ऊर्क् च॑ मे सू॒नृता॑ च मे॒ पय॑श्च मे॒ रस॑श्च मे घृ॒तं च॑ मे॒ मधु॑ च मे॒ सग्धि॑श्च मे॒ सपी॑तिश्च मे कृ॒षिश्च॑ मे॒ वृष्टि॑श्च मे॒ जैत्रं॑ च म॒ औद्भि॑द्यं च मे य॒ज्ञेन॑ कल्पन्ताम्
ūrk ca me sūnṛtā ca me payaś ca me rasaś ca me ghṛtaṃ ca me madhu ca me sagdhiś ca me sapītiś ca me kṛṣiś ca me vṛṣṭiś ca me jaitraṃ ca me audbhidyaṃ ca me yajñena kalpantām
愿我得有滋养之力(ऊर्क्),亦得温厚的真实之言(सू॒नृता);愿我得乳与其甘美之味;愿我得酥油与蜂蜜;愿我得食用与共饮之分;愿我得耕作与降雨;愿我得胜利之威力与由土中生发之物:愿这一切由祭祀(यज्ञ)为我调备成就。
ऊर्क् । च । मे । सू-नृता । च । मे । पयः । च । मे । रसः । च । मे । घृतम् । च । मे । मधु । च । मे । सग्धिः । च । मे । स-पीतिः । च । मे । कृषिः । च । मे । वृष्टिः । च । मे । जैत्रम् । च । मे । औद्भिद्यम् । च । मे । यज्ञेन । कल्पन्ताम् ।