Adhyaya 54
Srishti KhandaAdhyaya 5451 Verses

Adhyaya 54

The Abduction/Seduction of Ahalyā and Indra’s Mark (Sahasrākṣa)

第54章以阿诃梨耶(Ahalyā)之事为戒,阐明欲望之险与持心平等之要。经文先赞叹远离恶意与背叛之德几近难得,继而叙述梵天之女阿诃梨耶被许配给瞿多摩仙人(Gautama Ṛṣi)。因被爱欲神迦摩(Kāma)所驱,因陀罗(Indra)起心谋计,趁瞿多摩不在时潜入林苑。 在欺诳之下发生结合;然而瞿多摩以清净与内证洞察其事,遂宣下诅咒:因陀罗得“阴门之印”(yoni 之痕),后又转化为“千眼”(Sahasrākṣa)之名,并受进一步羞辱;阿诃梨耶则被罚在路旁枯槁如骸。 慈悲终使咒罚得以缓和:未来罗摩(Rāma)一见而识,将令阿诃梨耶复原,并与瞿多摩重聚。因陀罗羞惭,在水中修持礼敬,赞颂女神因陀罗眼(Indrākṣī)/世界之母(Jaganmātā);女神赐福,将污名化为尊号“千眼”,并恢复其威仪,昭示爱欲之祸,纵在诸天亦不可轻忽。

Shlokas

Verse 1

श्रीभगवानुवाच । अद्रोहकस्य चाख्यातो महिमा लोकदुःसहः । एकतल्पगतां वामां क्षांत्वा सर्वजितोऽभवत्

世尊说道:“无恶意者之伟大已被宣说,世间难以承当(难以企及)。他宽恕了来到同一床榻的爱侣,因此成为征服一切者。”

Verse 2

ज्ञानिनामपिदुःसाध्यं मुनीनां ब्रह्मचारिणां । सुरासुरमनुष्याणां विषमं तत्समं गतः

即使对智者、牟尼与守梵行者而言,这也极其难行;而对天、阿修罗与人同样如此。然对已证得平等心者,崎岖险阻亦化为坦途。

Verse 3

स्वभावाद्विषमं कामं जेतुं कः पुरुषः क्षमः । अद्रोहकमृते विप्र स एव भवजित्पुमान्

世间男子之中,谁能战胜欲望——其性本崎岖难制?婆罗门啊,唯有远离恶意与背叛之人,方能真正成为胜越轮回世有者。

Verse 4

संत्यज्य देवराज्यं च लब्ध्वाहं तु पुरा यथा । तमुवाच ततो देवी पापं तं मुनिशापजम्

“正如我往昔舍弃诸天之王权而得所求一般,”他说道;随后女神对他说话——那因牟尼之诅咒而染罪之人。

Verse 5

विदितं सर्वलोके च त्रैलोक्ये सचराचरे । द्विज उवाच । कथं च देवदेवस्य अहल्याहरणं प्रभो

此事为诸世界所共知——遍及三界,含一切动与不动。婆罗门说道:“主啊,诸神之神是如何夺走阿诃梨耶(Ahalyā)的?”

Verse 6

भगांकत्वं च संप्राप सहस्राक्षः सुराधिपः । न गां कोपि भगांकत्वं संप्राप्तस्सुरराट्कथम्

千眼者(因陀罗),诸天之主,竟得了带有阴门印记(bhagāṅka)的状态。然而,噢天神之王,为何从未有任何母牛遭受此等情形?

Verse 7

दुःश्रुतं सुरवैकल्यं श्रोतुमिच्छामि तत्वतः । श्रीभगवानुवाच । पुरा स्वांतोद्भवां कन्यां लोकेशश्च महामनाः

我愿如实听闻那令人悲痛的传闻——诸神如何遭受缺损。世尊说道:往昔,那位大心的世界之主从自身心中化生出一位少女之女。

Verse 8

गौतमाय ददौ धाता लोकपालाग्रतो मुदा । ततस्तु लोकपालानां मन्मथाविष्टचेतसाम्

造物主达塔(Dhātā)在诸护世者(Lokapāla)面前欢喜地将她许配给乔多摩(Gautama)。随后,那些护世者的心念被摩摩他(Manmatha,爱神)所攫取。

Verse 9

शचीपतेस्तु संमोहो हृदि शल्य इव स्थितः । लोकपालानतिक्रम्य सुवेषा वरवर्णिनी

然而,舍支之主(因陀罗)的迷惑如刺般扎在心中不去。那位盛饰华服、绝色无双的女子越过诸护世者,继续前行。

Verse 10

द्विजाय रत्नभूतैषा दत्ता किंवा करोम्यहम् । इति संचिंत्य तस्यास्तु वर्तमाने च यौवने

