Adhyaya 78
Srishti KhandaAdhyaya 7866 Verses

Adhyaya 78

Appeasement Rite of the Sun (Sunday Vrata, Mantra, and Healing Praise)

《莲华往世书》PP.1.78讲述安抚太阳神的Sūrya-śānti与以星期日为主的戒行(Sunday vrata):以红花献arghya,节制饮食(仅夜间进食;haviṣyānna),并说明当星期日恰逢Saptamī或Saṅkrānti时功德尤为殊胜。章中依次开示仪轨:净身、安置maṇḍala、观想二臂日神端坐红莲之上,继而供奉香膏、熏香、明灯、naivedya与清水,并配合诸mudrā。 随后转入义理赞颂:称太阳为至上本源,按月份列举十二Āditya,并以stotra宣示Sūrya即Brahmā/Viṣṇu/Rudra之理。又传授根本真言(oṃ hrāṃ hrīṃ saḥ …)与“太阳回旋水”(Sūryāvarta-water)疗法,强调秘传与受持资格;末以phalaśruti许诺得健康、灭罪、增福致富、升天与解脱。

Shlokas

Verse 1

वैशम्पायन उवाच । भगवंस्त्वत्प्रसादाच्च श्रुतं मे पावनं व्रतं । अपरं श्रोतुमिच्छामि ब्रध्नस्य च प्रियं च यत्

毗舍波耶那说道:“世尊啊,承蒙你的恩德,我已听闻净化之誓。如今我还愿再闻其余——亦即布罗陀那所喜爱之事。”

Verse 2

व्यास उवाच । कैलासशिखरे रम्ये सुखासीनं महेश्वरं । प्रणम्य शिरसा भूमौ स्कंदो वचनमब्रवीत्

毗耶娑说道:在吉祥可爱的凯拉萨峰顶,天王摩醯湿伐罗安坐自若;斯甘达以首触地礼拜后,说了如下言辞。

Verse 3

अर्काङ्गाख्यविधिस्त्वत्तो मयैवं विस्तराच्छ्रुतः । वारादेर्यत्फलं नाथ श्रोतुमिच्छामि तत्त्वतः

我已从您处详尽听闻名为“阿尔迦昂伽(Arkáṅga)”的仪轨。如今,主啊,我愿如实聆听从“瓦拉(Vāra,星期之仪)”等开始的持戒之真实功果。

Verse 4

ईश्वर उवाच । रक्तपुष्पै रवेर्वारे त्वर्घ्यं दद्याद्व्रती नरः । नक्ताहारं हविष्यान्नं कृत्वा स्वर्गान्न हीयते

自在天(Īśvara)说:在星期日,持戒之人当以红花向太阳神奉献阿尔伽(arghya)。若仅夜间进食,并食“哈维希扬那”(havishyānna,祭净之食),便不从天界堕落。

Verse 5

सप्तम्याश्च सदाचारं सर्वमेवार्कवासरे । कुर्वतः प्रीतिमाप्नोति सगणः परमेश्वरः

若于第七月日(saptamī)守持一切正行,尤其当其适逢星期日时,至上主帕拉梅湿伐罗(Parameśvara)与其眷属皆生欢喜。

Verse 6

शूरस्य सदृशं याति तिथिवारस्य पालनात् । एकेन गाणपत्यस्य यावत्सूरो नभस्तले

由如法守持月日与星期之规,行者得至如勇士般的境界。仅一次奉行甘尼帕提(Gaṇapati)之仪,其功德长存,直至太阳仍在天穹之上。

Verse 7

सर्वकामप्रदं पुण्यमैश्वर्यं रोगनाशनम् । स्वर्गदं मोक्षदं पुण्यं रवेर्वारे व्रतं हितम्

星期日所行之誓戒吉祥而有益:能赐一切所愿,授予福裕,灭除疾病,得生天界,乃至导向解脱(mokṣa)之功德。

Verse 8

रविवारेण संक्रांत्या सप्तम्या तद्दिने शिवे । व्रतपूजादिकं चाप्यं सर्वं चाक्षयतां व्रजेत्

