालमुषित्वा तत्र ते नराः

在名为“安达多蜜斯罗”(Andhatāmisra)的地狱中,那些卑劣之人被煎煮受刑;于彼处住满十万年后,复随其业力而转。

Verse 91

इह शत्रुगृहे त्वन्धा भ्रमन्ते दीनमूर्तयः । पितृदेवद्विजेभ्योऽन्नमदत्त्वा येऽत्र भुञ्जते

在此世间,他们以凄惨之形在仇敌之家盲目漂泊——即那些在此享食而不施食于祖灵、诸天与二次出生者(婆罗门等)的人。

Verse 92

नरके कृमिभक्ष्ये ते पतन्ति स्वात्मपोषकाः । ततः प्रसूतिकाले हि कृमिभुक्तश्च सव्रणः

唯自养自肥者,堕入名为“虫食地狱”(Kṛmibhakṣya)。其后于投生之时,身被虫噬,遍体创伤。

Verse 93

जायतेऽशुचिगन्धोऽत्र परभाग्योपजीवकः । स्वकर्मविच्युताः पापा वर्णाश्रमविवर्जिताः

于此世间,彼等生而秽臭,依他人福分而活;乃背离自身本分之罪人,舍弃种姓与住期(varṇa、āśrama)之法度。

Verse 94

नरके पूयसम्पूर्णे क्लिश्यन्ते ह्ययुतं समाः । पूर्णे तत्र ततः काले प्राप्य मानुष्यकं भवम्

在充满脓秽腐臭之地狱中,他们确实受苦一万年。待彼处期限圆满,便再得人身而生。

Verse 95

उद्वेजनीया भूतानां जायन्ते व्याधिभिर्वृताः । अग्निदो गरदश्चैव लोभमोहान्वितो नरः

他们生来令众生惊惧,诸病缠身。那纵火与施毒之人,受贪欲与迷妄所驱而行。

Verse 96

नरके विषसम्पूर्णे निमज्जति दुरात्मवान् । तत्र वर्षशतात्कालादुन्मज्जनमवस्थितः

心怀恶念之人沉没于尽是毒液之地狱;在彼处历经百年,终不得上浮。

Verse 97

भुवि मानुषतां प्राप्य कृपणो जायते पुनः । पादुकोपानहौ छत्रं शय्यां प्रावरणानि च

既得人身降于大地,他又再生为悭吝之人,执著于凉鞋与鞋履、伞盖、卧榻与覆被,视之为己有。

Verse 98

अदत्त्वा दंशमशकैर्भक्ष्यन्ते जन्यसप्ततिम् । पितुर्द्रव्यापहर्तारस्ताडनक्रोशने रताः

凡一无所施者,七十世为叮咬之虫与蚊蚋所折磨;而盗取父财者,在刑罚之境中沉溺于鞭挞与哀号之声。

Verse 99

पीडनं क्रियते तेषां यत्र तौ युग्मपर्वतौ । या सा वैतरणी घोरा नदी रक्तप्रवाहिनी

在那里,于那两座双生之山矗立之处,苦刑加诸其身。那便是可怖的毗陀罗尼(Vaitaraṇī)——其水流如血奔涌之河。

Verse 100

पिबन्ति रुधिरं तत्र येऽभियान्ति रजस्वलाम् । असिपत्रवने घोरे पीड्यन्ते पापकारिणः

在那里,凡于妇人经期而近之的罪人,被迫饮血;此等作恶者在可怖的阿西帕特拉瓦那(剑叶林)中受尽折磨。

Verse 101

परपीडाकरा नित्यं ये नरोऽन्त्यजगामिनः । गुरुदाररतानां तु महापातकिनामपि

凡恒常加害于人、沉沦于极下劣行径者,以及贪恋师长之妻者——此等人亦被列入大罪之列,称为摩诃波多金(mahāpātakin)。

Verse 102

शिलावगूहनं तेषां जायते जन्मसप्ततिम् । ज्वलन्तीमायसीं घोरां बहुकण्टकसंवृताम्

对他们而言,将在七十次生中现起名为“石之拥抱”的苦刑——一座可怖而炽燃的铁狱,四面被无数荆棘围困。

Verse 103

शाल्मलीं तेऽवगूहन्ति परदाररता हि ये । परस्य योषितं हृत्वा ब्रह्मस्वमपहृत्य च

凡沉溺于他人妻者,被迫拥抱多刺的娑罗摩梨(Śālmalī)树;同样,掳夺他人女子者,以及盗取婆罗门之财(brahma-sva)者,也被驱入此等苦刑。

Verse 104

अरण्ये निर्जले देशे स भवेत्क्रूरराक्षसः । देवस्वं ब्राह्मणस्वं च लोभेनैवाहरेच्च यः

