Adhyaya 19
Srishti KhandaAdhyaya 19367 Verses

Adhyaya 19

The Greatness of Puṣkara: Tripuṣkara Pilgrimage, Sacred Geography, and the Doctrine of Self-Restraint

因毗湿摩发问,普罗陀斯提亚展开以普什迦罗为中心的圣地(tīrtha)教说:诸仙如何分类圣渡,哪些圣迹由谁建立,以及应如何行“三普什迦罗”(Tripuṣkara)朝圣。他先指出朝圣的内在资格——自制(dama)、真实、平等心,以及不受馈赠——若无此德,外在行旅难得清净功德。 随后叙述普什迦罗的神圣地理:毗湿奴足迹、由那伽建立的五圣渡(Pañcatīrtha)、圣地的范围与尺度,并说明在恰特罗月(Caitra)依时沐浴、于迦尔提迦月(Kārtika)尤具殊胜威力。并列举相应仪轨功德:施行祖祭(śrāddha)与供水(tarpaṇa)、供养婆罗门、以铜器施水等。 本章交织多则《往世书》大事:达提奇(Dadhīci)舍骨成金刚杵(vajra),助因陀罗战胜弗利陀罗(Vṛtra);迦勒耶族夜袭屠戮诸仙;毗湿奴授策,使阿伽斯提亚(Agastya)饮尽大海,诸天得以歼灭魔众。梵天确认普什迦罗至上与阿伽斯提亚道场之尊,并以长篇自制之训作结,严斥贪欲、不正当的王家馈赠与嗔怒,宣示真正的圣地果报在于伦理与心性的自胜。

Shlokas

Verse 1

भीष्म उवाच । पुष्करस्य च नंदायाः श्रुतं माहात्म्यमुत्तमं । ऋषिकोटिर्यदायाता पुष्करे मुखदर्शनात्

毗湿摩说道:我已听闻普什迦罗与难陀的至上圣德与伟大——昔日因瞻礼普什迦罗那被称为“圣面”的最尊胜处,一俱胝(crore)圣仙(ṛṣi)曾前来汇集。

Verse 2

सर्वैः सुरूपता लब्धा सर्वमेतन्मया श्रुतं । यज्ञोपवीतैर्भक्तानि यानि तानि वदस्व मे

我已听闻这一切:众人皆得端严妙相。如今请告诉我,哪些众生(或族类)因佩戴圣线(yajñopavīta)而具虔敬之心?

Verse 3

कथं तीर्थविभागस्तु कृतस्तैस्सु महात्मभिः । आश्रमे यानि तीर्थानि कृतान्यपि महर्षिभिः

那些大心者究竟如何制定并安立诸圣地(tīrtha)的分门别类与次第?又有哪些在诸修行林(āśrama)之中的圣地,也为大圣仙(mahārṣi)所建立?

Verse 4

पदन्यासः कृतः पूर्वं विष्णुना यज्ञपर्वते । नागैस्तत्र पंचतीर्थं कृतं तैस्तु महाविषैः

往昔在祭祀之山(Yajña-parvata)上,毗湿奴安置了祂的足迹。其处,诸那伽(Nāga)——毒力甚巨者——建立了神圣的五圣渡(Pañcatīrtha)。

Verse 5

पिंडप्रदानवापी च केन पूर्वं विनिर्मिता । उदङ्मुखी भूमिगता कथं गंगासरस्वती

那用于供奉祭团(piṇḍa)的井池(vāpī)最初是谁建造的?又为何恒河与萨拉斯瓦蒂面向北方而潜行于大地之下?

Verse 6

ब्राह्मणैर्वेदविद्वद्भिः कथं यात्रा त्रिपुष्करे । कर्तव्या यत्फलं तस्या जायते तद्वदस्व मे

精通吠陀的婆罗门应当如何前往三普什迦罗(Tripuṣkara)朝圣?也请告诉我,由此会生起怎样的功德果报。

Verse 7

पुलस्त्य उवाच । प्रश्नभारो महानेष भवता परिकल्पितः । तदेकाग्रमना भूत्वा शृणु तीर्थ महाफलं

普拉斯提亚说:“你所提出的问题确实沉重而重大。因此,当以专注之心聆听这圣地(tīrtha)的广大功德之果。”

Verse 8

यस्य हस्तौ च पादौ च मनश्चैव सुसंयतं । विद्यातपश्च कीर्तिश्च स तीर्थफलमश्नुते

若有人手足与心皆善加调御,具足学识、苦行(tapas)与清净名声,此人便能享得朝礼诸圣地的真实果报。

Verse 9

प्रतिग्रहादुपावृत्तः संतुष्टो येनकेन चित् । अहंकारनिवृत्तश्च स तीर्थफलमश्नुते

若有人远离受取馈赠之心,随缘知足,并断除我慢与自负,此人便能获得朝圣的真实功德之果。

Verse 10

अक्रोधनश्च राजेंद्र सत्यशीलो दृढव्रतः । आत्मोपमश्च भूतेषु स तीर्थफलमश्नुते

大王啊,若有人无嗔无怒,奉持真实,坚固誓戒,并以自心等观一切众生,此人便能圆满获得朝圣的全部果德。

Verse 11

ऋषीणां परमं गुह्यमिदं भरतसत्तम । पूर्वं यत्र महाराज सत्रे पैतामहे तथा

噢,婆罗多族中最卓越者,此乃诸仙(ṛṣi)最深秘的教诲;往昔,噢大王,此法亦曾在彼处,于祖传之祭会(paitāmaha satra)中宣说。

Verse 12

यतीनामुग्रतपसां येषां कोटिः समागता । मुखदर्शनमाश्रित्य स्थितास्ते ज्येष्ठपुष्करे

一亿(crore)位苦行严峻的出家仙人(yatī)聚集于此,安住在耶湿吒·补湿迦罗(Jyeṣṭha-Puṣkara),依凭得见其圣颜之加持。

Verse 13

सुरूपतां परां लब्ध्वा प्रीतास्ते मुनिसत्तमाः । हर्षेण महताविष्टा ब्रह्मदर्शनकांक्षिणः

得获无上端严之相后,那些最胜牟尼欢喜悦豫;充满广大喜乐,他们渴望得见梵天(Brahmā)之圣观(darśana)。

Verse 14

यज्ञोपवीतैस्ते भूमिं माप्य सर्वे चतुर्द्दिशं । कृत्वा तीर्थं विभागं च स्थिता भक्तिपरायणाः

他们佩戴圣线(yajñopavīta),丈量大地四方;又安立诸圣渡处(tīrtha)之分界,遂安住不动,专一归向奉爱(bhakti)。

Verse 15

आसन्नश्च ततस्तेषां तदा तुष्टः पितामहः । कोटिं कृत्वा तदा तेषां मानं दृष्ट्वा मनीषिणां

于是,祖父神毗多摩诃(Pitāmaha,梵天)心生欢悦,走近他们;他审察诸智者圣仙之荣誉与敬重,仿佛以亿数计量,遂依其分量而加以认可。

Verse 16

अद्यप्रभृति युष्माकं धर्मवृद्धिर्भविष्यति । इहागत्य नरो यो वै यदंगं प्रथमं जले

从今日起,你们的正法(dharma)将增长。凡人来到此处后,最先把身体的哪一部分浸入水中——

Verse 17

प्लावविष्यति रूपार्थं रूपिता तीर्थकारिता । भविष्यति न संदेहो योजनायतमंडले

它将为显现形相而漫溢;由此,成就了建立圣渡(tīrtha)的力量。毫无疑问:将在一由旬的范围之内实现。

Verse 18

अर्धयोजनविस्तारं दीर्घं सार्धं हि योजनम् । एतत्प्रमाणं तीर्थस्य ऋषिकोटिप्रवर्त्तितम्

其宽为半由旬,其长确为一由旬半。这便是圣渡(tīrtha)的尺度,由一俱胝(crore)圣仙(ṛṣi)所建立。

Verse 19

अमृतस्येव तृप्येत अपमानस्य योगवित् । विषवच्च जुगुप्सेत संमानस्य सदा द्विजः

通晓瑜伽者,应以受辱如甘露而自足;而二次生者(dvija)应恒常畏避名誉,如避毒药。

Verse 20

सरस्वती महापुण्या प्रविष्टा ज्येष्ठपुष्करे । तत्रब्रह्मादयो देवा ऋषयः सिद्धचारणाः