当太阳换宫(Saṅkrānti)适逢星期日,又当第七月日(Saptamī)落在这奉献给湿婆(Śiva)的吉日时,一切修持——誓愿、礼拜等——皆得无尽功德,果报不竭。

Verse 9

आदित्यवासरे शुभ्रे ग्रहाधिपप्रपूजनम् । प्राणादहतवक्त्रेण निःसार्य मंडले न्यसेत्

在吉祥的星期日,应如法礼敬诸 ग्रह之主——太阳神(Āditya)。以调息净口,随之出息,将(真言/能量)安置于坛城图(maṇḍala)之中。

Verse 10

द्विभुजं रक्तपद्मस्थं सुगलं रक्तवाससं । सर्वरक्ताभरणं ध्यात्वा हस्ताभ्यां पुष्पं विधृतसंघ्रायैशान्यां क्षिपेत्

观想二臂尊神端坐红莲之上,肢体庄严,身披红衣,佩饰尽皆赤红;继而双手捧花,先嗅其香以为供献,然后向东北方(Īśāna位)掷之。

Verse 11

आदित्याय विद्महे भास्कराय धीमहि । तन्नो भानुः प्रचोदयात्

我等愿知阿底提耶(Āditya);我等禅思婆斯迦罗(Bhāskara)。愿彼婆奴(Bhānu,太阳)启迪并推动我等慧解。

Verse 12

ततो गुरूपदिष्टेन विधिना च विलेपनम् । विलेपनांते सद्धूपं धूपांते च प्रदीपकम्

随后依上师所传之法,涂抹所规定的香膏。涂抹既毕,供奉上等妙香;献香圆满之后,再奉献明灯。

Verse 13

प्रदीपांते च नैवेद्यं ततो वारि निवेदयेत् । ततो जप्यं स्तुतिं मुद्रां नमस्कारं तु कारयेत्

在灯供结束时,应奉上食供(naivedya);随后供水。其后当行持诵念(japa)、赞颂之偈、诸手印(mudrā),并作顶礼敬拜。

Verse 14

अंजलि प्रथमा मुद्रा द्वितीया धेनुका स्मृता । एवं यः पूजयेदर्कं रविसायुज्यमाव्रजेत्

第一种手印名为合掌印(Añjali),第二种被称作牝牛印(Dhenukā)。如是礼敬阿尔迦(Arka,太阳)者,得与罗毗(Ravi,日神)相应合一。

Verse 15

मम ब्रह्मवधं घोरं कपालं करलग्नकम् । रवेस्तस्यप्रसादात्तु मुक्तं वाराणसीतटे

这可怖之颅骨——我弑婆罗门之罪的印记——紧黏在我手上;然而凭借罗毗(Ravi,日神)的恩典,它在瓦罗那西的河岸得以脱落解脱。

Verse 16

रवेः परतरं दैवं त्रैलोक्ये तु न विद्यते । यस्य प्रसादतो घोरान्मुक्तोहं गुरुकिल्बिषात्

三界之中,无有神祇高于罗毗(Ravi,日神)。承其恩德,我已从冒犯上师所招致的可怖罪业中得解脱。

Verse 17

स्कंद उवाच । श्रुत्वा त्वत्तो गिरं नाथ विस्मयो मेऽभवत्प्रभो । त्वदन्योस्ति न को देवः कथं ब्रह्मवधं त्वयि

斯堪达说道:“大主啊,听闻您亲口所言,我心生惊异,至尊啊。除您之外别无他神;既如此,弑婆罗门之罪又怎会在您身上呢?”

Verse 18

त्वं च ज्ञानीश्वरो योगी लोके भोक्ताऽक्षरोऽव्ययः । देवानां गुरुरेकस्त्वं व्याप्तरूपी महेश्वरः

你是智慧之主、瑜伽行者;在世间你为受用者,永恒不坏、无有衰变。唯你是诸天之师,哦摩诃湿伐罗,你的形相遍满一切。

Verse 19

सर्वज्ञो वरदो नित्यं सर्वेषां प्राणिनां प्रभुः । दुष्कृतं ते कुतो नाथ तथा क्रोधो विशेषतः

你遍知一切,恒常赐予恩愿,为一切众生之主。哦主宰,你身中怎会有恶行,尤其是嗔怒?

