
第44章以问答体展开:诸圣仙请苏多阐明毗耶娑的起源(vyāsotpatti),尤其是大瑜伽行者毗耶娑如何由波罗沙罗使萨蒂娅伐蒂所生,此为合乎情理之疑,需权威解答。苏多遂叙述波罗沙罗行圣地巡礼(tīrtha-yātrā)时,在吉祥的阎牟那河岸所发生之事。情节依普拉那常见的溯因模式推进:渡河之际(舟渡意象)、渔民尼沙陀族的出现及其女摩蹉香达(后称萨蒂娅伐蒂),并由“时运之瑜伽”(kāla-yoga,随时而定的命运)发动,使本自克制的苦行者亦转向传嗣之意。其密义不止传记:揭示合乎法(dharma)的知识谱系如何生成——非凡圣仙因圣地、仙力与天时所需的会合而出。由此确立毗耶娑的权威,并以宇宙旨意之眼光理解欲与制。
Verse 1
मुनय ऊचुः । व्यासोत्पत्तिं महाबुद्धे ब्रूहि सूत दयानिधे । कृपया परया स्वामिन्कृतार्थान्निष्कुरु प्रभो
诸仙人说道:“噢,苏多啊,大慧之士,慈悲之海,请为我们宣说毗耶娑的诞生与本源。凭借你至上的恩泽,噢可敬的师主,请使我们所求圆满,噢主宰。”
Verse 2
व्यासस्य जननी प्रोक्ता नाम्ना सत्यवती शुभा । विवाहिता तु सा देवी राज्ञा शन्तनुना किल
吉祥的萨蒂娅瓦蒂(Satyavatī)被宣说为毗耶娑之母。确然,那位可敬的夫人曾嫁与商檀努王(Śantanu)。
Verse 3
तस्यां जातो महायोगी कथं व्यासः पराशरात् । सन्देहोऽत्र महाञ्जातस्तं भवाञ्छेत्तुमर्हति
“他如何从她而生,由波罗沙罗而得大瑜伽行者毗耶娑?此处生起重大疑惑;唯愿尊者为我断除。”
Verse 4
सूत उवाच । एकदा तीर्थयात्रायां व्रजन्योगी पराशरः । यदृच्छया गतो रम्यं यमुनायास्तटं शुभम्
苏多说道:有一次,瑜伽行者波罗沙罗行于朝圣诸圣渡(tīrtha)之旅,偶然来到阎牟那河吉祥而秀丽的河岸。
Verse 5
निषादमाह धर्मात्मा कुर्वन्तं भोजनन्तदा । नयस्व यमुनापारं जलयानेन मामरम्
随后,那位秉持正法者对正备食的尼沙陀(Niṣāda)说道:“请即刻以舟渡我至阎牟那(Yamunā)彼岸。”
Verse 6
इत्युक्तो मुनिना तेन निषादस्स्वसुतां जगौ । मत्स्यगन्धाममुं बाले पारं नावा नय द्रुतम्
那尼沙陀受仙人吩咐,便唤自己的女儿道:“鱼香之女啊,速以舟船送这位尊者渡至彼岸。”
Verse 7
तापसोऽयं महाभागे दृश्यन्तीगर्भसंभवः । तितीर्षुरस्ति मर्धाब्धिश्चतुराम्नायपारगः
噢最具福德的夫人,此苦行者——出自德丽诗延蒂(Dṛśyantī)之胎——欲渡世间纷扰之海;他已通达四种神圣传承(四阿摩那耶),并坚住于苦行之戒。
Verse 8
इति विज्ञापिता पित्रा मत्स्यगन्धा महामुनिम् । संवाहयति नौकायामासीनं सूर्य्यरोचिषम्
于是,依父之教诲,鱼香女摩蹉甘达在舟中恭敬侍奉,轻柔按摩端坐其上的大牟尼苏利耶罗吉什。
Verse 9
कालयोगान्महायोगी तस्यां कामातुरोऽभवत् । दृष्ट्वा योऽप्सरसां रूपं न कदापि विमोहितः
由于时轮幽秘的作用,那位大瑜伽行者竟对她生起欲念——他曾见天女阿普萨拉之美,亦从未迷惑。
Verse 10
ग्रहीतुकामः स मुनिर्दाशकन्यां मनोहराम् । दक्षिणेन करेणैतामस्पृशद्दक्षिणे करे
那位牟尼欲握住那迷人的渔家之女,便以右手伸出,触及她的右手。
Verse 11
तमुवाच विशालाक्षीं वचनं स्मितपूर्वकम् । किमिदं क्रियये कर्म वाचंयम विगर्हितम्
随后他以含笑的温言对那大眼女子说道:“你欲行此何事——这般可责之举,岂是善于自持言语之人所当为?”
Verse 12
वसिष्ठस्य कुले रम्ये त्वं जातोऽसि महामते । निषादजा त्वहम्ब्रह्मन्कथं संगो घटेत नौ
大智者啊,你出生在婆私吒(Vasiṣṭha)优美的血统中。但我,婆罗门啊,是尼沙达(Niṣāda)女人的后代——那么,我们之间的结合又怎能相称呢?