至圣的萨拉斯瓦蒂(Sarasvatī)进入了吉耶什塔·普什卡拉(Jyeṣṭha-Puṣkara)。彼处有梵天(Brahmā)等诸天神,并有圣仙(ṛṣi)、悉达(Siddha)与恰拉那(Cāraṇa)。

Verse 21

अभिगच्छंति राजेंद्र चैत्रशुक्ल चतुर्दशीं । तत्राभिषेकं कुर्वीत पितृदेवार्चने रतः

大王啊,于恰伊特拉月明半月之第十四日,应前往彼处行灌顶沐浴(abhiṣeka),专心礼敬祖灵与诸天。

Verse 22

गोमेधं च तदाप्नोति कुलं चैव समुद्धरेत् । एवं तीर्थविभागस्तु कृतस्तैस्तु महर्षिभिः

他得享如行牛祭(gomedha)之功德,亦能振拔其家族。此等诸圣渡口(tīrtha)之分判,乃由诸大圣仙所制定。

Verse 23

पितॄन्देवांश्च सन्तर्प्य विष्णुलोके महीयते । तत्र स्नात्वा भवेन्मर्त्यो विमलश्चन्द्रमा यथा

既以供养使祖灵与诸天欢悦,便在毗湿奴之界受尊崇。于彼处沐浴,凡人亦得无垢,如澄明之月。

Verse 24

ब्रह्मलोकमवाप्नोति गतिं च परमां व्रजेत् । नृलोके देवदेवस्य तीर्थं त्रैलोक्यविश्रुतम्

他得至梵天界(Brahmaloka),并趋向至上归宿。在人间有一处“诸神之神”的圣地(tīrtha),名闻三界。

Verse 25

पुष्करं नाम विख्यातं महापातकनाशनम् । दशकोटिसहस्राणि तीर्थानां वै महीपते

大王啊,名为“普什迦罗”(Pushkara)者,素以能灭大罪而著称;诚然,其中汇聚无量圣地(tīrtha),达数万俱胝。

Verse 26

सान्निध्यं पुष्करे येषां त्रिसन्ध्यं कुलनन्दन । आदित्या वसवो रुद्रास्साध्याश्च स मरुद्गणाः

噢,汝族之欢喜者:凡在普什卡拉(Puṣkara)守持每日三次的桑迪亚(Sandhyā)仪轨者,阿底提耶(Āditya)、婆苏(Vasu)、鲁陀罗(Rudra)、娑提耶(Sādhya)以及摩鲁特(Marut)诸众,皆近侍相随。

Verse 27

गन्धर्वाप्सरसश्चैव नित्यं सन्निहिता विभोः । यत्र देवास्तपस्तप्त्वा दैत्या ब्रह्मर्षयस्तथा

在那里,噢大能者,乾闼婆(Gandharva)与阿普萨拉(Apsaras)恒常现前——此处诸天曾修苦行(tapas),而提提耶(Daitya)亦然,诸梵仙(Brahmarṣi)亦复如是。

Verse 28

दिव्य योगा महाराज पुण्येन महतान्विताः । मनसाप्यभिकामस्य पुष्कराणि मनस्विनः

噢大王,神圣的普什卡拉(Puṣkara)具足广大福德与天妙瑜伽之力;对具德之人,甚至仅凭心念之愿,亦能成就其所求。

Verse 29

पूयन्ते सर्वपापानि नाकपृष्ठे स मोदते । तस्मिंस्तीर्थे महाराज नित्यमेव पितामहः

一切罪垢皆得净除,而彼于天界欢喜安住。噢大王,在那神圣的渡口(tīrtha)之中,祖父神梵天(Brahmā,Pitāmaha)确然恒常居住。

Verse 30

उवास परमप्रीतो देवदानवसम्मतः । पुष्करेषु महाराज देवास्सर्षिपुरोगमाः

噢大王,他在普什卡拉(Puṣkara)欢喜安住,受诸天与达那婆(Dānava)共同敬奉;而诸天亦在仙圣(ṛṣi)引领之下,同样驻留于彼处。

Verse 31

सिद्धिं च समनुप्राप्ताः पुण्येन महतान्विताः । तत्राभिषेकं यः कुर्यात्पितृदेवार्चने रतः

他们亦得成就,具足广大福德。凡专心礼敬祖灵与诸天者,若在彼处行圣浴灌顶之仪——

Verse 32

अश्वमेधाद्दशगुणं प्रवदंति मनीषिणः । अप्येकं भोजयेद्विप्रं पुष्करारण्यमाश्रितः

智者宣说:其功德为马祭(Aśvamedha)的十倍;即便只在普什迦罗圣林中居住时供养一位婆罗门,亦得如是福报。

Verse 33

अन्नेन तेन संप्रीता कोटिर्भवति पूजिता । तेनासौ कर्मणा भीष्म प्रेत्य चेह च मोदते

以此施食,亿万众生皆得欢喜而受尊崇。凭此善业,噢毗湿摩,他在此世与身后彼世皆得安乐欢悦。

Verse 34

शाकैर्मूलैः फलैर्वापि येन वा वर्त्तयेत्स्वयम् । तद्वै दद्याद्ब्राह्मणाय श्रद्धावाननसूयकः

人以何物自养——或菜蔬、根茎、果实,或其他——当以同样之食,怀信心、无嗔害地供施于婆罗门。

Verse 35

तेनैव प्राप्नुयात्प्राज्ञो हयमेधफलं नरः । ब्राह्मणः क्षत्रियो वैश्यः शूद्रो वा राजसत्तम

由此法门,智者便得马祭之果;无论是婆罗门、刹帝利、吠舍,或首陀罗,噢诸王之最胜者。

Verse 36

पैतामहं सरः पुण्यं पुष्करं नाम नामतः । वैखानसानां सिद्धानां मुनीनां पुण्यदं हि यत्

有一处神圣清净之湖,名为普什迦罗(Puṣkara),以“paitāmaha”(与祖父梵天 Brahmā 相连)而著称。它赐予毗迦那娑(Vaikhānasa)圣者、悉地者(Siddha)与牟尼(muni)以福德功德。

Verse 37

सरस्वती पुण्यतमा यस्माद्याता महार्णवम् । आदिदेवो महायोगी यत्रास्ते मधुसूदनः

从至圣的萨拉斯瓦蒂(Sarasvatī)流入大海之处,在那片圣地,住着摩杜苏达那(Madhusūdana)——本初之主、伟大的瑜伽行者。

Verse 38

ख्यात आदिवराहेति नाम्ना त्रिदशपूजितः । हीनवर्णाश्च ये वर्णास्तीर्थे पैतामहे गताः

他以“阿底·婆罗诃(Ādi-Varāha,原初野猪化身)”之名而闻名,受诸天敬拜。那些被视为卑下的阶层,若前往祖父梵天之圣渡处(Paitāmaha-tīrtha),亦得利益与提升。

Verse 39

न वियोनिं व्रजंत्येते स्नात्वा तीर्थे महात्मनः । कार्तिक्यां च विशेषेण योभिगच्छेत्तु पुष्करं

大德者啊,凡在圣地渡口(tīrtha)沐浴者,不会堕入恶劣之胎。尤其在迦尔提迦月(Kārtika),若前往普什迦罗(Puṣkara),其功德更为殊胜。

Verse 40

फलं तत्राक्षयं तस्य भवतीत्यनुशुश्रुम । सायंप्रातः स्मरेद्यस्तु पुष्कराणि कृतांजलि

我们听闻:在那里所得之果报成为不坏不灭。凡合掌于暮时与黎明忆念诸普什迦罗(Puṣkara)者,便得无尽不失之功德。

Verse 41

उपस्पृष्टं भवेत्तेन सर्वतीर्थे तु कौरव । जन्मप्रभृति यत्पापं स्त्रियो वा पुरुषस्य वा

噢,俱卢后裔啊,凭此行为,便如同触及一切圣地(tīrtha)而得净化;自出生以来所积之罪,无论女子或男子,皆得消除。

Verse 42

पुष्करे स्नानमात्रेण सर्वमेतत्प्रणश्यति । यथासुराणां प्रवरः सर्वेषां तु पितामहः

仅在普什迦罗(Puṣkara)沐浴一次,这一切便尽皆消灭——正如阿修罗中最卓越者,亦仍是众生之祖父一般。

Verse 43

तथैव पुष्करं तीर्थं तीर्थानामादिरुच्यते । त द्दृष्ट्वा दशवर्षाणि पुष्करे नियतः शुचिः