Verse 20

शिव उवाच । लोकानां च हितार्थाय पृथग्भूता युगे युगे । सर्वं कुर्मो वयं पुत्र ब्रह्मविष्णुमहेश्वराः

湿婆说道:为诸世界之利益,我们在每一劫中示现为不同的形态。我们——梵天、毗湿奴与摩诃湿伐罗——成就一切,孩子啊。

Verse 21

नास्माकं बंधमोक्षौ च नाकार्यं कार्यमेव वा । तथा लोकस्य रक्षार्थं चरामो विधिपूर्वकम्

对我们而言,无所谓系缚与解脱,也无所谓不可为与必当为。然而为护持世间,我们仍依循所立之法而行。

Verse 22

सर्वं च परमं चैव सर्वविघ्नविनाशनम् । सर्वरोगप्रशमनं सर्वार्थप्रतिसाधकम्

此即一切,亦复至上;能摧灭诸障,平息诸病,并圆满成就一切所求。

Verse 23

एकोसौ बहुधा भूत्वा कालभेदादनिंदितः । मासे मासे तु तपति एको द्वादशतां व्रजेत्

祂虽为一,却因时间的分段而显为多种,哦无可指摘者。月复一月,那唯一者炽然照耀;由此,一者成就为十二之相。

Verse 24

मित्रो मार्गशिरे मासि पौषे विष्णुः सनातनः । वरुणो माघमासे तु सूर्यो वै फाल्गुने तथा

在Mārgaśīrṣa(Agrahāyaṇa)之月,祂为密多罗(Mitra);在Pauṣa之月,祂为永恒的毗湿奴(Viṣṇu);在Māgha之月,祂为伐楼那(Varuṇa);同样在Phālguna之月,祂确为苏利耶(Sūrya)。

Verse 25

चैत्रे मासि तपेद्भानुर्वैशाखे तापनः स्मृतः । ज्येष्ठमासे तपेदिंद्र आषाढे तपते रविः

在Caitra之月,婆奴(Bhānu,太阳)灼热炽燃;在Vaiśākha之月,祂被忆念为“塔帕那”(Tāpana,灼烧者)。在Jyeṣṭha之月,因陀罗(Indra)以热力燃烧;在Āṣāḍha之月,罗毗(Ravi,太阳)烈焰般辉耀。

Verse 26

गभस्तिः श्रावणे मासि यमो भाद्रपदे तथा । हिरण्यरेताश्वयुजि कार्तिके तु दिवाकरः

在Śrāvaṇa之月,(太阳)名为Gabhasti;在Bhādrapada之月,为阎摩(Yama);在Āśvayuja之月,为Hiraṇyaretas;在Kārtika之月,则为Divākara。

Verse 27

इत्येते द्वादशादित्या मासि मासि प्रकीर्तिताः । उरुरूपा महातेजा युगांतानलवर्चसः

如是,这十二位阿底提耶(Āditya)月月被宣说:形相广大,光辉炽盛,灼然如劫末(yuga终尽)之火。

Verse 28

य इदं पठते नित्यं तस्य पापं न विद्यते । न रोगो न च दारिद्र्यं नावमानो भवेत्क्वचित्

凡恒常诵读此文者,其罪不存;不生疾病,不遭贫乏,亦终不受羞辱。

Verse 29

अक्षयं लभते स्वर्गं सुखं राज्यं यशः क्रमात् । महामंत्रं प्रवक्ष्यामि सर्वप्रीतिकरं परम्

循序渐进,便得不坏之天界、安乐、王权与名声。今我将宣说大真言——至上无比,令一切众生欢喜。

Verse 30

ऊं नमः सहस्रबाहवे आदित्याय नमोनमः । नमस्ते पद्महस्ताय वरुणाय नमोनमः

唵——礼敬千臂者;再三礼敬阿底提耶(日神)。礼敬汝,莲华手者;再三礼敬伐楼那。

Verse 31

नमस्तिमिरनाशाय श्रीसूर्याय नमोनमः । नमः सहस्रजिह्वाय भानवे च नमोनमः

再三礼敬吉祥光耀之日神,能灭诸暗。再三礼敬婆奴(日神),千舌之主。

Verse 32

त्वं च ब्रह्मा त्वं च विष्णू रुद्रस्त्वं च नमोनमः । त्वमग्निः सर्वभूतेषु वायुस्त्वं च नमोनमः