Verse 13
दुर्लभं मानुषं जन्म ब्राह्मणत्वं विशेषतः । तत्रापि तापसत्वं च दुर्लभं मुनिसत्तम
人身难得——尤其是出生为婆罗门。即便在其中,真正的苦行戒律(tāpasatva)也是罕见的,圣者中的佼佼者啊。
Verse 14
विद्यया वपुषा वाचा कुलशीलेन चान्वितः । कामबाणवशं यातो महदाश्चर्यमत्र हि
他博学多才、相貌堂堂、言语优雅、出身高贵且品行端正,却依然屈服于爱神(Kāma)之箭的威力之下——这确实是一件令人大为惊异的事。
Verse 15
प्रवृत्तमप्यसत्कर्म कर्तुमेनं न कोऽपि ह । भुवि वारयितुं शक्तः शापभीत्यास्य योगिनः
尽管他已着手进行不义之事,世上却无人能阻拦他——皆因畏惧这位瑜伽士(yogin)的诅咒。
Verse 16
इति संचिन्त्य हृदये निजगाद महामुनिम् । तावद्धैर्यं कुरु स्वामिन्यावत्त्वां पारयामि न
他在心中如此思量后,对大圣者说道:“高贵的女士啊,请保持坚定与勇敢——在我能带你安全度过之前,请不要灰心。”
Verse 17
सूत उवाच । इति श्रुत्वा वचस्तस्या योगिराजः पराशरः । तत्याज पाणिं तरसा सिन्धोः पारं गतः पुनः
苏多说道:听罢她的话,瑜伽众中最胜的王圣者波罗舍罗迅疾放开她的手,又一次渡过河流,抵达彼岸。
Verse 18
पुनर्जग्राह तां बालां मुनिं कामप्रपीडितः । कंपमाना तु सा बाला तमुवाच दयानिधिम्
又被欲望的煎迫所胜,那位牟尼再次抓住了少女。少女战栗不已,便对他——本应是慈悲宝藏者——开口说道。
Verse 19
दुर्गन्धाहं मुनिश्रेष्ठ कृष्णवर्णा निषादजा । भवांस्तु परमोदारविचारो योगिसत्तमः
我身有秽臭,噢最胜牟尼;肤色黝黑,出自尼沙陀族类。然而您却是思择与行持最为高贵者,噢诸瑜伽士之最上。
Verse 20
नावयोर्घटते सङ्गो काचकांचनयोरिव । तुल्यजात्याकृतिकयोः संगः सौख्यप्रदो भवेत्
两种不相类的人之间,真正的和合难以成立,正如玻璃与黄金不能相契;而同类同质、性情相近者相与,则能成为赐予安乐之因。
Verse 21
इत्युक्तेन तया तेन क्षणमात्रेण कामिनी । कृता योजनगंधा तु रम्यरूपा मनोरमा
她既被他如此言说,那位可爱的女子在刹那之间便被化作“香气远播一由旬”,并且容貌愈发殊妙,妩媚可亲,令人观之心悦。
Verse 22
पुनर्जग्राह तां बालां स मुनिः कामपीडितः । ग्रहीतुकामं तं दृष्ट्वा पुनः प्रोवाच वासवी
那牟尼为欲火所逼,又一次抓住那少女。她见他执意要擒取自己,便以瓦萨维之名再度开口。
Verse 23
रात्रौ व्यवायः कर्तव्यो न दिवेति श्रुतिर्जगौ । दिवासंगे महान्दोषो निन्दा चापि दुरासदा
圣典教诲(Śruti)宣说:夫妻之合当在夜间,不宜在白昼。白昼交合招致大过,亦引来难以洗脱的讥责。
Verse 24
तस्मात्तावत्प्रतीक्षस्व यावद्भवति यामिनी । पश्यन्ति मानवाश्चात्र पिता मे च तटे स्थितः
因此,请你暂且在此等候,直到夜幕降临。此处众人都在观看,我父亲也正立于河岸之上。
Verse 25
तयोक्तमिदमाकर्ण्य वचनं मुनिपुंगवः । नीहारं कल्पयामास सद्यः पुण्यबलेन वै
听闻二人所言,那位最卓越的圣贤立刻化现一层雾幕——确然是凭借他所积累的福德之力。
Verse 26
नीहारे च समुत्पन्ने तमसा रात्रिसंनिभे । व्यवायचकिता बाला पुनः प्रोवाच तम्मुनिम्
当雾气升起、黑暗如夜般弥漫时,那位少女因将要合欢而惊惶,又再次对那位牟尼开口。
Verse 27
योगिन्नमोघवीर्य्यस्त्वं भुक्त्वा गन्तासि मां यदि । सगर्भा स्यां तदा स्वामिन्का गतिर्मे भवेदिति
“噢,瑜伽行者,你的威力从不落空。若你与我欢合之后便要离去,那么倘若我因此怀孕,主啊——我的归宿将会如何?”
Verse 28
कन्याव्रतं महाबुद्धे मम नष्टं भविष्यति । हसिष्यति तदा लोकाः पितरं किं ब्रवीम्यहम्
噢,大智者,我的处女誓愿将被毁坏。那时世人必讥笑我——我该如何向父亲交代?
Verse 29
पराशर उवाच । रम बाले मया सार्द्धं स्वच्छन्दं कामजै रसैः । स्वीयाभिलाषमाख्याहि पूरयाम्यधुना प्रिये
波罗舍罗说道:“少女啊,与我一同随意嬉游,尽享由欲望生起的欢悦。说出你的心愿吧,亲爱的,我此刻便为你成就。”
Verse 30
मदाज्ञासत्यकरणान्नाम्ना सत्यवती भव । वन्दनीया तथाशेषैर्योगिभिस्त्रिदशैरपि
“因你使我的命令成就真实,当以‘萨蒂雅瓦蒂’之名为世所知。并且,你将为一切所礼敬——诸瑜伽行者,乃至诸天神亦然。”
Verse 31
सत्यवत्युवाच । जानते न पिता माता न वान्ये भुवि मानवाः । कन्याधर्मो न मे हन्याद्यदि स्वीकुरु मान्तदा
萨蒂雅瓦蒂说道:“父母不知,世间他人亦不知。若君今即纳我,则我处女之戒、贞洁之法,必不致毁。”
Verse 32
पुत्रश्च त्वत्समो नाथ भवेदद्भुतशक्तिमान् । सौगन्ध्यं सर्वदांगे मे तारुण्यं च नवंनवम्
“噢主宰,愿我得一子与君等同,具不可思议之神力。又愿我四肢百骸恒常芬芳,愿我青春常新,日日更新。”
Verse 33
पराशर उवाच । शृणु प्रिये तवाभीष्टं सर्वं पूर्णं भविष्यति । विष्ण्वंशसंभवः पुत्रो भविता ते महायशाः
帕罗娑罗说道:“听着,挚爱者——你所愿求的一切都将圆满成就。一个出自毗湿奴族系、极具荣光的儿子,将为你而生。”
Verse 34
किंचिद्वै कारणं विद्धि यतोऽहं कामपीडितः । दृष्ट्वा चाप्सरसारूपं नामुह्यन्मे नमः क्वचित्
当知此乃真实之因:我为欲念所煎迫。即便见到天女(阿普萨拉)的形貌,我心亦不迷乱——从未失却内在的敬畏与礼敬。
Verse 35
मीनगन्धां समालक्ष्य त्वां मोहवशगोऽभवम् । न बाले भालपट्टस्थो ब्रह्मलेखोऽन्यथा भवेत्
察觉你身上带着鱼香之气,我便落入迷惑的支配。少女啊,额上由梵天所书写的命运,决不会变作他样。
Verse 36
पुराणकर्ता पुत्रस्ते वेदशाखाविभागकृत् । भविष्यति वरारोहे ख्यातकीर्तिर्जगत्त्रये
娉婷者啊,你的儿子将成为《往世书》的撰作者,并分判吠陀诸支;他的名声将传遍三界。
Verse 37