同样,名为普什迦罗(Puṣkara)的圣渡处(tīrtha)被称为诸圣地之首。既已瞻见它,当在普什迦罗住满十年,守戒自制,身心清净。

Verse 44

क्रतून्सर्वानवाप्नोति ब्रह्मलोकं स गच्छति । यस्तु वर्षशतं पूर्णमग्निहोत्रमुपासते

他将获得一切祭祀仪轨的圆满果报,并前往梵天之界(Brahmaloka)——凡如法奉持火供(Agnihotra)满一百年者皆如是。

Verse 45

कार्तिकीं वा वसेदेकां पुष्करे सममेव तु । पुष्करे दुष्करो होमः पुष्करे दुष्करं तपः

或者,只需在普什迦罗(Puṣkara)住满一个迦尔提迦月(Kārtika)。确实,在普什迦罗行火供(homa)不易,在普什迦罗修苦行(tapas)亦不易。

Verse 46

पुष्करे दुष्करं दानं वासश्चैव सुदुष्करः । ब्राह्मणो वेदविद्वांस्तु गत्वा वै ज्येष्ठपुष्करं

在普什卡拉,行布施甚难,居住其地更为艰难。然而,一位通晓吠陀的婆罗门,确已前往最上之耶什塔·普什卡拉(至胜普什卡拉),(……)

Verse 47

स्नानाद्भवेन्मोक्षभागी श्राद्धेन पितृतारकः । नाममात्रोपि यो विप्रो गत्वा संध्यामुपासते

以沐浴者,得分解脱之果;以行施罗陀(śrāddha)者,成为度脱祖灵之人。即便只是名义上的婆罗门——若前往而修持暮晓礼敬(sandhyā),(亦得功德)。

Verse 48

वर्षाणि द्वादशैवेह तेन संध्या ह्युपासिता । भवेत्तु नात्र संदेहः पुरा प्रोक्तं स्वयंभुवा

在此地十二年间,他确实修持了沙恩迪亚礼敬。应当如此——毫无疑惑——因为此事早由自生者斯瓦扬布(梵天)亲自宣说。

Verse 49

सावित्री कथितो दोषः कुले तस्य न जायते । या पत्नी ददते भर्तुः संध्योपास्तिं करिष्यतः

与娑维特丽(Sāvitrī)仪轨相关的过失,不会在那人的家族中生起:其妻在丈夫将行沙恩迪亚礼敬时,予以供奉与助缘。

Verse 50

करकेण तु ताम्रेण तोयं मुक्ता दिवं व्रजेत् । ब्रह्मलोकमनुप्राप्य तिष्ठति ब्रह्मणो दिनं

然而,以铜器施水者得升天界;既至梵天界(Brahmaloka),便安住其间,历经梵天之一日的时量。

Verse 51

तेनापि द्वादशाब्दानि संध्योपास्ता न संशयः । भवेत्समीपगा पत्नी कुर्वतः पितृतर्पणं

即便仅凭此举,亦等同于完成了十二年的暮晨礼(Sandhyā)修持,毫无疑问。行祖灵供水(pitṛ-tarpaṇa)之时,妻子应在旁近侍。

Verse 53

दक्षिणां दिशमास्थाय गायत्र्या राजसत्तम । पितॄणां परमा तृप्तिः क्रियते द्वादशाब्दिकी

大王中之最胜者啊,面向南方诵持伽耶特丽(Gāyatrī),便能令诸祖灵(pitṛ)得至上满足,其功效延续十二年。

Verse 54

युगसहस्रं पिण्डेन श्राद्धेनानन्त्यमश्नुते । एतदर्थं हि विद्वांसः कुर्वंते दारसंग्रहं

于施行祭祖的施罗陀(śrāddha)中奉献团食(piṇḍa),可得历经千劫(yuga)不坏之福德。诚然,智者正为此而摄受婚姻与家居之道。

Verse 55

तीर्थे गत्त्वा प्रदास्यामः पिंडान्वै श्राद्धपूर्वकं । तेषां पुत्रा धनं धान्यमविच्छिन्ना च संततिः

前往神圣的渡口圣地(tīrtha)之后,我们将先行施罗陀(śrāddha)仪轨,再奉献团食供品(piṇḍa)。由此,他们将得子嗣、财富、谷粮,并有不断绝的后代传承。

Verse 56

भवेद्वै नात्र संदेह एतदाह पितामहः । तर्पयित्वा पितॄन्देवानग्निष्टोमफलं लभेत्

此事确无疑虑——祖父神梵天(Brahmā)如是宣说:以供献令祖灵(pitṛ)与诸天(deva)欢喜者,得与阿耆尼什托摩祭(Agniṣṭoma)等同之功德果报。

Verse 57

आश्रमानपि ते वच्मि शृणुष्वैकमना नृप । अगस्त्येन कृतश्चात्र आश्रमो देवसंमितः

我也将为你讲述诸修行林(āśrama);大王啊,请专心聆听。此地亦有阿伽斯提耶(Agastya)所建之修行林,受人敬奉,宛如神圣。

Verse 58

सप्तर्षीणां पुरा चात्र आश्रमो देवसम्मतः । ब्रह्मर्षीणां तथा चात्र मनूनां परमस्तथा

在久远的往昔,此处有七圣仙(Saptarṣi)之修行林,为诸天(deva)所敬。此地亦有梵仙(brahmarṣi)之修行林,并且还有一处至上的修行林,与诸摩奴(Manu)相系。

Verse 59

नागानां च पुरी रम्या यज्ञपर्वतरोधसि । अगस्त्यस्य महाराज प्रभावममितात्मनः

又有一座可喜的那伽(Nāga)之城,位于祭祀山(Yajña)之坡。大王啊,请听那心量无边的阿伽斯提耶之广大威力。

Verse 60

कथयामि समासेन शृणु त्वं सुसमाहितः । पूर्वं कृतयुगे भीष्म दानवा युद्धदुर्मदाः

我将略说其要;你当全神贯注地听。于古老的圆满劫(Kṛta Yuga),毗湿摩(Bhīṣma)啊,檀那婆(Dānava)因战争之狂傲而自满。

Verse 61

कालेया इति विख्याता गणाः परमदारुणाः । ते तु वृत्रं समाश्रित्य देवान्हंतुं समुद्यताः

有一支名为迦勒耶(Kāleya)的众军,极其凶怖。他们依附弗利陀罗(Vṛtra),起而发难,意欲诛灭诸天(deva)。

Verse 62

ततो देवाः समुद्विग्ना ब्रह्माणमुपतस्थिरे । कृतांजलींस्तु तान्सर्वान्परमेष्ठीत्युवाच ह

于是诸天神深感忧惧,前往拜见梵天。帕罗摩什提(梵天)见他们合掌恭立,便对众神开口说道。

Verse 63

विदितं मे सुराः सर्वं यद्वः कार्यं चिकीर्षितं । तमुपायं प्रवक्ष्यामि यथा वृत्रं वधिष्यथ

诸天啊,你们欲成就之事,我已尽知。我将告知你们方法,使你们得以诛灭弗栗陀罗(Vṛtra)。

Verse 64

दधीचिरिति विख्यातो महानृषिरुदारधीः । तं गत्वा सहितास्सर्वे वरं च प्रतियाचत

有一位大圣仙,名闻为达提奇(Dadhīci),心志高洁,智慧广大。众神一同前往,向他祈求一项恩赐。

Verse 65

स वो दास्यति धर्मात्मा सुप्रीतेनांतरात्मना । स वाच्यः सहितैः सर्वैर्भवद्भिर्जयकांक्षिभिः

那位具法之圣者,内心欢喜,必将赐予你们。因此,诸位渴望胜利者,当一同前往,向他陈说请求。

Verse 66

स्वान्यस्थीनि प्रयच्छस्व त्रैलोक्यहितकांक्षया । स शरीरं समुत्सृज्य स्वान्यस्थीनि प्रदास्यति

“为求三界安乐,当献出你自身之骨。他将舍弃其身,施与自己的骨骸。”

Verse 67

तस्यास्थिभिर्महाघोरं वज्रं संक्रियतां दृढं । महच्छत्रुहनं दिव्यं तदस्त्रमशनिः स्मृतं