汝即梵天,汝即毗湿奴;汝即鲁陀罗——再三礼敬于汝。汝为一切众生之内火,汝亦为风——再三礼敬于汝。

Verse 33

सर्वगः सर्वभूतेषु नहि किंचित्त्वया विना । चराचरे जगत्यस्मिन्सर्वदेहे व्यवस्थितः

你遍满一切,住于诸有情之中;离开你,万物无有。于此动与不动的宇宙里,你安住于一切身中。

Verse 34

इति जप्त्वा लभेत्कामं स्वर्गभोग्यादिकं क्रमात् । आदित्यो भास्करः सूर्यो अर्को भानुर्दिवाकरः

如是诵念,便能渐次获得所愿之果,如天界之乐等。他名为阿底提耶(Āditya)、婆斯迦罗(Bhāskara)、苏利耶(Sūrya)、阿尔迦(Arka)、婆奴(Bhānu)、提婆迦罗(Divākara)。

Verse 35

सुवर्णरेता मित्रश्च पूषा त्वष्टा च ते दश । स्वयंभूस्तिमिराशश्च द्वादशः परिकीर्तितः

苏伐尔那雷多(Suvarṇaretā)、密多罗(Mitra)、普沙(Pūṣā)与特瓦什特利(Tvaṣṭṛ)——合为十名;又说有自生者(Svayaṃbhū)与破暗者(Timirāśa)——于是十二名被宣说。

Verse 36

नामान्येतानि सूर्यस्य शुचिर्यस्तु पठेन्नरः । सर्वपापाच्च रोगाच्च मुक्तो याति परां गतिम्

凡清净之人诵持这些苏利耶(Sūrya)之名者,得离一切罪业与诸病,证得至上境界。

Verse 37

पुनरन्यत्प्रवक्ष्यामि भास्करस्य महात्मनः । रक्ताख्याये रक्तनिभास्सिंदूरारुणविग्रहाः

我将再宣说关于大德婆斯迦罗(Bhāskara)的另一段记述。在名为“罗多”(Rakta)的篇章中,他们显现为血红之色,具朱砂般赤红的形体。

Verse 38

यानि नामानि मुख्यानि तच्छृणुष्व षडानन । तपनस्तापनश्चैव कर्त्ता हर्त्ता ग्रहेश्वरः

请听,六面者啊,这些主要圣名:Tapana、Tāpana,以及Kartā(造作者)、Hartā(除去者)、Graheśvara(诸行星之主)。

Verse 39

लोकसाक्षी त्रिलोकेषु व्योमाधिपो दिवाकरः । अग्निगर्भो महाविप्रः स्वर्गः सप्ताश्ववाहनः

他在三界之中为诸世界作证;为苍穹之主,即太阳。其为火之胎藏,为大圣仙与祭司;他亦是天界本身,乘七马所牵之车。

Verse 40

पद्महस्तस्तमोभेदी ऋग्वेदो यजुस्सामगः । कालप्रियं पुंडरीकं मूलस्थानं च भावितम्

手持莲华,破除幽暗——具现《梨俱》《夜柔》《娑摩》三吠陀——他为时间所爱;白莲与本初之座亦当观想为其安住之源。

Verse 41

यः स्मरेच्च सदा भक्त्या तस्य रोगभयं कुतः । शृणु कार्तिक यत्नेन सर्वपापहरं शुभम्

若有人恒常以虔敬忆念主宰,何来疾病之惧?迦尔提迦啊,请用心聆听这吉祥之教,能除尽一切罪业。

Verse 42

न संदेहो मनाक्कार्य आदित्यस्य महामते । ऊं इंद्राय नमः ऊं विष्णवे नमः

大智者啊,关于应当奉行的对阿底提耶(太阳)之事,毫无疑惑。(诵曰:)“唵,礼敬因陀罗;唵,礼敬毗湿奴。”