इत्युक्त्वा तां सुरम्याङ्गीं भुक्त्वा योगविशारदः । वव्राज शीघ्रं यमुनाजले स्नात्वा महामुने
对那位肢体绝美的女子如此言毕,精通瑜伽者用过食;随后——噢大牟尼——在亚穆那河水中沐浴之后,便迅速离去。
Verse 38
सापि गर्भं दधाराशु द्वादशात्मसमप्रभम् । असूत सूर्य्यजाद्वीपे कामदेवमिवात्मजम्
她也很快怀孕,腹中怀着与十二重威力相等的光辉;并在名为“苏里耶迦岛”(Sūryyajā-dvīpa)之地,诞下一子,宛如爱神迦摩天(Kāmadeva)亲临。
Verse 39
वामे कमण्डलुं बिभ्रद्दक्षिणे दण्डमुत्तमम् । पिशंगीभिर्जटाभिश्च राजितो महसां चयः
祂左手持甘曼陀卢水罐(kamandalu),右手执上妙之杖;那光辉的宝藏熠熠生辉,鬃黄的结发(jaṭā)披垂其上,更显庄严。
Verse 40
जातमात्रस्तु तेजस्वी मातरं प्रत्यभाषत । गच्छ मातर्यथाकामं गच्छाम्यहमतः परम्
然而那光辉炽盛者,方才出生便对母亲说道:“母亲啊,随你心愿而去;我将从此处离开,趋向彼岸的至上境界。”
Verse 41
मातर्यदा भवेत्कार्यं तव किंचिद्धृदीप्सितम् । संस्मृतश्चागमिष्यामि त्वदिच्छापूर्तिहेतवे
“母亲啊,凡你有任何事务,或心中所愿之事,只要忆念于我,我必定前来,为成就你的心愿。”
Verse 42
इत्युक्त्वा मातृचरणावभिवाद्य तपोनिधिः । जगाम च तपः कर्त्तुं तीर्थं पापविशोधनम्
说罢,那位蕴藏苦行之宝者礼拜母亲双足,随即前往一处神圣的渡口圣地(tīrtha)——能涤罪净业之所——以修行苦行(tapas)。
Verse 43
सापि पित्रन्तिकं याता पुत्रस्नेहाकुला सती । स्मरन्ती चरितं सूनोर्वर्णयन्ती स्वभाग्यकम्
她也前往父亲面前。因对儿子的慈爱而心绪翻涌,那位贞善的女子不断追忆儿子的行迹,并口中称述自己所得的福分。
Verse 44
द्वीपे जातो यतो बालस्तेन द्वैपायनोऽभवत् । वेदशाखाविभजनाद्वेदव्यासः प्रकीर्तितः
由于那孩子生于一座岛屿(dvīpa),故得名“岛生者”德瓦伊帕亚那;又因他将吠陀分为诸支派,遂被尊称为“吠陀编纂者”韦陀毗耶娑。
Verse 45
तीर्थराजं प्रथमतो धर्मकामार्थ मोक्षदम् । नैमिषं च कुरुक्षेत्रं गङ्गाद्वारमवन्तिकाम्
首先当赞颂“圣渡之王”(最胜的 tīrtha),赐予法(Dharma)、欲(Kāma)、利(Artha)与解脱(Mokṣa);其后为奈弥沙(Naimiṣa)、俱卢之野(Kurukṣetra)、恒河之门(Gaṅgādvāra/Haridvāra)与阿凡提迦(Avantikā/Ujjayinī)。
Verse 46
अयोध्यां मथुरां चैव द्वारकाममरावतीम् । सरस्वतीं सिंधुसङ्गं गंगा सागरसंगमम्
阿约提亚(Ayodhyā)与摩图罗(Mathurā),以及堕罗迦(Dvārakā)与阿摩罗伐底(Amarāvatī);萨拉斯瓦蒂河(Sarasvatī)、信度河汇合之处(Sindhu-saṅgama),以及恒河入海之地——这一切圣处皆当敬礼供奉。
Verse 47
काञ्चीं च त्र्यम्बकं चापि सप्तगोदावरीतटम् । कालञ्जरं प्रभासं च तथा बदरिकाश्रमम्
并当巡礼迦恩吉(Kāñcī),亦至三眼主之地特里扬巴卡(Tryambaka);到萨普塔戈达瓦里(Saptagodāvarī)的戈达瓦里河岸;又至迦兰阇罗(Kālañjara)、普拉婆娑(Prabhāsa),以及同样神圣的巴达利迦修林(Badarikāśrama)。
Verse 48
महालयन्तथोंकारक्षेत्रं वै पुरुषोत्तमम् । गोकर्णं भृगुकच्छं च भृगुतुंगं च पुष्करम्
“(他又称说)摩诃罗耶(Mahālaya),以及神圣的唵迦罗圣域(Oṃkāra-kṣetra);又有普鲁绍塔摩(Puruṣottama)——并列果迦尔那(Gokarṇa)、婆利古迦叉(Bhṛgukaccha)、婆利古图恩伽(Bhṛgutuṅga)与补湿迦罗(Puṣkara)。”
Verse 49
श्रीपर्वतादितीर्थानि धारातीर्थं तथैव च । गत्वावगाह्य विधिना चचार परमन्तपः
他前往以室利山(Śrīparvata)为首的诸圣地渡口,又至达拉圣渡(Dhārā-tīrtha);依仪轨入水沐浴后,那位大苦行者——以炽烈苦修(tapas)燃烧其身——继续行持严峻的修行。
Verse 50
एवन्तीर्थान्यनेकानि नानादेशस्थितानि ह । पर्य्यटन्कालिकासूनुः प्रापद्वाराणसीम्पुरीम्
就这样,迦利迦之子游历了诸多分布在各地的圣地渡口(tīrtha),最终抵达了婆罗那西城。
Verse 51
यत्र विश्वेश्वरः साक्षादन्नपूर्णा महेश्वरी । भक्तानाममृतन्दातुं विराजेते कृपानिधी
在那里,毗湿韦湿伐罗(Viśveśvara)亲自显现,安那普尔那(Annapūrṇā)大女神亦同辉耀——二者皆为慈悲之海,赐予信众恩典的甘露。
Verse 52
प्राप्य वाराणसीतीर्थं दृष्ट्वाथ मणिकर्णिकाम् । कोटिजन्मार्जितं पापं तत्याज स मुनीश्वरः
他抵达婆罗那西的圣地渡口,又瞻见摩尼迦耳尼迦(Maṇikarṇikā)后,那位诸仙之尊便抛却了累积于千万千万生中的罪垢。
Verse 53
दृष्ट्वा लिंगानि सर्वाणि विश्वेशप्रमुखानि च । स्नात्वा सर्वेषु कुण्डेषु वापीकूपसरस्सु च
他瞻礼一切圣林伽,以毗湿韦舍(Viśveśa)为首;又在诸圣池中沐浴,并在井、阶井与湖泊中净身。
Verse 55
दण्डनायकमुख्यांश्च गणान्स्तुत्वा प्रयत्नतः । आदिकेशवमुख्यांश्च केशवान्परितोष्य च
他竭诚赞颂以总帅檀陀那耶迦为首的众伽那,又使以阿底·计舍婆为首的诸计舍婆心生欢喜、得以满足。
Verse 56
लोलार्कमुख्यसूर्यांश्च प्रणम्य च पुनःपुनः । कृत्वा पिण्डप्रदानानि सर्वतीर्थेष्वतन्द्रितः
他一再顶礼太阳神,自罗罗阿尔迦(Lolārka)起首;并且毫不懈怠,在一切圣地渡口(tīrtha)都奉献了食团供(piṇḍa)。
Verse 57
स्थापयामास पुण्यात्मा लिंगं व्यासेश्वराभिधम् । यद्दर्शनाद्भवेद्विप्र नरो विद्यासु वाक्पतिः
那位福德之人安立了一尊名为“毗耶娑主”(Vyāseśvara)的林伽。噢婆罗门啊,仅仅瞻礼此林伽,世人便能在诸学与诸支知识中成为言辞之主。
Verse 58
लिंगान्यभ्यर्च्य विश्वेशप्रमुखानि सुभक्तितः । असकृच्चिन्तयामास किं लिगं क्षिप्रसिद्धिदम्
他以至诚奉爱礼拜诸多湿婆林伽,自毗湿韦湿(Viśveśa)起,反复思惟道:“哪一尊林伽能赐予迅速的灵性成就?”