由他的骨骸,应铸成威猛而极其可怖的金刚杵(Vajra),坚固不可摧;此乃能摧灭强敌的天赐神兵。此兵名为阿沙尼(Aśani),即雷霆之杵。

Verse 68

तेन वज्रेण वै वृत्रं वधिष्यति शतक्रतुः । एतद्वः सर्वमाख्यातं तस्मात्सर्वं विधीयतां

凭此金刚杵,确然,释迦多罗图(Śatakratu,因陀罗)将诛灭弗利陀罗(Vṛtra)。这一切已向诸位详尽宣说;因此,愿诸事皆依正法而行。

Verse 69

एवमुक्तास्ततो देवा अनुज्ञाप्य पितामहं । शतक्रतुं पुरस्कृत्य दधीचेराश्रमं ययुः

诸天闻此言后,便向毗多摩诃(Pitāmaha,梵天)辞别;推举释迦多罗图(Śatakratu,因陀罗)为首,遂前往达提契(Dadhīci)仙人的道场。

Verse 70

सरस्वत्याः परे पारे नानाद्रुमलतावृतं । षट्पदोद्गीतनिनदैरुद्घुष्टं सामगैरिव

在萨拉斯瓦蒂河的彼岸,有一处地方,遍覆种种林木藤蔓;蜂群吟嗡之声回荡其间,宛如诵唱《娑摩吠陀》的歌者高声和唱。

Verse 71

पुंस्कोकिलरवोन्मिश्रं जीवं जीवकनादितम् । महिषैश्च वराहैश्च सृमरैश्चमरैरपि

其间杂和着雄鸠(kokila)的啼声,又回响着吉瓦鸟(jīva)与吉瓦迦鸟(jīvaka)的鸣叫;并有水牛、野猪、羚羊以及旃摩罗鹿(chamara)出没栖息。

Verse 72

तत्रतत्रानुचरितैः शार्दूलभयवर्जितैः । करेणुभिर्वारणैश्च प्रभिन्नकरटामुखैः

彼处此处,见诸象自在游行,无惧虎患:或母象或公象,颊面因两鬓流溢之象酥(狂象之液)而显著。

Verse 73

स्वरोद्गारैश्च क्रीडद्भिः समंतादनुनादितं । सिंहव्याघ्रैर्महानादं नदद्भिरनुनादितं

四面回响着嬉戏众生的呼唤;又复应和狮与虎所发的雄浑巨吼,震荡不息。

Verse 74

मयूरैश्चापि संलीनैर्गुहाकंदरवासिभिः । तेषु तेषु च कुंजेषु नादितं सुमनोरमं

又有孔雀栖伏其间,居于岩窟石穴;在那一处处林丛中鸣声婉转,极其悦耳。

Verse 75

त्रिविष्टपसमप्रख्यं दधीच्याश्रममागमन् । तत्रापश्यन्दधीचिं तं दिवाकरसमप्रभम्

他们来到达提契仙人的道场,光辉宛如天界(Svarga);在那里见到圣者达提契,辉耀如同日轮。

Verse 76

जाज्वल्यमानं वपुषा यथा लक्ष्म्या चतुर्भुजम् । तस्य पादौ सुरा राजन्नभिवंद्य प्रणम्य च । अयाचंत वरं सर्वे यथोक्तं परमेष्ठिना

其身炽然放光,如四臂之主,得吉祥天女(Lakṣmī)庄严。诸天神,王啊,礼拜其足而顶礼后,皆依帕罗摩什提因(梵天 Brahmā)所嘱,求赐一愿。

Verse 77

ततो दधीचिः परमप्रतीतः सुरोत्तमांस्तानिदमित्युवाच । करोमि यद्वो हितमद्य देवाः स्वं वापि देहं त्वहमुत्सृजामि

于是,最负盛名的达提奇对诸天中最尊者说道:“今日,诸天啊,我将行你们之利益;即便舍弃我自身之躯亦在所不惜。”

Verse 78

तानेवमुक्त्वा द्विपदां वरिष्ठः प्राणांस्ततोऽसौ सहसोत्ससर्ज । सुरास्तदस्थीनि सवासवास्ते यथोपयोगं जगृहुः स्म तस्य

他如此言毕,这位人中至上者便骤然舍离生命之气。诸神与婆娑婆(因陀罗)一道,依其所需之用,收取了他的骸骨。

Verse 79

प्रहृष्टरूपाश्च जयाय देवास्त्वष्टारमासाद्य तमर्थमूचुः । त्वष्टा तु तेषां वचनं निशम्य प्रहृष्टरूपः प्रयतः प्रयत्नात्

诸神欢欣,志在胜利,前往谒见工巧神特瓦什特里,陈述其所求。特瓦什特里闻其言,心生喜悦,遂谨慎而坚定地以殷勤之力投入其事。

Verse 80

चकार वज्रं भृशमुग्रवीर्यं कृत्वा च शस्त्रं तमुवाच हृष्टः । अनेन शस्त्रप्रवरेण देव भस्मीकुरुष्वाद्य सुरारिमुग्रं

他铸成金刚杵(雷霆之杵),威力凶猛无比;制就此无上神兵后,欢然说道:“天神啊,以此最胜之兵,今日当将诸天之可怖仇敌焚为灰烬。”

Verse 81

ततो हतारिः सगणः सुखं त्वं प्रशाधि कृत्स्नं त्रिदिवं दिविष्ठः । त्वष्ट्रा तथोक्तस्तु पुरंदरश्च वज्रं प्रहृष्टः प्रयतो ह्यगृह्णात्

于是,待仇敌及其众党尽被诛灭之后,你——诸天中最胜者——当安乐统御整个天界。特瓦什特里如此告诫,破城者(因陀罗)欣然肃然,执起金刚杵。

Verse 82

ततः स वज्रेणयुतो दैवतैरभिपूजितः । आससाद ततो वृत्रं स्थितमावृत्य रोदसी

随后,他手执金刚雷霆之杵,受诸天敬礼而前进。继而他直面弗利陀罗(Vṛtra),其立于彼处,笼罩天地两界。

Verse 83

कालकेयैर्महाकायैस्समंतादभिरक्षितं । समुद्यत प्रहरणैः सशृंगैरिव पर्वतैः

其四面皆为迦罗迦耶(Kālakeya)所守护,身形魁伟,举起兵刃环立,宛如峰峦高耸之群山。

Verse 84

ततो युद्धं समभवद्देवानां सह दानवैः । मुहूर्तं भरतश्रेष्ठ लोकत्रासकरं महत्

于是诸天与檀那婆(Dānava)之间爆发战斗;其势宏大,令诸界惊惧。须臾之间,噢婆罗多族之最胜者。

Verse 85

उद्यतैः प्रतिसृष्टानां खड्गानां वीरबाहुभिः । आसीत्सुतुमुलः शब्दः शरीरैरभिपाटितैः

当臂力雄健的勇士们高举并互掷利剑相向时,因躯体被击倒、被斩裂而起的喧天巨响,汹涌震荡。

Verse 86

शिरोभिः प्रपतद्भिश्चाप्यंतरिक्षान्महीतलं । तालैरिव महीपाल वृतं तैरेव दृश्यते

大王啊,诸首自空中坠落于大地,地面仿佛被它们铺满;看去宛如以棕榈树成行环绕一般。

Verse 87

ते हेमकवचा भूत्वा कालेयाः परिघायुधाः । त्रिदशानभ्यवर्तन्त दावदग्धा इव द्रुमाः

于是迦勒耶众披黄金甲,执铁杵为兵,向诸天神推进,犹如林火所灼、焦黑之树。

Verse 88

तेषां वेगवतां वेगं सहितानां प्रधावताम् । न शेकुः सहिताः सोढुं भग्नास्ते प्राद्रवन्भयात्

他们无法承受那些迅疾者齐心冲锋的猛势,阵势遂被击溃,因恐惧而奔逃。

Verse 89

तान्दृष्ट्वा द्रवतो भीतान्सहस्राक्षः पुरंदरः । वृत्रं च वर्द्धमानं तु कश्मलं महदाविशत्

见他们惊惧奔逃,千眼者因陀罗、破城者,心中被巨大的忧惶所攫;尤以弗利陀罗之威势愈增为甚。

Verse 90

तं शक्रं कश्मलाविष्टं दृष्ट्वा विष्णुः सनातनः । स्वतेजो व्यदधाच्छक्रे बलमस्य विवर्धयन्

