विश्व॑स्मै प्रा॒णाया॑पा॒नाय॑ व्या॒नायो॑दा॒नाय॑ प्रति॒ष्ठायै॑ च॒रित्रा॑य । अ॒ग्निष्ट्वा॒ऽभि पा॑तु म॒ह्या स्व॒स्त्या छ॒र्दिषा॒ शन्त॑मेन॒ तया॑ दे॒वत॑याऽङ्गिर॒स्वद् ध्रु॒वा सी॑द
viśvásmai prāṇā́yāpānā́ya vyānā́yodānā́ya pratiṣṭhā́yai carítrāya | agníṣ ṭvā́’bhí pātu mahyā́ svastyā́ chárdiṣā śántamena táyā devátayā’ṅgirasvád dhrúvā sīdá
为一切——为入息(prāṇa)与出息(apāna),为遍行之气(vyāna)与上行之气(udāna),为安立(pratiṣṭhā)与正行之道(caritra)——愿阿耆尼(Agni)以宏大的安泰、以最慈和的庇荫,从四方护佑你;依凭那位神祇,如安吉罗萨(Aṅgiras)般,安坐而坚固。
विश्व॑स्मै । प्रा॒णाय॑ । अ॒पा॒नाय॑ । व्या॒नाय॑ । उ॒दा॒नाय॑ । प्र॒ति॒ष्ठायै॑ । च॒रित्रा॑य । अ॒ग्निः । त्वा॒ । अ॒भि । पा॒तु॒ । म॒ह्या । स्व॒स्त्या । छ॒र्दिषा॑ । शन्त॑मेन । तया॑ । दे॒वत॑या । अ॒ङ्गि॒र॒स्वत् । ध्रु॒वा । सी॒द