Verse 59
यमाराध्य महादेवं विद्याः सर्वा लभेमहि । पुराणकर्तृताशक्तिर्ममास्तु यदनुग्रहात्
礼敬大天(Mahādeva)之后,愿我们获得一切神圣知识;并蒙其恩佑,愿我生起撰作《往世书》(Purāṇa)的力量。
Verse 60
श्रीदमोंकारनाथं वा कृत्तिवासेश्वरं किमु । केदारेशन्तु कामेशं चन्द्रेशं वा त्रिलोचनम्
或称可敬的唵迦罗那他(Oṃkāranātha),或称克利提瓦塞湿伐罗(Kṛttivāseśvara)——又何须多言?在计达罗(Kedāra),祂被赞为迦摩主(Kāmeśa);他处又称月主(Candreśa),或三眼之主(Trilocana)。
Verse 61
कालेशं वृद्धकालेशं कालशेश्वरमेव वा । ज्येष्ठेशं जम्बुकेशं वा जैगीषव्येश्वरन्तु वा
人们可礼拜(湿婆)为“迦勒沙”(Kāleśa)、为“老迦勒沙”(Vṛddha-Kāleśa),或确为“迦罗舍湿伐罗”(Kālaśeśvara);亦可礼拜为“耶什吒湿”(Jyeṣṭheśa)、“阇牟布迦湿”(Jambukeśa),或“阇伊吉沙毗耶湿伐罗”(Jaigīṣavyeśvara)。
Verse 62
दशाश्वमेधमीशानं द्रुमिचण्डेशमेव वा । दृक्केशं गरुडेशं वा गोकर्णेशं गणेश्वरम्
(应当礼拜或忆念)以“十马祭”之名著称的伊舍那(Īśāna);或德鲁米旃陀耶沙(Drumicaṇḍeśa);或德利克耶沙(Dṛkkeśa);或伽鲁达耶沙(Garuḍeśa);以及果迦耳那耶沙(Gokarṇeśa)——伽那之主伽内湿伐罗(Gaṇeśvara)。
Verse 63
प्रसन्नवदनेशं वा धर्म्मेशं तारकेश्वरम् । नन्दिकेशं निवासेशं पत्रीशं प्रीतिकेश्वरम्
或可通过忆念这些圣名来礼拜(湿婆):安颜之主、法(Dharma)之主、塔雷湿伐罗(Tāreśvara)、难丁之主、居处之主、帕特里沙(Patrīśa)、以及普利提凯湿伐罗(Prītikeśvara)。
Verse 64
पर्वतेशं पशुपतिं हाटकेश्वरमेव वा । बृहस्पतीश्वरं वाथ तिलभाण्डेशमेव वा
人可礼拜(主)为帕尔瓦泰沙(Parvateśa)、为牧主帕舒帕提(Paśupati),或确然为哈塔凯湿伐罗(Hāṭakeśvara);或为布里哈斯帕提湿伐罗(Bṛhaspatīśvara);又或为提拉班达耶沙(Tilabhāṇḍeśa)。
Verse 65
भारभूतेश्वरं किं वा महालक्ष्मीश्वरं तु वा । मरुतेशन्तु मोक्षेशं गंगेशं नर्मदेश्वरम्
或(可礼拜)婆罗布护提湿伐罗(Bhārabhūteśvara);或确然摩诃拉克什米湿伐罗(Mahālakṣmīśvara);同样还有摩鲁泰沙(Maruteśa)、解脱主摩克谢沙(Mokṣeśa)、恒河主冈伽耶沙(Gaṅgeśa)与那尔玛达耶沙(Narmadeśvara)——这些伊湿伐罗皆是湿婆,于圣地以林伽之相显现。
Verse 66
कृष्णेशं परमेशानं रत्नेश्वरमथापि वा । यामुनेशं लांगलीशं श्रीमद्विश्वेश्वरं विभुम्
行者可礼敬湿婆为Kṛṣṇeśa、为Parameśāna、或为Ratneśvara;亦可礼敬为Yāmuneśa、为Lāṅgalīśa,以及为光耀的Viśveśvara——遍满一切的至上主宰。
Verse 67
अविमुक्तेश्वरं वाथ विशालाक्षीशमेव वा । व्याघ्रेश्वरं वराहेशं विद्येश्वरमथापि वा
亦可礼敬Avimukteśvara,或确然礼敬Viśālākṣīśa;同样也可礼敬Vyāghreśvara、Varāheśa,乃至Vidyeśvara——皆为应以虔敬亲近的湿婆尊相。
Verse 68
वरुणेशं विधीशं वा हरिकेशेश्वरन्तु वा । भवानीशं कपर्द्दीशं कन्दुकेश मजेश्वरम्
可礼敬湿婆为Varuṇeśa,或为Vidhīśa(梵天之主),或为Harikeśeśvara;亦可礼敬为Bhavānīśa(婆伐尼之主)、为Kaparddīśa(结发之主)、为Kandukeśa,以及为Majeśvara。
Verse 69
विश्वकर्मेश्वरं वाथ वीरेश्वरमथापि वा । नादेशं कपिलेशं च भुवनेश्वरमेव वा
亦可礼敬Viśvakarmēśvara,或礼敬Vīrēśvara;或礼敬Nādeśa、Kapilēśa,乃至Bhuvaneśvara——皆为主之所受敬奉的圣相/林伽。
Verse 70
बाष्कुलीशं महादेवं सिद्धीश्वरमथापि वा । विश्वेदेवेश्वरं वीरभद्रेशं भैरवेश्वरम्
“当礼敬/忆念Bāṣkulīśa、Mahādeva以及Siddhīśvara;当礼敬/忆念Viśvedeveśvara、Vīrabhadreśa与Bhairaveśvara。”
Verse 71
अमृतेशं सतीशं वा पार्वतीश्वरमेव वा । सिद्धेश्वरं मतंगेशं भूतीश्वरमथापि वा
无论人们以“阿蜜利特伊湿伐罗”(不死之主)、或以“萨蒂伊湿伐罗”(萨蒂之主)、或以“帕尔瓦蒂伊湿伐罗”(帕尔瓦蒂之主)来礼敬他;或称他为“悉地伊湿伐罗”、为“摩当伽伊湿伐罗”、或又为“部提伊湿伐罗”(众生群类之主)——这一切皆是同一位至上主湿婆的圣名。
Verse 72
आषाढीशं प्रकामेशं कोटिरुद्रेश्वरन्तथा । मदालसेश्वरं चैव तिलपर्णेश्वरं किमु
“(他又提到)阿沙陀伊湿、普罗迦梅湿,以及同样的拘提鲁陀罗伊湿;又有玛达拉塞伊湿,乃至提拉帕尔涅伊湿——还须多言什么呢?”