永恒的毗湿奴见释迦(因陀罗)为忧乱所困,便将自身神圣威光注入释迦,使其力量增长。

Verse 91

विष्णुनाप्यायितं शक्रं दृष्ट्वादे वगणास्तदा । सर्वे तेजस्समादध्युस्तथा ब्रह्मर्षयोऽमलाः

见因陀罗为毗湿奴所振奋,诸天众神便齐聚各自光辉;无垢的梵仙亦复如是。

Verse 92

स समाप्यायितः शक्रो विष्णुना दैवतैः सह । ऋषिभिश्च महाभागैर्बलवान्समपद्यत

于是,因毗湿奴与诸天同在,又蒙大福德的圣仙(ṛṣi)加持,释迦(因陀罗)得以复苏增力,再次威德充盛。

Verse 93

ज्ञात्वा बलस्थं त्रिदशाधिपं तं ननाद वृत्रस्सुमहानि नादम् । तस्य प्रणादेन धरा दिशश्च खं द्यौर्नगाश्चेति चचाल सर्वं

毗特罗知晓诸天之主坚立于强盛之中,便发出极其洪大的咆哮。那吼声之威,使大地、四方、虚空、诸天与群山——乃至一切——尽皆震动。

Verse 94

ततो महेंद्रः परमाभितप्तः श्रुत्वा रवं घोरतरं महांतम् । भयेन मग्नस्त्वरितं मुमोच वज्रं महान्तं खलु तस्य शीर्षे

于是,大因陀罗(摩诃因陀罗)极为焦灼,听到那极其可怖而宏大的吼声,心沉于惧,便急速将巨大的金刚杵掷向其头顶。

Verse 95

स शक्रवज्राभिहतः पपात महास्वनः कांचनमाल्यधारी । यथा महाशैलवरः पुरस्तात्स मंदरो विष्णुकरात्प्रमुक्तः

被释迦之金刚杵击中,那发出巨响者、佩戴金色花鬘者便倒下了——正如昔日伟大的曼陀罗山从毗湿奴手中被放开,在众目之前坠落一般。

Verse 96

तस्मिन्हते दैत्यवरे भयार्तः शक्रः प्रदुद्राव सरः प्रवेष्टुं । वज्रं च मेने स्वकरात्प्रमुक्तं वृत्रं भयाच्चैव हतं न पश्यति

当那最上之阿修罗(代提耶)被诛之后,释迦因惧而苦,奔走欲入湖中。他以为金刚杵已从自己手中脱落;又因恐怖,竟连毗特罗已被杀也未曾看见。

Verse 97

सर्वे च देवा मुदिताः प्रहृष्टाः सहर्षयश्चैनमथो स्तुवंति । शेषांश्च दैत्यांस्त्वरितं समेत्य जघ्नुः सुरा वृत्रवधाभितप्तान्

诸天欢喜踊跃,与诸仙人一同赞颂于他。诸天又迅速集结,击灭余下的阿修罗——那些因弗利陀罗被诛而惊惧痛苦者。

Verse 98

ते वध्यमानास्त्रिदशैस्तदानीं महासुरा वायुसमानवेगाः । समुद्रमेवाविविशुर्भयार्ताः प्रविश्य चैवोदधिमप्रमेयम्

当时那些大阿修罗被三十三天神击杀,疾如风驰,惊恐万状地遁入大海;他们确实潜入那不可测量的汪洋。

Verse 99

झषाकुलं रत्नसमाकुलं च तदा स्म मंत्रं सहिताः प्रचक्रुः । तत्र स्म केचिन्मतिनिश्चयज्ञास्तांस्तानुपायान्परिचिंतयंतः

随后,他们见水中鱼群繁盛、珠宝遍布,便聚在一起商议,开始筹划计策。其中有些人善于定夺,思量着种种方法与手段。

Verse 100

भयार्दिता देवनिकायतप्तास्त्रैलोक्यनाशाय मतिं प्रचक्रुः । तेषां तु तत्र क्षयकालयोगाद्घोरामतिश्चिंतयतां बभूव

他们被恐惧所逼、为天众所压而苦,遂生起毁灭三界之决意。然而就在那时,由于劫尽之时的因缘会合,在那里筹议者心中生出可怖的意念。

Verse 101

ये संति विद्यातपसोपपन्नास्तेषां विनाशः प्रथमं च कार्यः । लोकाश्च सर्वे तपसा ध्रियंते तस्मात्त्वरध्वं तपसः क्षयाय

凡具智慧与苦行(tapas)之人,应先行令其毁灭。因为一切世界皆由苦行之力所支撑;故当速速使苦行衰耗、令其枯竭。

Verse 102

ये संति केचिद्धि वसुंधरायां तपस्विनो धर्मविदश्च तज्ज्ञाः । तेषां वधश्चक्रियतां हि क्षिप्रं तेषु प्रणष्टेषु जगद्विनष्टम्

凡在此大地上者——苦行者、通达达摩者,以及真正精于其义者——当速行诛杀;因为他们一旦灭亡,世界本身亦随之败坏。

Verse 103

एवं हि सर्वे गतबुद्धिभावा जगद्विनाशे परमप्रहृष्टाः । दुर्गंसमाश्रित्य महोर्मिमंतं रत्नाकरं वारुणमालयं स्म

于是他们众人——心智尽失——对世界的毁灭欢喜异常;依托坚固堡垒,遂入那宝藏之海、伐楼那之居所,巨浪翻涌,汹涌澎湃。

Verse 104

समुद्रं ते समासाद्य वारुणं त्वंभसां निधिं । कालेयास्समपद्यंत त्रैलोक्यस्य विनाशने

他们抵达大海——伐楼那的水之宝藏——迦勒耶众便着手毁灭三界。

Verse 105

ते रात्रौ समभिक्रुद्धा बभक्षुस्तांस्तदा मुनीन् । आश्रमेषु च ये संति पुण्येष्वायतनेषु च

夜间他们怒火炽盛,便吞噬那些牟尼圣者——甚至包括住在精舍与圣地中的人。

Verse 106

वसिष्ठस्याश्रमे विप्रा भक्षितास्तैर्दुरात्मभिः । अशीतिः शतमष्टौ च वने चान्ये तपस्विनः

在毗湿多的精舍中,婆罗门被那些恶心之徒吞噬;而在森林里,另有八十八位苦行者也同遭其害。

Verse 107

च्यवनस्याश्रमं गत्वा पुण्यं द्विजनिषेवितम् । फलमूलाशनानां हि मुनीनां भक्षितं शतं

他们来到恰瓦那(Cyavana)的静修林——清净圣地,为二次生者所常至——在那里,依果与根而食的牟尼们吃下了一百份食物。

Verse 108

एवं रात्रौ स्म कुर्वंतो विविशुश्चार्णवं दिवा । भरद्वाजाश्रमं गत्वा नियता ब्रह्मचारिणः

他们夜间如此行事,白昼则入于大海;那些持戒的梵行弟子前往婆罗堕阇(Bharadvāja)的静修林。

Verse 109

वाताहारांबुभक्षाश्च विंशतिश्च निषूदिताः । एवं क्रमेण भक्षार्थं मुनीनां दानवास्तदा

二十位苦行者被杀——有的以风为食,有的唯以水为养。就这样按次第,当时的达那婆(Dānava)为吞噬牟尼而行。

Verse 110

निशायां पर्यधावंत शक्ता भुजबलाश्रयात् । कालेन महता ते वै जघ्नुर्मुनिगणान्बहून्

夜间他们奔走追逐,倚仗臂力而得势;经久之时,确实杀害了许多牟尼的群体。

Verse 111

न चैतानवबुध्यंत मनुजा मनुजाधिप । निस्वाध्यायवषट्कारं नष्टयज्ञोत्सवक्रियम्

而世人,噫人中王,并不觉知此事;因为吠陀诵习与“vaṣaṭ”祭呼已止息,祭祀(yajña)与庆典的仪轨也尽皆败坏。

Verse 112

जगदासीन्निरुत्साहं कालेयभयपीडितं । एवं प्रक्षीयमाणास्ते मानवा मनुजेश्वर

世间失却勇气,被迦勒耶族的恐惧所压迫。于是,噫人中王,那些众生便渐渐衰耗、日益困顿。

Verse 113

आत्मत्राणपरा भीताः प्राद्रवंस्तु दिशो दश । केचिद्गुहां प्रविविशुर्विकीर्णाश्चापरे द्विजाः