Verse 43

एष जप्यश्च होमश्च संध्योपासनमेव च । सर्वशांतिकरश्चैव सर्वविघ्नविनाशनः

此法适用于持诵(japa)与火供(homa),亦适用于晨昏礼敬(Sandhyā);能成就圆满安宁,摧灭一切障碍。

Verse 44

नाशयेत्सर्वरोगांश्च लूताविस्फोटकादिकान् । कामलादिकरोगांश्च ये रोगाश्चैव दारुणाः

它能摧除一切疾病——如癣等皮肤病与疮疖之类——亦能除黄疸等诸病,以及其他一切可怖之疾。

Verse 45

एकाहिकं त्र्यहिकं च ज्वरं चातुर्थिकं तथा । कुष्ठं रोगं क्षयं रोगं कुक्षिरोगं ज्वरं तथा

亦能遣除一日热、三日热与四日一作之疟热;并除麻风、痨病(消耗之疾)、腹部诸病及诸般热病。

Verse 46

अश्मरीमूत्रंकृच्छ्रांश्च नानारोगामयांस्तथा । ये वातप्रभवा रोगा ये रोगा गर्भसंभवाः

亦能除尿路结石与小便艰涩疼痛之患,并能遣除种种病痛:由风(vāta)失调而起者,以及胎中所生之疾(先天之病)。

Verse 47

मर्दयन्तो महारोगा मर्दिता वेदनात्मकाः । विलयं यांति ते सर्व आदित्योच्चारणेन तु

纵使那摧折众生的重病,本性即为痛苦者,也将被摧碎;只因诵出阿底提耶(Āditya)之名,诸病悉皆消亡。

Verse 48

रक्ष मां देवदेवेश ग्रहरोगभयेषु च । प्रशमं यांति ते सर्वे कीर्तिते तु दिवाकरे

护佑我吧,诸神之主,在由诸星与疾病所生的恐惧之中;因为当赞颂天照者帝瓦迦罗——太阳时,一切恐惧与苦患皆归于寂静安宁。

Verse 49

मूलमंत्रं प्रवक्ष्यामि सर्वकामार्थसाधकम् । भुक्तिमुक्तिप्रदं नित्यं भास्करस्य महात्मनः

我将宣说大德薄伽罗(太阳)之根本真言;此真言成就一切所愿之目标,恒常赐予世间福乐与解脱。

Verse 50

मंत्रश्चायं ॐ ह्रां ह्रीं सः सूर्याय नमः । अनेन मंत्रेण सदा सर्वसिद्धिर्भवेद्ध्रुवं

此即真言:“唵 hrāṃ hrīṃ saḥ——礼敬苏利耶(太阳)。”依此真言,恒常成就一切悉地,确然无疑。

Verse 51

व्याधयो वै न बाधंते न चानिष्टं भयं भवेत् । सूर्यावर्तोदकं यस्तु गृहीत्वा तु क्रमेण तु

对那依次如法取用名为“苏利耶阿伐尔塔”(Sūryāvarta)之水者,疾病不侵,亦不生任何不祥之惧。

Verse 52

तस्य प्राशनमात्रेण नरो रोगात्प्रमुच्यते । न दातव्यं न ख्यातव्यं जप्तव्यं च प्रयत्नतः

仅以饮用之量,便能使人脱离疾病。此法不应施与他人,不应张扬宣说;其持诵(japa)当以谨慎用功而行。

Verse 53

अभक्तेष्वनपत्येषु पाषण्डलौकिकेषु च । कटुतैलसमायुक्तं नस्ये पाने च दापयेत्

对于无有信敬者、无子嗣者,以及外道与世俗之人,应施以辛烈之油:既作鼻疗(纳息耶),亦令饮服。

Verse 54

सूर्यावर्तजलं पुत्र सर्वरोगाद्विमुच्यते । मूलमंत्रस्तु जप्तव्यः संध्यायां होमकर्मसु

孩子啊,经由太阳回旋之仪而加持的水,能使人脱离一切疾病。并且根本真言当于晨昏礼(sandhyā)及火供(homa)之行中诵持。

Verse 55

जप्यमाने तु नश्यंति रोगाः क्रूरग्रहास्तथा । किमन्यैर्बहुभिः शास्त्रैर्मंत्रैर्वा बहुविस्तरैः

当以持诵(japa)而诵之时,诸病与凶暴之行星煞(graha)皆得消灭。又何须众多别的经典(śāstra),或铺陈繁广的诸咒?