Verse 73
किं वा हिरण्यगर्भेशं किं वा श्रीमध्यमेश्वरम् । इत्यादिकोटिलिंगानां मध्येऽहं किमुपाश्रये
“我当归依于‘金胎伊湿’(Hiraṇyagarbheśa)呢,还是归依于吉祥的‘中尊伊湿’(Madhyameśvara)呢?在这无量无数、亿亿计的林伽之中,我应依止并礼拜哪一尊?”
Verse 74
इति चिन्तातुरो व्यासः शिवभक्तिरतात्मवान् । क्षणं विचारयामास ध्यानसुस्थिरचेतसा
于是,毗耶娑——其身心恒住于对湿婆的虔敬供奉——因忧思而烦扰;片刻之间,他以禅定摄心,使意念安住而沉思。
Verse 75
आज्ञातं विस्मृतं तावन्निष्पन्नो मे मनोरथः । सिद्धैः संपूजितं लिंगं धर्म्मकामार्थमोक्षदम्
只要它仍不为人知、被遗忘,我所珍爱的愿望便未能成就。然而此灵伽——连诸悉地者亦敬奉供养——能赐予达摩、欲乐、财富与解脱(mokṣa)。
Verse 76
दर्शनात्स्पर्शनाद्यस्य चेतो निर्मलतामियात् । उद्धाटितं सदैवास्ति द्वारं स्वर्गस्य यत्र हि
仅以瞻礼与触及那神圣临在,心便得以澄净。因为在那处,天界之门确实恒常敞开。
Verse 77
अविमुक्ते महाक्षेत्रे सिद्धक्षेत्रे हि तत्परम् । यत्रास्ते परमं लिंगं मध्यमेश्वरसंज्ञकम्
在阿毗穆克塔(Avimukta)——伟大的圣域、成就之圣地(Siddhakṣetra)——彼处安住着至上的林伽(Liṅga),号为“中间自在主”摩地耶梅湿伐罗(Madhyameśvara)。
Verse 78
न मध्यमेश्वरादन्यल्लिंगं काश्यां हि विद्यते । यद्दर्शनार्थमायान्ति देवाः पर्वणिपर्वणि
在迦尸(Kāśī),确无除摩地耶梅湿伐罗(Madhyameśvara)之外的其他林伽;为求得对他的达尔善(darśana,神圣瞻礼),诸天也会一节复一节、一次法会复一次法会地前来。
Verse 79
अतः सेव्यो महादेवो मध्यमेश्वरसंज्ञकः । अस्याराधनतो विप्रा बहवः सिद्धिमागताः
因此,应当礼敬名为“中间主”(Madhyameśvara)的摩诃提婆。由对祂的供奉,许多婆罗门圣者已证得成就与圆满。
Verse 80
यः प्रधानतया काश्या मध्ये तिष्ठति शङ्करः । स्वपुरीजन सौख्यार्थमतोऽसौ मध्यमेश्वरः
那位作为至上主而安住于迦尸(Kāśī)正中央的商羯罗,为了自己圣城子民的福祉与灵性安乐;因此祂被称为“Madhyameśvara”——“居中之主”。
Verse 81
तुम्बुरुर्नाम गंधर्वो देवर्षिर्नारदस्तथा । अमुमाराध्य संपन्नो गानविद्याविशारदौ
甘达婆图姆布鲁(Tumburu)以及天仙圣者那罗陀(Nārada)亦复如是——以虔敬礼拜彼(主湿婆)——遂得圆满成就,成为歌唱与音乐之学的卓越大师。
Verse 82
अमुमेव समाराध्य विष्णुर्मोक्षप्रदोऽभवत् । ब्रह्मा विष्णुश्च रुद्रश्च स्रष्टृपालकहारकाः
唯独礼拜彼(湿婆),毗湿奴遂成为赐予解脱者。梵天、毗湿奴与鲁陀罗分别为创造者、护持者与消除者(宇宙之职)。
Verse 83
धनाधीशः कुबेरोऽपि वामदेवो हि शैवराट् । खट्वांगो नाम भूपालोऽनपत्योऽपत्यवानभूत्
即便是财富之主俱毗罗(Kubera),以及在湿婆信众中为王者的伐摩提婆(Vāmadeva)——同样,那位名为卡特瓦昂伽(Khaṭvāṅga)的国王,昔日无嗣,也蒙湿婆恩泽而得子嗣。
Verse 84
अप्सराश्चन्द्रभामाख्या नृत्यन्ती निजभावतः । सदेहा कोकिलालापा लिंगमध्ये लयं गता
一位名为旃陀罗婆(Candrabhā)的天女,随其本然欢悦而舞——具其有形之身,声如鸠鸟般清甜——竟于林伽(Liṅga)正中归于融解寂灭。
Verse 85
श्रीकरो गोपिकासूनुः सेविता मध्यमेश्वरम् । गाणपत्यं समालेभे शिवस्य करुणात्मनः
戈毗迦之子室利迦罗礼敬供奉中间主(Madhyameśvara);承蒙大自在天湿婆的慈悲恩典,他得证伽那钵底派之境与道,即以象头神伽内沙为中心的奉爱之路。
Verse 86
भार्गवो गीष्पतिश्चोभौ देवौ दैत्यसुरार्चितौ । विद्यापारंगमौ जातौ प्रसादान्मध्यमेशितुः
婆伽婆(舒克罗)与吉师钵底(布里哈斯帕提)二神,皆为天神与阿修罗(代提耶)所敬奉;凭借中界之主的慈恩,他们成为通达圆满的圣智大师。
Verse 87
अहमप्यत्र संपूज्य मध्यमेश्वरमीश्वरम् । पुराणकर्तृताशक्तिं प्राप्स्यामि तरसा धुवम्
我亦将在此如法礼敬中界自在主(Madhyameśvara)——至上主宰——必将迅速而确然获得撰作一部《往世书》的力量与才能。
Verse 88
इति कृत्वा मतिं धीरो व्यासः सत्यवतीसुतः । भागीरथ्यम्भसि स्नात्वा जग्राह नियमं व्रती
如是定意之后,坚毅的圣贤毗耶娑——萨蒂娅瓦蒂之子——沐浴于婆伽罗提河(恒河)之水中,并以持戒行愿者之身,受持既定的尼耶摩(规定的修持)。
Verse 89
क्वचित्पर्णाशनो भूत्त्वा फलशाकाशनः क्वचित् । वातभुग्जलभुक्क्वापि क्वचिन्निरशनव्रती
有时他以树叶为食;有时食果蔬。或仅以气为养,或仅以水为命;又有时守持全然断食之誓,以严峻自制求证悟湿婆。
Verse 90
इत्यादि नियमैर्योगी त्रिकालं मध्यमेश्वरम् । पूजयामास धर्म्मात्मा नानावृक्षोद्भवैः फलैः
如是遵行诸般尼耶摩与克制,这位具法之瑜伽行者每日三时礼拜中天自在天(Madhyameśvara),以诸树所结的种种果实为供。