众人惊惧,只求自保,奔逃向十方。其间有些二次生者(婆罗门等)潜入洞窟,另一些则四散零落。

Verse 114

अपरे च भयोद्विग्ना भयात्प्राणान्समत्यजन् । केचित्तत्र महेष्वासाः शूराः परमदर्पिताः

另有一些因恐惧而战栗,竟在惊惶中舍弃性命。然而彼处亦有几位强弓善射者——英勇之士,骄昂而极其刚猛。

Verse 115

मार्गमाणाः परं यत्नंदानवानांप्रचक्रिरे । नचैताननुजग्मुस्ते समुद्रं समुपाश्रितान्

他们竭尽全力搜寻追踪诸达那婆(Dānava)。然而并未继续追击,因为那些达那婆已投身大海而得庇护。

Verse 116

शमं न जग्मुः परममाजग्मुः क्षयमेव च । जगत्प्रशमने जाते नष्टयज्ञोत्सवक्रिये

他们未得安宁,反而只至于彻底的毁灭。及至世间得以平息之时,祭祀(yajña)与庆典的仪轨早已消失无存。

Verse 117

आजग्मुः परमोद्विग्नास्त्रिदशा मनुजेश्वर । समेत्य समहेंद्रास्तु भयान्मंत्रं प्रचक्रिरे

人中王啊,三十三天诸神极度忧惧而聚集;与因陀罗同会,出于恐惧,他们制定了护身的真言。

Verse 118

नारायणं पुरस्कृत्य वैकुंठमपराजितम् । ततो देवास्समेतास्ते तदोचुर्मधुसूदनम्

他们以那罗延——毗昆塔不败之主——为先导;于是诸神齐集,继而对摩度苏丹那说道。

Verse 119

त्वं नः स्रष्टा च गोप्ता च भर्ता च जगतः प्रभो । त्वया सृष्टं जगत्सर्वं यच्चेंगं यच्च नेङ्गति

你是我们的创造者、守护者与维系者,宇宙之主啊。此整个世界由你所造——凡能动者与不动者皆然。

Verse 120

त्वया भूमिः पुरा नष्टा समुद्रात्पुष्करेक्षण । वाराहं रूपमास्थाय जगदर्थे समुद्धृता

莲华眼者啊,往昔大地沉没于海中之时,你化现为野猪(婆罗诃)之形,为了世界的福祉将她再度托举而出。

Verse 121

आदिदैत्यो महावीर्यो हिरण्यकशिपुः पुरा । नारसिंहं वपुः कृत्वा सूदितः पुरुषोत्तम

在远古之时,原初而英勇的大阿修罗希兰尼亚迦湿布,被至上之人化作人狮(那罗辛诃)之身所诛灭。

Verse 122

अवध्यः सर्वभूतानां बलिश्चापि महासुरः । वामनं वपुरास्थाय त्रैलोक्याद्भ्रंशितस्त्वया

巴利亦然——那位对一切众生不可战胜的大阿修罗——当你化现为婆摩那时,被你从三界中击落。

Verse 123

असुरः सुमहेष्वासो जंभ इत्यभिविश्रुतः । यज्ञक्षोभकरः क्रूरस्त्वमरैर्विनिपातितः

曾有一位名闻遐迩的阿修罗,名叫阇婆(Jambha),乃强弓巨射之士——残暴且扰乱祭祀(yajña)——终被诸天击杀。

Verse 124

एवमादीनि कर्माणि येषां संख्या न विद्यते । अस्माकं भयभीतानां त्वं गतिर्मधुसूदन

如是等业行——其数不可计——皆为我等所作。今我等惶惧战栗,唯你是归依,噢,摩度苏陀那。

Verse 125

तस्मात्त्वां देवदेवेश लोकार्थं ज्ञापयामहे । रक्ष लोकांश्च देवांश्च शक्रं च महतो भयात्

因此,噢诸天之主,为了诸世界的安宁,我们恳请于你:护持诸世界与诸天,并护持释迦(因陀罗),使其脱离此大恐怖。

Verse 126

भवत्प्रसादाद्वर्तंते प्रजास्सर्वाश्चतुर्विधाः । स्वस्था भवंति मनुजा हव्यकव्यैर्दिवौकसः

承你恩德,一切四类众生得以延续兴盛;人间安泰康宁,而诸天则因havya与kavya之供献而得滋养。

Verse 127

लोका ह्येवं प्रवर्तंते अन्योन्यं च समाश्रिताः । त्वत्प्रभावान्निरुद्विग्नास्त्वयैव परिरक्षिताः

诸世界如是运行,彼此依存相持。凭汝威力而无所惊惧,唯由汝一人周遍护持。

Verse 128

इदं च समनुप्राप्तं लोकानां भयमुत्तम् । जानीमो न च केनैते वध्यंते ब्राह्मणा निशि

而今至上的恐怖临于众生;然我等不知,夜间究竟是谁在杀害这些婆罗门。

Verse 129

ब्राह्मणेषु च क्षीणेषु पृथिवी क्षयमेष्यति । त्वत्प्रसादान्महाबाहो लोकास्सर्वे जगत्पते

婆罗门若衰弱,大地必趋毁坏。赖汝恩德,噢大臂者、世界之主,愿一切国土诸界得以保存。

Verse 130

विनाशं नाधिगच्छेयुस्त्वया वै परिरक्षिताः । विष्णु उवाच । विदितं मे सुरास्सर्वं प्रजायाः क्षयकारणम्

“若由汝护持,彼等必不至毁灭。”毗湿奴曰:“诸天啊,一切我皆已知——众生衰败之因。”

Verse 131

भवतां चापि वक्ष्यामि शृणुध्वं विगतज्वराः । कालकेया इति ख्याता गणाः परमदारुणाः

我亦将告汝等其事——汝等当静心聆听。彼有一类众,名为迦罗迦耶,性极凶怖。

Verse 132

ते वृत्रं निहतं दृष्ट्वा सहस्राक्षेण धीमता । जीवितं परिरक्षन्तः प्रविष्टा वरुणालयम्

见到智者千眼者(因陀罗)已诛灭弗利陀罗(Vṛtra),他们为保全性命,便进入伐楼那(Varuṇa)的居所。

Verse 133

ते प्रविश्योदधिं घोरं नानाग्राहसमाकुलम् । उत्सादनार्थं लोकस्य रात्रौ घ्नंति मुनीनिह

他们潜入可怖的大海,那里群鳄杂聚;为毁坏世人及世间秩序,便在夜间于此杀害诸牟尼圣贤。

Verse 134

न तु शक्याः क्षयं नेतुं समुद्रांतर्हिता हि ते । समुद्रस्य क्षये बुद्धिर्भवद्भिः परिचिंत्यताम्

然而难以将他们灭尽,因为他们藏身于海中。你们应当转而立志,使大海干涸。

Verse 135

एतच्छ्रुत्वा वचो देवा विष्णुना समुदाहृतम् । परमेष्ठिनमासाद्य अगस्त्यस्याश्रमं ययुः

诸天听闻毗湿奴(Viṣṇu)所说此言,便前往拜见至上造主帕拉梅什提因(梵天 Brahmā),随后又去到阿伽斯提耶(Agastya)的道场。

Verse 136

तत्रापश्यन्महात्मानं वारुणं दीप्ततेजसम् । उपास्यमानमृषिभिर्द्देवैरिव पितामहम्

在那里,他见到大心的伐楼那(Varuṇa),光辉炽盛;诸仙恭敬侍奉于侧,正如众天侍奉祖父梵天(Pitāmaha, Brahmā)一般。

Verse 137

तेभिगम्य महात्मानं मैत्रावरुणिमुत्तमम् । अप्रमत्तं तपोराशिं कर्मभिः स्वैरनुष्ठितैः

他们前去亲近那位大圣者——最卓越的迈特罗伐鲁尼——恒常警醒,蕴藏无量苦行之宝,以依其本分清净戒行所成就的诸业而礼敬。

Verse 138

देवा ऊचुः । नहुषेणाभितप्तानां लोकानां त्वं गतिः पुरा । भ्रंशितश्च सुरैश्वर्याल्लोकार्थं लोककंटकः

