भूर॑सि॒ भूमि॑र॒स्यदि॑तिरसि वि॒श्वधा॑या॒ विश्व॑स्य॒ भुव॑नस्य ध॒र्त्री । पृ॒थि॒वीं य॑च्छ पृथि॒वीं दृ॑ᳪह पृथि॒वीं मा हि॑ᳪसीः
bhū́r asi bhū́mir asy áditir asi viśvá-dhāyā viśvásya bhúvanasya dhartrī́ | pṛthivī́ṃ yaccha pṛthivī́ṃ dṛṃha pṛthivī́ṃ mā́ hiṃsīḥ
你是「Bhūr」;你是大地;你是阿底提(Aditi),普遍维系者,承载一切存在之世界的持持者。请扶持大地;使大地坚固;勿伤害大地。
भूः । अ॒सि॒ । भूमिः । अ॒सि॒ । अदि॑तिः । अ॒सि॒ । वि॒श्वधा॑या । विश्व॑स्य । भुव॑नस्य । ध॒र्त्री । पृ॒थि॒वीं । य॒च्छ॒ । पृ॒थि॒वीं । दृ॒ᳪह॒ । पृ॒थि॒वीं । मा । हि॒ᳪसीः