Verse 91
इत्थं बहुतिथे काले व्यतीते कालिकासुतः । स्नात्वा त्रिपथगातोये यावदायाति स प्रगे
如此,久时既过,迦梨迦之子在三道河(Tripathagā,即流贯三界之恒河)水中沐浴后,于黎明时分来到那里。
Verse 92
मध्यमेश्वरमीशानं भक्ताभीष्टवरप्रदम् । तावद्ददर्श पुण्यात्मा मध्येलिंगं महेश्वरम्
于是,那位福德之人见于中央:大自在天以林伽之相显现——伊舍那(Īśāna),名为“中间自在”(Madhyameśvara),能赐信众所愿之福。
Verse 93
उमाभूषितवामांगं व्याघ्रचर्म्मोत्तरीयकम् । जटाजूटचलद्गंगातरंगैश्चारुविग्रहम्
其左侧为乌玛(帕尔瓦蒂)所庄严;上身披虎皮为衣;其妙相又因恒河之水在其结发(jaṭā)间荡漾成波而更显端严。
Verse 94
लसच्छारदबालेन्दुचन्द्रिकाचन्दितालकम् । भस्मोद्धूलितसर्वाङ्गं कर्पूरार्जुनविग्रहम्
其发鬘灿然,宛如沐于秋夜新月之清辉;遍体撒覆圣灰(bhasma);其身相洁白光润,如樟脑与阿周那树之淡白树皮——此即吉祥的具相(saguṇa)湿婆尊之形容。
Verse 95
कर्णान्तायतनेत्रं च विद्रुमारुणदच्छदम् । पंचवर्षाकृति बालं बालकोचितभूषणम्
他约五岁孩童之貌,双目修长仿佛延至耳际;衣袍澄净如珊瑚之赤,佩戴着适合幼童的饰物。
Verse 96
दधानं कोटिकन्दर्प्पदर्पहानि तनुद्युतिम् । नग्रं प्रहसितास्याब्जं गायन्तं साम लीलया
祂具微妙光辉,足以摧伏无数伽摩天(爱神)之傲;祂裸身而自在无碍,莲华般的面容含柔和微笑,嬉游般吟唱《娑曼》圣歌。
Verse 97
करुणापारपाथोधिं भक्तवत्सलनामकम् । आशुतोषमुमाकान्तं प्रसादसुमुखं हरम्
我礼敬哈罗(Hara)——无岸大悲之海——以爱护奉者而著称;阿输托沙(易悦之主)、乌玛之爱侣,面容恒以慈和赐下恩佑。
Verse 98
समालोक्य स्तुतिं चक्रे प्रेमगद्गया गिरा । योगीनामप्यगम्यन्तं दीनबन्धुं चिदात्मकम्
见到祂后,他以爱意哽咽之声献上赞颂——礼敬那连瑜伽行者亦难企及的主、困厄者之友,其本体即清净觉知。
Verse 99
वेदव्यास उवाच । देवदेव महाभाग शरणागतवत्सल । वाङ्मनः कर्मदुष्पाप योगिनामप्यगोचर
毗耶娑说道:“噢诸天之天,至福大主,怜爱归依者;你超越连瑜伽行者亦难触及之境,且不为言语、心念与行为所生之过所染。”
Verse 100
महिमानं न ते वेदा विदामासुरुमापते । त्वमेव जगतः कर्ता धर्ता हर्ता तथैव च
噢,乌玛之主啊,连诸吠陀也未能尽知你的伟大。唯有你是宇宙的创造者、维持者,亦是收摄与消融者。
Verse 101
त्वमाद्यः सर्वदेवानां सच्चिदानंद ईश्वरः । नामगोत्रे न वा ते स्तः सर्वज्ञोऽसि सदाशिव
你是诸天之中最初的主宰,是本性为“有、觉、乐”(Sat-Cit-Ānanda)的自在天。于你并无名号与族系等限制;噢,萨达湿婆,你全知无碍。
Verse 102
त्वमेव परमं ब्रह्म मायापाशनिवर्तकः । गुणत्रयैर्न लिप्तस्त्वं पद्मपत्रमिवांभसा
唯有你是至上梵(Paramabrahman),能解除摩耶之缚。虽处于三德(guṇa)之中,你却不为其所染——如莲叶不沾水。
Verse 103
न ते जन्म न वा शीलं न देशो न कुलं च ते । इत्थं भूतोपीश्वरत्वं त्रिलोक्याः काममावहे
你无生,无世俗之性,无国土,亦无族姓。然而即便如此,你仍自在摄受三界之主权,随意成就一切所愿。
Verse 104
न च ब्रह्मा न लक्ष्मीशो न च सेन्द्रा दिवौकसः । न योगीन्द्रा विदुस्तत्त्वं यस्य तं त्वामुपास्महे
非梵天,非吉祥天女之主毗湿奴,非与因陀罗同在的天界诸神,乃至最上瑜伽行者亦不能真实了知祂的本质实相——而祂即是你。故我等唯独礼拜你。
Verse 105
त्वत्तः सर्वं त्वं हि सर्वं गौरीशस्त्वं पुरान्तकः । त्वं बालस्त्वं युवा वृद्धस्तं त्वां हृदि युनज्म्यहम्
万有由汝而生;诚然,汝即是一切。汝为高丽之主,普兰多迦——摧毁三城者。汝为童子,汝为青年,汝为老者——遍在之主啊,我于心中与汝相契。
Verse 106
नमस्तस्मै महेशाय भक्तध्येयाय शम्भवे । पुराणपुरुषायाद्धा शंकराय परात्मने
顶礼彼大天摩诃伊湿,顶礼商婆——为信众所观想者;顶礼太初之人,永恒清净、无垢无染;顶礼商羯罗,至上自性(Paramātman),为一切内在最深的真实。
Verse 107
इति स्तुत्वा क्षितौ यावद्दण्डवन्निपपात सः । तावत्स बालो हृष्टात्मा वेदव्यासमभाषत
如是赞颂已毕,他俯身倒地,作“杖式”全身投地礼。就在那一刻,那童子心怀欢喜,开口对圣者毗耶娑说道。
Verse 108
वरं वृणीष्व भो योगिन्यस्ते मनसि वर्तते । नादेयं विद्यते किंचिद्भक्ताधीनो यतोऽस्म्यहम्
噢,瑜伽女神(yoginī),请选择你心中所愿之恩赐。无有不可赐予之物——因为我为奉爱(bhakti)所系,亦在我信徒的力量之下。
Verse 109
तत उत्थाय हृष्टात्मा मुनिर्व्यासो महातपाः । प्रत्यब्रवीत्किमज्ञातं सर्वज्ञस्य तव प्रभो
于是,大苦行仙人毗耶娑(Vyāsa)欢喜起身,答曰:“噢主宰啊,对您这位全知者而言,岂有任何未知之事?”