诸天说道:往昔当那胡沙折磨诸世界之时,你曾是众生的归依。然而你从天界主权中堕落之后,却成了世间之刺——假托为世人谋利,实则伤害群生。

Verse 139

क्रोधात्प्रवृद्धः स महान्भास्करस्य नगोत्तमः । वचस्तवानतिक्रामन्विन्ध्यः शैलो न वर्धते

那伟大而最胜的山——温陀耶——因对日神婆斯迦罗而怒气膨胀,却并不增长;因为它不敢逾越你的圣命。

Verse 140

तमसाच्छादिते लोके मृत्युनाभ्यर्दिताः प्रजाः । त्वामेव नाथमागम्य निर्वृतिं परमां गताः

当世界为黑暗所覆,众生为死亡所逼迫之时,他们唯独前来归投于你为护主,遂得至上的安宁。

Verse 141

अस्माकं भयभीतानां नित्यमेव भवान्गतिः । ततस्त्वद्य प्रयाचामस्त्वां वरं वरदो ह्यसि

我们因恐惧而战栗者,恒常唯你为归依处。因此今日我们向你祈求一愿;因为你确是赐愿的施主。

Verse 142

भीष्म उवाच । किमर्थं सहसा विंध्यः प्रवृद्धः क्रोधमूर्च्छितः । एतदिच्छाम्यहं श्रोतुं विस्तरेण महामुने

毗湿摩说道:“因何缘故,温陀耶山忽然长得如此高大,竟被愤怒的昏厥所笼罩?大牟尼啊,我愿详尽聆听此事。”

Verse 143

पुलस्त्य उवाच । अद्रिराजं महाशैलं मेरुं कनकपर्वतम् । उदयेऽस्तमये भानुः प्रदक्षिणमवर्तत

普罗陀斯耶说道:在日出与日落之时,太阳都以右绕之礼(pradakṣiṇā)环行于须弥山——群山之王、巍峨巨峰、金色之山。

Verse 144

तं दृष्ट्वा तु तदा विंध्यः शैलः सूर्यमथाब्रवीत् । यथा हि मेरुर्भवता नित्यशः परिगम्यते

当时温陀耶山见到太阳,便对日神说道:“正如你日日无间地亲近须弥山一般,”

Verse 145

प्रदक्षिणं च क्रियते मामेवं कुरु भास्कर । एवमुक्तस्ततः सूर्यः शैलेंद्रं प्रत्यभाषत

“并且行右绕之礼;婆伽罗啊,也请如此待我。”太阳受此请求,便答复那山中之主。

Verse 146

नाहमात्मेच्छया शैलं करोम्येनं प्रदक्षिणम् । एष मार्गः प्रदिष्टो मे येनेदं निर्मितं जगत्

“我并非随己意而右绕此山。此乃为我所规定之道——正是凭此道路,这世界得以建立。”

Verse 147

एवमुक्तस्तदा क्रोधात्प्रवृद्धः सहसाचलः । सूर्याचंद्रमसोर्मार्गं रोद्धुमिच्छन्परंतप

闻此言后,那山岳顿时因忿怒而膨胀;噬敌者啊,它欲阻断日与月的行道。

Verse 148

ततो हि देवाः सहितास्तु सर्वे सेंद्राः समागम्य महाद्रिराजम् । निवारयामासुरथोत्पतंतं न वै स तेषां वचनं चकार

于是诸天与因陀罗一同会集,前往山王之前,欲在其腾起时加以制止;然彼全然不听其言。

Verse 149

ततो हि जग्मुर्मुनिमाश्रमस्थं तपस्विनां धर्मवतां वरिष्ठम् । अगस्त्यमत्यद्भुतदीप्तवीर्यं तं चार्यमूचुः सहिताः सुरास्ते

于是诸神前往住于精舍的牟尼——苦行与正法者中最胜者。近至阿伽斯底耶,其威力以奇妙光辉照耀,他们同声向那尊师启言。

Verse 150

देवा ऊचुः । सूर्याचंद्रमसोर्मार्गं नक्षत्राणां गतिं तथा । शैलराडावृणोत्येष विंध्यः क्रोधवशानुगः

诸天说道:“此温陀耶为忿怒所驱,遮断日月之道,亦阻诸星宿之行;此山王正在障碍他们。”

Verse 151

तं निवारयितुं शक्तो नान्यः कश्चिन्मुनीश्वर । तच्छ्रुत्वा वचनं विप्रः सुराणां शैलमभ्यगात्

噢,牟尼之主,除你之外无人能制止他。闻诸天之言,那婆罗门便前往那山。

Verse 152

सोभिगम्याब्रवीद्विंध्यं सादरं समुपस्थितम् । मार्गमिच्छाम्यहं दत्तं भवता पर्वतोत्तम

他走近恭敬伫立的温提耶山,说道:“诸山之最啊,愿你赐我通行之路。”

Verse 153

दक्षिणामभिगंतास्मि दिशं कार्येण केनचित् । यावदागमनं मे स्यात्तावत्त्वं प्रतिपालय

我因某事将往南方而去;在我归来之前,你当守护此事(此处)。

Verse 154

निवृत्ते मयि शैलेंद्र ततो वर्धस्व कामतः । पुलस्त्य उवाच । अद्यापि दक्षिणाद्देशाद्वारुणिर्न निवर्तते

“待我离去之后,群山之主啊,你便可随心所欲地增长。”普拉斯提耶说道:“直到如今,瓦鲁尼仍未自南方之地归来。”

Verse 155

एतत्ते सर्वमाख्यातं यथा विन्ध्यो न वर्धते । अगस्त्यस्य प्रभावेण यन्मां त्वं परिपृच्छसि

我已将一切告知于你:温提耶山为何不再增长——皆因阿迦斯提耶之威力;这正是你向我所问。

Verse 156

कालेयास्तु यथा राजन्सुरैः सर्वैर्निषूदिताः । अगस्त्यद्वारमासाद्य तन्मे निगदतः शृणु

大王啊,请听我叙说:迦勒耶族如何在抵达阿迦斯提耶的门庭(居处)之后,被诸天神众尽皆诛灭。

Verse 157

त्रिदशानां वचः श्रुत्वा मैत्रावरुणिरब्रवीत् । किमर्थं समुपायाता वरं मत्तः किमिच्छथ

听闻诸天之言,弥勒耶·伐楼尼说道:“你们为何而来?欲从我处求得何等恩赐?”

Verse 158

एवमुक्तास्तदा तेन देवास्तं मुनिमब्रुवन् । इच्छाम एकं वरमद्भुतं वयं पिबार्णवं देवमुने महात्मन्

被他如此问及,诸天对那位圣仙说道:“噢天圣牟尼,噢大心者,我们只求一桩奇妙之愿——请饮尽大海。”

Verse 159

एवं त्वयेच्छेम कृते महर्षे महार्णवं पीयमानं समग्रम् । ततो विहन्याम च सानुबंधं कालेयसंज्ञं सुरविद्विषां बलम्

若你允诺,噢大圣仙,我们便使那浩瀚大海尽被饮尽;随后我们将连同其同党,一并歼灭那名为迦勒耶的诸天之敌之众。

Verse 160

त्रिदशानां वचः श्रुत्वा तथेति मुनिरब्रवीत् । करिष्ये भवतां कामं लोकानां सुखकारकम्

听闻诸天之言,圣者答道:“如是。吾当成就汝等所愿,此举将为诸世界带来安乐。”

Verse 161

एवमुक्त्वा ततोऽगच्छत्समुद्रं निधिमंभसाम् । तपःसिद्धैश्च मुनिभिः सार्धं देवैश्च सुव्रत

言毕,他便前往大海——众水之宝藏——与以苦行为成就的诸牟尼及诸天同往,噢持善誓者。

Verse 162

मनुष्योरगगंधर्वा यक्षाः किंपुरुषास्तथा । अनुजग्मुर्महात्मानं द्रष्टुकामास्तदद्भुतम्