“这如宝石般的少女已被许配给一位婆罗门——那么我当如何?”他如此思量;当她仍在青春盛时,他仍反复踌躇。

Verse 11

पुनश्च मायया दृष्टं रूपं तस्यास्सुशोभनम् । पुनश्चिन्तयमानोऽसौ गौतमाध्यासनं गतः

他又一次在幻力(māyā)之下,看见她极其庄严美妙的形貌;再度沉思不已,便前往圣者乔达摩(Gautama)的座前。

Verse 12

पश्चात्तु तस्य गमनाद्यद्वृत्तं तच्छृणुष्व मे । एकदा गौतमः स्नातुं गतोऽसौ पुष्करं प्रति

如今,在他离去之后,请听我说接下来发生之事。曾有一次,乔达摩前往普什迦罗(Puṣkara)沐浴净身。

Verse 13

साध्वी च गृहशौचे च गृहवस्तुनि तत्परा । प्रवृत्ता देववास्तूनां बलिकर्तुं च तत्परा

她是一位贞善的贤妇(sādhvī),专心于居所的洁净与家务之责;并且勤于向宅中诸神献上“bali”之供分,以尽祭献之礼。

Verse 14

इंधनं वह्निकार्यं च नित्यकर्मानुसंचयम् । एतस्मिन्नंतरे शक्रो मुनेस्तस्य महात्मनः

他收集柴薪,料理圣火之事,并不断积修每日应行的仪轨。其间,天帝释迦(Śakra,即因陀罗)对那位大心之牟尼有所举动。

Verse 15

रूपमास्थाय गात्रेण प्रविवेशोटजं मुदा । पतिव्रता पतिं दृष्ट्वा श्रद्धया परया सती

她以自身之形安住其身,欢喜进入茅庵。见到夫君,那位贞洁忠诚的萨蒂(satī)以至高的恭敬与虔信瞻仰他。

Verse 16

देवस्थाने च वस्तूनां संचयं कर्तुमुद्यता । ततस्तामब्रवीदार्तो मुनिवेषधरो हरिः

当她正欲在神殿境内收拢诸物之时,化作牟尼(圣仙)形貌的哈利(Hari)便带着忧急对她开口。

Verse 17

प्रद्युम्नवशगो वामे देहि मे चुंबनादिकम् । एतस्मिन्नंतरे सा च त्रपायुक्ताऽब्रवीद्वचः

“美人啊,我受普拉丢摩那(Pradyumna)之势所驱,请赐我亲吻等事。”其间,她因羞怯而开口说道。

Verse 18

देवकार्यादिकं त्यक्त्वा वक्तुं नार्हसि मे प्रभो । सर्वं जानासि धर्मज्ञ पुण्यानां निश्चयं मुने

主啊,你不当舍弃诸天之事等职责而对我如此言说。知法者啊,牟尼啊——你洞悉一切,亦知诸善业功德之真实裁定。

Verse 19

अयमर्थो हि वेलायामधुनैव न युज्यते । ततस्तां चारुसर्वांगीं दृष्ट्वा मन्मथपीडितः

“此事于当下时刻并不相宜。”随后,他见那位姿容妍丽、肢体匀称的女子,便为伽摩(Kāma,爱神)所煎迫。

Verse 20

अलं प्रियेन वक्तव्यं हृच्छयो मे प्रजायते । कर्तव्यं चाप्यकर्तव्यं पत्युर्वचनसंमतम्

甜言已足,我心被忧惧所缠。请告诉我:依我夫君之命所许可者,何者当行,何者不可行。

Verse 21

करोति सततं या च सा च नारी पतिव्रता । लंघयेद्या च तस्याज्ञां सुरते च विशेषतः

女子若恒常依夫君之意而行,便称为“持夫誓者”(pativratā)。若违越其命,尤其在男女交合之事上,则不名为此。

Verse 22

पुण्यं तस्या भवेन्नष्टं दुर्गतिं चाधिगच्छति । साब्रवीद्देववस्तूनि संति देवार्थतो मुने

她的福德将毁灭,并堕入恶趣。她说道:“牟尼啊,这些确是诸天(deva)之物,原为神圣之用。”

Verse 23

नित्यकर्माणि चान्यानि किं वा तेषु विपर्ययः । स चोवाच सतीं तत्र देह्यालिगादिकं मम

“至于其他日常仪轨,又有何乖违?”于是他在彼处对萨蒂说道:“把我的林伽(liṅga)以及其余圣标给我。”