Verse 110
सर्वान्तरात्मा भगवाञ्छर्वः सर्वप्रदो भवान् । याञ्चां प्रतिनियुङ्क्ते मां किमीशो दैन्यकारिणीम्
你是世尊舍婆,住于一切众生之内的内在真我,赐予万般恩惠者。既如此,主为何还差遣我——只会招致凄苦之人——去乞求呢?
Verse 111
इति श्रुत्वा वचस्तस्य व्यासस्यामलचेतसः । शुचि स्मित्वा महादेवो बालरूपधरोऽब्रवीत्
听罢心地清净的毗耶娑之言,摩诃提婆化作童子之形,清净含笑,遂开口说道。
Verse 112
बाल उवाच । त्वया ब्रह्मविदां श्रेष्ठ योऽभिलाषः कृतो हृदि । अचिरेणैव कालेन स भविष्यत्यसंशयः
童子说道:“噢,诸知梵者中最殊胜者!你心中所起之愿,不久必将成就,毫无疑虑。”
Verse 113
कण्ठे स्थित्वा तव ब्रह्मन्नन्तर्याम्यहमीश्वरः । सेतिहासपुराणानि सम्यङ्निर्यापयाम्यहम्
噢,梵天啊!我——湿婆,主宰——住于你喉间,作为内在的主宰者(Antaryāmin)。我将如法显现并妥善编次《伊提哈萨》与《往世书》,连同其世代相传的叙事。
Verse 114
अभिलाषाष्टकं पुण्यं स्तोत्रमेतत्त्वयेरितम् । वर्षं त्रिकालं पठनात्कामदं शम्भुसद्मनि
此《阿毗罗沙八颂》(Abhilāṣāṣṭaka)乃你所宣说的功德赞歌。若能一年之中每日三时诵读,便在商婆(湿婆主)的圣居与慈恩中,得遂所愿。
Verse 115
एतत्स्तोत्रस्य पठनं विद्याबुद्धिविवर्द्धनम् । सर्वसंपत्करं प्रोक्तं धर्मदं मोक्षदं नृणाम्
诵读此赞颂偈,据说能增长真知与正慧;并被宣说可赐予一切吉祥福财,且为世人授予法(dharma),引向解脱(mokṣa)。
Verse 116
प्रातरुत्थाय सुस्नातो लिंगमभ्यर्च्य शांकरम् । वर्षं पठन्निदं स्तोत्रं मूर्खोऽपि स्याद्बृहस्पतिः
清晨起身,沐浴洁净,礼拜商羯罗之林伽;若能诵此赞颂满一年,即便愚钝之人亦将智慧如同布里哈斯帕提(天界导师)。
Verse 117
स्त्रिया वा पुरुषेणापि नियमाल्लिंगसन्निधौ । वर्षं जप्तमिदं स्तोत्रं बुद्धिं विद्याञ्च वर्द्धयेत्
无论女子或男子——以应有的戒律在湿婆林伽前修持——此赞颂若持续诵持满一年,便能增长明辨之智与神圣学识。
Verse 118
इत्युक्त्वा स महादेवो बालो लिंगे न्यलीयत । व्यासोऽपि मुंचन्नश्रूणि शिवप्रेमाकुलोऽभवत्
说罢,那位大天(Mahādeva)——以童子之相示现——融入林伽之中。毗耶娑亦泪流不止,被对湿婆的爱所淹没。
Verse 119
एवं लब्धवरो व्यासो महेशान्मध्यमेश्वरात । अष्टादश पुराणानि प्रणिनाय स्वलीलया
于是,毗耶娑从摩诃伊湿(Maheśa)——作为一切众生与诸界之中居中的内在主宰——得受恩赐后,凭其神圣的戏游之力,撰成十八部《往世书》。
Verse 120
ब्राह्मं पाद्मं वैष्णवञ्च शैवं भागवतं तथा । भविष्यं नारदीयं च मार्कंडेयमतः परम्
“(这些是)《梵天》《莲华》《毗湿奴》《湿婆》以及《薄伽梵》诸《往世书》;又有《未来》《那罗陀》,其后还有《摩尔迦ṇḍeya往世书》。”
Verse 121
आग्नेयं ब्रह्मवैवर्त लिंगं वाराहमेव च । वामनाख्यं ततः कौर्मं मात्स्यं गारुडमेव च
(这些是)《阿耆尼耶》《梵天转变》《林伽》《野猪》《名为侏儒》;其后为《龟》《鱼》,以及《迦楼罗》诸《往世书》。
Verse 122
स्कान्दं तथैव ब्रह्माण्डाख्यं पुराणं च कीर्तितम् । यशस्यं पुण्यदं नॄणां श्रोतॄणां शांकरं यश
同样,《斯坎达往世书》与名为《梵卵往世书》的《往世书》也被宣说。凡聆听者,得名声与福德;而赞颂商羯罗的湿婆荣耀,也在听众中广为传扬。
Verse 123
सूत उवाच । अष्टादशपुराणानाम्पूर्वं नामोदितन्त्वया । कुरु निर्वचनं तेषामिदानीं वेदवित्तम
苏多说道:“先前你已宣说十八部《往世书》之名。如今,噢最通达吠陀者,请为它们作词源推释,并阐明其正义。”
Verse 124
व्यास उवाच । अयमेव कृतः प्रश्नस्तण्डिना ब्रह्मयोनिना । नन्दिकेश्वरमुद्दिश्य स यदाह ब्रवीमि तत्
毗耶娑说道:“正是这个问题,曾由梵天所生的圣者檀丁提出。他面向难提计湿伐罗所说的一切,我如今将为你转述。”
Verse 125
नन्दिकेश्वर उवाच । यत्र वक्ता स्वयन्तण्डे ब्रह्मा साक्षाच्चतुर्मुखः । तस्माद्ब्रह्मं समाख्यातं पुराणं प्रथमं मुने
难提计湿伐罗说道:“在那部《普罗那》中,于‘自显坦达瓦’(主自现之舞)之时,亲自宣说者正是四面梵天;因此,噢牟尼,此《普罗那》被称为诸《普罗那》之首,名为《梵天普罗那》。”
Verse 126
पद्मकल्पस्य माहात्म्यन्तत्र यस्यामुदाहृतम् । तस्मात्पाद्मं समाख्यातं पुराणं च द्वितीयकम्
在那部(普罗那)中宣说了莲华劫(Padma-kalpa)的伟大功德。因此它被称为《莲华普罗那》(Pādma Purāṇa),并列为第二(在此序列中)。
Verse 127
पराशरकृतं यत्तु पुराणं विष्णुबोधकम् । तदेव व्यासकथितं पुत्रपित्रोरभेदतः