Verse 56

सर्वशांतिरियं वत्स सर्वार्थप्रतिसाधिका । नास्तिकाय न दातव्या देवब्राह्मणनिंदके

“孩子啊,此法乃一切安宁之源,亦能成就诸般所求。不可授与无神论者,亦不可授与诋毁诸天(deva)与婆罗门(brāhmaṇa)者。”

Verse 57

गुरुभक्ताय दातव्या नान्येभ्योपि कदाचन । प्रातरुत्थाय यो नित्यं कीर्तयिष्यति मानवः

当授与敬爱上师(Guru)之人,切莫给予他者。凡人若于清晨起身,日日称诵此法,噫,世人啊……

Verse 58

गोघ्नः कृतघ्नकश्चैव मुच्यते सर्वपातकैः । शरीरारोग्यकृच्चैव धनवृद्धियशस्करः

即使是杀牛者,乃至忘恩负义之人,也能从一切罪业中解脱;此亦赐予身心安康,增长财富,并成就名望与荣耀。

Verse 59

जायते नात्र संदेहो यस्य तुष्येद्दिवाकरः । एककालं द्विकालं वा त्रिकालं नित्यमेव च

毫无疑问:凡令太阳神欢喜之人——或每日一次、两次、三次,乃至恒常——必定生起功德与吉祥之果。

Verse 60

यः पठेद्रविसान्निध्ये सोऽभीष्टं फलमाप्नुयात् । पुत्रार्थी लभते पुत्रं कन्यार्थी कन्यकां लभेत्

凡在太阳之前诵读此文者,得遂所愿之果。求子者得子,求女者得女。

Verse 61

विद्यार्थी लभते विद्यां धनार्थी लभते धनं । शृणुयात्संयुतो भक्त्या शुद्धाचारसमन्वितः

求学者得学,求财者得财。应当以虔敬聆听,持守自律,具足清净行持。

Verse 62

सर्वपापविनिर्मुक्तस्सूर्यलोकं व्रजत्यपि । भास्करस्य व्रते यच्च व्रताचारमखेषु च

脱离一切罪垢者,确能往生太阳之界。此乃奉行婆斯迦罗(Bhāskara)之誓戒的果报;在一切神圣仪式中如法持戒修誓,亦复如是。

Verse 63

पुण्यस्थानेषु तीर्थेषु पठेत्कोटिगुणं भवेत् । ग्रहे भोज्येषु पूजायां ब्रह्मभोज्ये द्विजाग्रतः

若在圣地与朝圣圣渡(tīrtha)诵读此文,其功德增至百万倍。同样,在家中供食、礼拜之时,尤其在施食婆罗门(Brahma-bhojya)之仪、于最尊贵的婆罗门面前诵持,亦得大果报。

Verse 64

य इदं पठते विप्रस्तस्यानंतफलं भवेत् । तपस्विनां च विप्राणां देवानामग्रतः सुधीः

婆罗门啊,凡婆罗门诵此者,得无尽之果报。智者当在苦行婆罗门之前,并在诸天神明面前诵持。

Verse 65

यः पठेत्पाठयेद्वापि सुरलोके महीयते

凡诵此者,乃至令他人诵此者,皆在天界(Svarga)受尊崇。

Verse 78

इति श्रीपाद्मपुराणे प्रथमे सृष्टिखंडे सूर्यशांतिर्नामाष्टसप्ततितमोऽध्यायः

至此,在尊贵的《莲华往世书》(Padma Purāṇa)第一部《创世品》(Sṛṣṭikhaṇḍa)中,名为“苏利耶安息”(Sūrya-śānti,安抚太阳之仪)的第七十八章圆满结束。