Verse 24

मनसा भयमुत्सृज्य मया दत्तानि तानि च । इत्युक्त्वा तां परिष्वज्य कृतस्तेन मनोरथः

他心中抛却恐惧,并说道:“那些也是由我所赐。”言毕拥抱她,由她使其心愿得遂。

Verse 25

एतस्मिन्नंतरे विप्र मुनेर्हृद्या सकल्मषम् । ततो ध्यानं समारभ्याजानाद्वृत्तं शचीपतेः

其间,婆罗门啊,那位牟尼的心已离一切垢染。于是他开始禅定,便知晓了关于舍稽之主(因陀罗)的事迹。

Verse 26

तूर्णमेव द्वारदेशे गत्वा च समुपस्थितः । शक्रो मुनिं तु संलक्ष्य चौतुदेहं विवेश ह

他迅速来到门口之处,站立其间。随后,释迦罗(因陀罗)见到那位圣者,便进入他那微细而不可见的身躯之中。

Verse 27

गच्छतः पृषदंशस्य पद्धतौ प्रचचाल ह । मुनिस्तत्रावदत्तं वै कस्त्वं मार्जाररूपधृत्

当毗沙檀舍沿路而行时,道途忽然震动。于是圣者开口说道:“你是谁,竟执持猫之形?”

Verse 28

भयात्तस्य मुनेरग्रे शक्रः प्रांजलिराश्रितः । मघवंतं पुरो दृष्ट्वा चुकोप मुनिपुंगवः

出于恐惧,释迦罗(因陀罗)在那圣者面前合掌而立,求其庇护。然而那位最上牟尼见到摩伽梵(因陀罗)在前,便勃然大怒。

Verse 29

यत्त्वया चेदृशं कर्म भगार्थं छलसाहसम् । कृतं तस्मात्तवांगेषु सहस्रभगमुत्तमम्

既然你为求阴门(yoni)而行此欺诳鲁莽之事,因此在你诸肢体上,将显现千阴门的殊胜印记。

Verse 30

भवत्विह तु पापिष्ठ लिंगं ते निपतिष्यति । गच्छ मे पुरतो मूढ सुरस्थानं दिवौकसः

就如此吧,你这极恶之人——你的林伽将坠落。愚者啊,走在我前面,前往诸神之居、天众之所。

Verse 31

पश्यंति मुनिशार्दूला नराः सिद्धास्सहोरगाः । एवमुक्त्वा मुनिश्रेष्ठो रुदंतीं तां पतिव्रताम्

如虎之圣仙注视着——连同众人、悉达与诸蛇。如此说罢,最上之牟尼便对那哭泣的贞妇开言。

Verse 32

पप्रच्छ किमिदानीं ते कर्म दारुणमागतम् । इत्युक्ता वेपमाना सा भीता पतिमुवाच ह

他问道:“如今你遭逢了何等可怖的业报?”她被如此问及,因恐惧而战栗,便对丈夫说道。

Verse 33

अज्ञानाद्यत्कृतं कर्म क्षंतुमर्हसि वै प्रभो । मुनिरुवाच । परेणाभिगतासि त्वममेध्या पापचारिणी

“主啊,愿你宽恕我因无明而作之事。”圣仙说道:“你已被他人玷污;你不净,且行于罪业之道。”

Verse 34

अस्थिचर्मसमाविष्टा निर्मांसा नखवर्जिता । चिरं स्थास्यसि चैकापि त्वां पश्यंतु जनाः स्त्रियः

你将仅以骨与皮为覆,无肉无甲,独自久立——使世间女子得以观见你。

Verse 35

दुःखिता तमुवाचेदं शापस्यांतो विधीयताम् । इत्युक्ते करुणाविष्टो मन्युनापि परिप्लुतः

她为忧苦所压,对他说:“愿制定此诅咒之终止。”她如此言时,他虽被慈悲所动,却仍为忿怒所充溢,遂作答。

Verse 36

जगाद गौतमो वाक्यं रामो दाशरथिर्यदा । वनमभ्यागतो विष्णुः सीतालक्ष्मणसंयुतः

当罗摩——达沙罗陀之子、实为毗湿奴——与悉多、罗什曼那同来入林之时,乔达摩说了这些话。

Verse 37

दृष्ट्वा त्वां दुःखितां शुष्कां निर्देहां पथिसंस्थितां । गदिष्यति च वै रामो वसिष्ठस्याग्रतो हसन्