凡因贪欲而盗取供奉诸神之财或婆罗门之财者,将化为残酷的罗刹(rākṣasa),居于荒林旱地、无水之处。

Verse 105

स पापात्मा परे लोके गृध्रोच्छिष्टेन जीवति । एवमादीनि पापानि भुञ्जन्ते यमशासनात्

那罪恶之魂在来世以秃鹫所剩之残食为生;如是依阎摩(Yama)之法令,他们受报此等罪业及其他同类之罪。

Verse 106

येषां तु दर्शनादेव श्रवणाज्जायते भयम् । तथा दानफलं चान्ये भुञ्जाना यममन्दिरे

有些人仅仅因目睹(那些景象)或听闻(其事)便生起恐惧;而另一些人在阎摩之宫中,享受其布施之果报。

Verse 107

दृष्टाः श्रुतं कथयतां दूतानां च यमाज्ञया । रथैरन्ये गजैरन्ये केचिद्वाजिभिरावृताः

只见那些使者——奉阎摩之命,述说所见所闻——有的被战车环绕,有的被大象簇拥,有的被骏马围随。

Verse 108

दृष्टास्तत्र महाभाग तपःसंचयसंस्थिताः । गोदाता स्वर्णदाता च भूमिरत्नप्रदा नराः

在那里,噢大福者,只见众人安住于积聚的苦行之力:施牛者、施金者,以及布施土地与珍宝之人。

Verse 109

शय्याशनगृहादीनां स लोकः कामदो नृणाम् । अन्नं पानीयसहितं ददते येऽत्र मानवाः

那一境界对众生成为满愿之地,赐予床榻、座位、居舍等种种——尤为赐福于此世施食并施饮水之人。

Verse 110

तत्र तृप्ताः सुसंतुष्टाः क्रीडन्ते यमसादने । अत्र यद्दीयते दानमपि वालाग्रमात्रकम्

在那里,他们饱足而大为欢悦,于阎摩之宫中嬉游。即便在此所施之布施——纵如一丝发尖般微小——亦不徒然。

Verse 111

तदक्षयफलं सर्वं शुक्लतीर्थे नृपोत्तम । एतत्ते कथितं सर्वं यद्दृष्टं यच्च वै श्रुतम्

这一切在白净圣渡(Śuklatīrtha)皆结不坏之果,噢诸王之最胜者。故我已尽告于你:所见与确实所闻。

Verse 112

कुरुष्व यदभिप्रेतं यदि शक्नोषि मुच्यताम् । तयोस्तद्वचनं श्रुत्वा चाणक्यो हृष्टमानसः

随你心中所愿而行;若你能做到,愿你得解脱其缚。听闻那二者之言,旃那迦心中欢喜。

Verse 113

विसर्जयामास खगावभिनन्द्य पुनःपुनः । ताभ्यां गताभ्यां सर्वस्वं दत्त्वा विप्रेषु भारत

他再三礼敬那两只鸟,随后放它们离去。待它们走后,噢,婆罗多啊,他将一切财物施与诸婆罗门。

Verse 114

कामक्रोधौ परित्यज्य जगामामरपर्वतम् । तत्र बद्ध्वोडुपं गाढं कृष्णरज्ज्वावलम्बितम्

舍弃欲与嗔,他前往阿摩罗山。于彼处,他牢牢系住一叶小舟,使其悬挂于黑色绳索之上。

Verse 115

प्लवमानो जगामाऽशु ध्यायन्देवं जनार्दनम् । आरोग्यं भास्करादिच्छेद्धनं वै जातवेदसः

随波漂行,他迅疾前进,心念主宰阇那尔达那。健康由苏利耶而来,所愿之财确由阿耆尼赐与。

Verse 116

प्राप्नोति ज्ञानमीशानान्मोक्षं प्राप्नोति केशवात् । नीलं रक्तं तदभवन्मेचकं यद्धि सूत्रकम्

由伊舍那得真知;由计舍婆得解脱。那丝线本呈深蓝与赤红,遂化为浓重如云之黧色。

Verse 117

शुद्धस्फटिकसङ्काशं दृष्ट्वा रज्जुं महामतिः । आप्लुत्य विमले तोये गतोऽसौ वैष्णवं पदम्

见那绳索光洁如纯净水晶,那位大德便入于无垢清水沐浴,遂证得至上的毗湿奴境界(Vaiṣṇava之位)。

Verse 118

गायन्ति यद्वेदविदः पुराणं नारायणं शाश्वतमच्युताह्वयम् । प्राप्तः स तं राजसुतो महात्मा निक्षिप्य देहं शुभशुक्लतीर्थे

那永恒的那罗延(Nārāyaṇa)之《普罗那》,为通晓吠陀者所歌咏,名为“阿周多”(Acyuta);那位大王子得以证入其义,并在吉祥的白圣渡口(Śuklatīrtha)舍离其身。

Verse 119

एषा ते कथिता राजन्सिद्धिश्चाणक्यभूभृतः । तथान्यत्तव वक्ष्यामि शृणुष्वैकाग्रमानसः

大王啊,关于迦那迦(Cāṇakya)王者之成就,我已为你叙说。如今我还要再宣说别事——请你一心谛听。