那部由帕罗沙罗(Parāśara)所作、开示毗湿奴之智的《普罗那》,正是毗耶娑(Vyāsa)所宣说的同一部《普罗那》;因为在真实本性上,父与子并无二致。
Verse 128
यत्र पूर्वोत्तरे खण्डे शिवस्य चरितं बहु । शैवमेतत्पुराणं हि पुराणज्ञा वदन्ति च
凡在前后两部中都大量叙述湿婆的行迹与神圣功业的那部《普罗那》——通晓《普罗那》者皆宣称:此《普罗那》确为湿婆派(Śaiva)之典。
Verse 129
भगवत्याश्च दुर्गायाश्चरितं यत्र विद्यते । तत्तु भागवतं प्रोक्तं ननु देवीपुराणकम्
凡记载吉祥圣母杜尔迦(Durgā)神圣事迹之《往世书》,被宣称为“薄伽梵多(Bhāgavata)”;诚然,那就是《女神往世书》(Devī-Purāṇa)。
Verse 130
नारदोक्तं पुराणन्तु नारदीयं प्रचक्षते । यत्र वक्ताऽभवत्तण्डे मार्कण्डेयो महामुनिः
由那罗陀所宣说的那部《往世书》,被称为《那罗陀往世书》;而在那神圣的会众中,大圣者摩尔甘德耶成为讲述者。
Verse 131
मार्कण्डेयपुराणं हि तदाख्यातं च सप्तमम् । अग्नियोगात्तदाग्नेयं भविष्योक्तेर्भविष्यकम्
确然,《摩尔甘德耶往世书》被宣称为第七部。因与火神阿耆尼相应,故名“阿耆尼耶”;又因载有对未来之事的预言,故名“婆毗湿耶”。
Verse 132
विवर्तनाद्ब्रह्मणस्तु ब्रह्मवैवर्तमुच्यते । लिंगस्य चरितोक्तत्वात्पुराणं लिंगमुच्यते
由于它阐明与梵天——创造之宇宙原理——相关的种种变现(vaivarta),故称为《梵天变现往世书》(Brahma‑vaivarta)。又因它叙述主湿婆之圣林伽的神圣事迹与荣耀,此《往世书》便称为《林伽往世书》。
Verse 133
वराहस्य च वाराहं पुराणं द्वादशं मुने । यत्र स्कन्दः स्वयं श्रोता वक्ता साक्षान्महेश्वरः
噢,牟尼啊,为野猪化身(Varāha)有《瓦罗诃往世书》,为第十二部;其中,斯甘达亲自为听者,而宣说者乃摩诃提婆(摩醯湿伐罗)亲临其身。
Verse 134
तत्तु स्कान्दं समाख्यातं वामनस्य तु वामनम् । कौर्मं कूर्मस्य चरितं मात्स्यं मत्स्येन कीर्तितम्
此确被宣说为《斯甘达往世书》;而《婆摩那往世书》则关乎婆摩那。 《库尔摩往世书》叙述龟化身之行迹,《摩蹉往世书》则由鱼化身亲自宣扬。
Verse 135
गरुडस्तु स्वयं वक्ता यत्तद्गारुडसंज्ञकम् । ब्रह्माण्डचरितोक्तत्वाद्ब्रह्माण्डं परिकीर्तितम्
由于迦楼罗(Garuḍa)亲自为叙述者,那一部分便称为“迦楼罗篇(Gāruḍa)”。又因其讲述“梵卵”(Brahmāṇḍa,宇宙之卵/宇宙)的事迹,故被称颂为“梵卵篇(Brahmāṇḍa)”。
Verse 136
सूत उवाच । अयमेव मयाऽकारि प्रश्नो व्यासाय धीमते । ततः सर्वपुराणानां मया निर्वचनं श्रुतम्
苏多说道:“正是这个问题,我曾向睿智的毗耶娑请问。随后,我从他那里聆听到关于一切《往世书》的权威阐释。”
Verse 137
एवं व्याससमुत्पन्नः सत्यवत्यां पराशरात् । पुराणसंहिताश्चक्रे महाभारतमुत्तमम्
如此,毗耶娑由波罗沙罗经由萨蒂娅瓦蒂而生。随后,他编纂诸《往世书》汇编,并且撰成至高史诗《摩诃婆罗多》。
Verse 138
पराशरेण संयोगः पुनः शन्तनुना यथा । सत्यवत्या इव ब्रह्मन्नः संशयितुमर्हसि
婆罗门啊,你确可生疑——正如萨蒂娅瓦蒂先与帕罗沙罗结合,后又与商塔努结合一般。
Verse 139
सकारणेयमुत्पत्तिः कथिताश्चर्य्यकारिणी । महतां चरिते चैव गुणा ग्राह्या विचक्षणैः
由是,此起源之奇妙叙事,连同其因缘,已被宣说。至于伟大者的行迹,明辨之人当摄取并奉行其中所显的德行。
Verse 140
इदं रहस्यं परमं यः शृणोति पठत्यपि । स सर्वपापनिर्मुक्त ऋषिलोके महीयते
凡听闻此至上奥秘者——乃至仅仅诵读者——皆能脱离一切罪垢,并在诸仙圣(ṛṣi)之界受人尊崇。
It narrates the account of Vyāsa’s origin: the sages ask Sūta to resolve how Vyāsa is born to Satyavatī via Parāśara, leading into the Yamunā river-crossing episode involving Matsyagandhā and the niṣāda community.
The river-crossing functions as a liminal symbol for transition into a destined event, while kāla-yoga signals that extraordinary births occur through time-conditioned cosmic necessity—aligning ascetic potency with dharmic causality to generate a bearer of revelation (Vyāsa).
This chapter’s sampled passage is primarily genealogical and sage-centered rather than iconographic; it does not foreground a distinct Śiva/Umā form, instead emphasizing providential order and the emergence of a major ṛṣi within a Śaiva Purāṇic framework.