罗摩见你忧苦枯槁,仿佛无身,立于路旁,必将于婆悉吒之前含笑而言。

Verse 38

किमियं शुष्करूपा च प्रतिमास्थिमयी शवा । न दृष्टं मे पुरा ब्रह्मन्रूपं लोकविपर्ययम्

这是什么——形容枯槁干瘦——如同骨架所成之尸,宛若偶像?婆罗门啊,我从未见过如此形相,此乃世间常理之颠倒。

Verse 39

ततो रामं महाभागं विष्णुं मानुषविग्रहम् । यद्वृत्तमासीत्पूर्वं तद्वसिष्ठः कथयिष्यति

于是他们趋近大福德之罗摩——具人身之毗湿奴。此前所发生之事,将由婆悉吒叙述。

Verse 40

वसिष्ठवचनं श्रुत्वा रामो वक्ष्यति धर्मवित् । अस्या दोषो न चैवास्ति दोषोयं पाकशासने

罗摩——通达法义者——听闻婆悉吒之言,便说道:“她毫无过失;此过在于帕迦沙娑那(因陀罗)。”

Verse 41

एवमुक्ते तु रामेण त्यक्त्वा रूपं जुगुप्सितं । दिव्यं रूपं समास्थाय मद्गृहं चागमिष्यसि

当罗摩如此宣告时,你将舍弃那可憎之形;安住于天界圣相,并将来到我的居所。

Verse 42

शप्त्वा तु गौतमस्तां हि तपस्तप्तुं गतो वनम् । ततोत्यंतं शुष्करूपा तथैव पथि संस्थिता

诅咒她之后,乔多摩确实入林修苦行。随后她形体极度枯槁,仍立于道路之上。

Verse 43

रामस्य वचनादेव गौतमं पुनरागता । गौतमोपि तया सार्द्धमद्यैवं दिवि तिष्ठति

凭罗摩一言,她再次回到乔多摩身边;乔多摩亦与她同在,如今如此居于天界。

Verse 44

इंद्रोपि त्रपयायुक्तः स्थितश्चांतर्जले चिरम् । स्थित्वा चांतर्जले देवीमस्तौदिंद्राक्षिसंज्ञिताम्

因陀罗亦为羞惭所迫,久居水中;停留其间,他赞颂那位名为因陀罗眼(Indrākṣī)的女神。

Verse 45

सुप्रसन्ना ततो देवी स्तोत्रेण परितोषिता । गत्वोवाच ततः सा च वरोस्मत्तो विगृह्यताम्

于是女神因赞颂之偈而大为欢喜、心满意足,前来宣言:“从我这里择取一项恩赐吧。”

Verse 46

ततो देवीमुवाचेदं शक्रः परपुरंजयः । त्वत्प्रसादाच्च मे देवि वैरूप्यं मुनिशापजम्

随后,释迦罗(因陀罗)、攻破敌城者,对女神说道:“噢,提毗,凭你的慈恩,愿我这由圣仙诅咒所致的丑形得以消除。”

Verse 48

किंतु बुद्धिं सृजाम्यद्य येन लोकैर्न लक्ष्यते

然而今日我将筹划一计,使世人不致察觉。

Verse 49

योनिमध्यगतं दृष्टि सहस्रं ते भविष्यति । सहस्राक्ष इति ख्यातस्सुरराज्यं करिष्यसि

你的视力将化为遍布全身的一千只眼。你将以“娑诃斯罗阿克沙”(千眼者)之名闻名,并统御诸天之王权。

Verse 50

मेषांडं तव शिश्नं च भविष्यति च मद्वरात् । इत्युक्त्वा सा जगन्माता तत्रैवांतरधीयत

“凭我的恩赐,你的阳具将变得如同公羊之睾丸。”说罢,世界之母即在彼处隐没不见。

Verse 51

शक्रो देववरैः पूज्यो ह्यद्यापि दिवि वर्तते । इंद्रस्यैतादृशी कामादवस्था द्विजसत्तम

释迦罗(因陀罗)为诸天中最尊胜者所礼敬,至今仍居于天界。噫,最上之二生者啊,这便是欲爱(kāma)加诸因陀罗的境况。

Verse 54

इति श्रीपाद्मपुराणे प्रथमे सृष्टिखंडे अहल्याहरणंनाम चतुष्पंचाशत्तमोऽध्यायः

至此,神圣《莲华往世书》(Padma Purāṇa)第一部《创世品》(Sṛṣṭi-khaṇḍa)中名为“阿诃利耶夺取”(Ahalyā-haraṇa)的第五十四章圆满结束。