人类、那伽、乾闼婆、夜叉以及紧那罗等,也都追随那位大心者,渴望亲见那不可思议的奇瑞。

Verse 163

ततोऽभ्यपश्यत्सहितः समुद्रं भीमनिःस्वनम् । नृत्यंतमिव चोर्मीभिर्वल्गंतमिव वायुना

随后,他与同伴一同望见大海,发出骇人的轰鸣;仿佛随浪起舞,又似被狂风驱使而腾跃。

Verse 164

हसंतमिव फेनौघैः स्खलंतं कंदरेषु च । नानाग्राहसमाकीर्णं नानाद्विजगणैर्युतम्

它仿佛以滚涌的泡沫大笑,又似在峡谷间踉跄奔涌;其中遍布各类鳄鱼,并有成群多样的水鸟相随。

Verse 165

अगस्त्यसहिता देवाः सगंधर्वमहोरगाः । ऋषयश्च महाभागाः समासेदुर्महोदधिम्

在阿伽斯提耶相随之下,诸天神与乾闼婆及大蛇众,并诸位福德具足的仙人,一同趋近那浩瀚大海。

Verse 166

समुद्रं स समासाद्य वारुणिर्भगवानृषिः । उवाच सहितान्देवानृषींस्तांस्तु समागतान्

抵达大海之后,圣者瓦鲁尼仙人便对聚集的诸天神与到来的诸仙众宣说。

Verse 167

पातुकामः समुद्रं च अगस्त्य ऋषिसत्तमः । एष लोकहितार्थाय पिबामि वरुणालयम्

圣贤阿伽斯提耶——诸仙中最胜者——欲饮尽大海,宣言道:“为世间安乐,我将饮下这瓦楼那之居所——海洋。”

Verse 168

भवतां यदनुष्ठेयं तच्छीघ्रं संविधीयताम् । एतावदुक्त्वा वचनं मैत्रावरुणिरग्रतः

“你们当行的任何戒行与仪轨,都应速速筹备并完成。”说罢这些话,迈特罗伐楼尼(阿伽斯提耶)当众如此宣示。

Verse 169

समुद्रमपिबत्क्रुद्धस्सर्वलोकस्य पश्यतः । पीयमानं समुद्रं तु दृष्ट्वा देवाः सवासवाः

他忿然之下,当着诸世界的注视饮尽大海。见海洋被饮,诸天神——连同因陀罗——(为之震动)。

Verse 170

विस्मयं परमं जग्मुस्स्तुतिभिश्चाप्यपूजयन् । त्वं नस्त्राता विधाता च लोकानां लोकभावनः । त्वत्प्रसादात्समुत्सेधमुपगच्छेत्समं जगत्

他们惊叹至极,以赞颂之歌礼敬道:“汝为我等之救护者与造化者,诸世界之养育者。赖汝恩德,整个宇宙同起同荣,和合兴盛。”

Verse 171

संपूज्यमानस्त्रिदशैर्महात्मा गंधर्वमुख्येषु नदत्सु चैव । दिव्यैश्च पुष्पैरवकीर्यमाणो महार्णवं निःसलिलं चकार

受诸天神礼敬之时,那大心者——在首座乾闼婆的歌声回荡、又蒙天花纷纷洒落——使浩瀚大海化为无水之境。

Verse 172

दृष्ट्वा कृतं निःसलिलं महार्णवं सुराः समस्ताः परमप्रहृष्टाः । प्रगृह्य दिव्यानि वरायुधानि तान्दानवान्जघ्नुरदीनसत्त्वाः

诸天见那大海已被化作无水之境,皆极其欢喜。遂执持神圣殊胜之兵器,那些无畏的英雄击杀了达那婆众。

Verse 173

ते वध्यमानास्त्रिदशैर्महात्मभिर्महाबलैर्वेगयुतैर्नदद्भिः । न सेहिरे वेगवतां महात्मनां वेगं तदा धारयितुं दिवौकसाम्

当他们被诸天击杀——诸天心量广大、力大无穷、攻势迅疾且怒吼震天——那些敌众当时无法忍受,也不能抵挡这些天界强者的奔涌之势。

Verse 174

ते वध्यमानास्त्रिदशैर्दानवा भीमनिःस्वनाः । चक्रुः सुतुमुलं युद्धं मुहूर्त्तमिव भारत

虽被诸天击杀,达那婆众仍发出可怖的吼声,掀起极其喧腾惨烈的战斗,噢婆罗多啊,仿佛只持续了一瞬。

Verse 175

ते पूर्वं तपसा दग्धा मुनिभिर्भावितात्मभिः । यतमानाः परं शक्त्या त्रिदशैर्विनिषूदिताः

先前他们已被苦行之火所灼,又被自持的牟尼所淬炼;纵然竭尽全力奋战,终究仍为诸天所诛灭。

Verse 176

ते हेमनिष्काभरणाः कुंडलांगदधारिणः । निहता बह्वशोभंत पुष्पिता इव किंशुकाः

他们佩戴金饰宝环,耳坠与臂钏辉映;当被击杀倒地之时,仍显出灿然华美,宛如盛放的金舒迦花树。

Verse 177

हतशिष्टास्ततः केचित्कालेयदनुजोत्तमाः । विदार्य वसुधां देवीं पातालतलमाश्रिताः

随后,一些幸存者——迦勒耶最杰出的幼弟们——劈开大地女神婆苏陀(Vasudhā),遁入地下界帕塔拉(Pātāla)以求庇护。

Verse 178

निहतान्दानवान्दृष्ट्वा त्रिदशा मुनिपुंगवम् । तुष्टुवुर्विविधैर्वाक्यैरिदं चैवाब्रुवन्वचः

诸天见到檀那婆(Dānava)已被诛灭,便以种种言辞赞颂那位最上圣仙,并又说道如下之语。

Verse 179

त्वत्प्रसादान्महाभाग लोकैः प्राप्तं महत्सुखम् । त्वत्तेजसा च निहताः कालेया भीमविक्रमाः

蒙你恩德,尊贵者啊,诸世界得享大乐;又因你威光,勇猛可怖的迦勒耶众已被诛灭。

Verse 180

पूरयस्व महाविप्र समुद्रं लोकभावनम् । यत्त्वया सलिलं पीतं तदस्मिन्पुनरुत्सृज

大婆罗门圣者啊,请再度充满那维系诸世的海洋;你所饮尽之水,请将其复归于海。

Verse 181

एवमुक्तः प्रत्युवाच भगवान्मुनिपुंगवः । जीर्णं तद्धि मया तोयमुपायोन्यः प्रचिंत्यताम्

如是被请,世尊、诸牟尼之最胜者答曰:“那水我确已饮尽;故当另思他法。”

Verse 182

पूरणार्थं समुद्रस्य भवद्भिर्यत्नमास्थितैः । एवं श्रुत्वा तु वचनं महर्षेर्भावितात्मनः

“为使大海得以充盈,你们已竭力承担此行。”诸神听罢那位自心调御、常住观照的大圣仙之言,……

Verse 183

विस्मिताश्च विषण्णाश्च बभूवुः सहितास्सुराः । परस्परमनुज्ञाप्य प्रणम्य मुनिपुंगवम्

众天神同聚,既惊异又忧惘;彼此商议一番,遂告辞而礼拜那位最胜牟尼。

Verse 184

प्रजाः सर्वा महाराज विप्रा जग्मुर्यथागतम् । त्रिदशा विष्णुना सार्द्धमनुजग्मुः पितामहम्

大王啊,一切臣民与婆罗门皆各自返还,如来时一般离去;而诸天与毗湿奴同往,追随皮塔摩诃(梵天)。

Verse 185

पूरणार्थं समुद्रस्य मंत्रयंतः परस्परम् । ऊचुः प्रांजलयः सर्वे सागरस्य हि पूरणम्

他们彼此商议如何充满大海;众人合掌恭敬,谈论着使海洋充盈之事。

Verse 186

तानुवाच समेतांस्तु ब्रह्मा लोकपितामहः । गच्छध्वं विबुधास्सर्वे यथाकामं यथेप्सितम्

于是,梵天——诸世界之祖父、众生之父——对聚集者说道:“诸天众神啊,汝等随心所愿,依所求而去。”

Verse 187

महता कालयोगेन प्रकृतिं यास्यतेऽर्णवः । ज्ञातींस्तु कारणं कृत्वा महाराजो भगीरथः

在漫长的大时劫流转中,大海将复归其本然之性;而婆伽罗陀王以宗亲为因与所求,遂依此而行。

Verse 188

गंगौघेन समुद्रं च पुनः संपूरयिष्यति । एवं ते ब्रह्मणा देवाः प्रेषिता ऋषिसत्तमाः

“以恒河的浩大洪流,它将再度充满大海。”如是,噢最胜仙人,那些天神奉梵天之命而被差遣。

Verse 189

उवाच भगवांस्तुष्टस्त्वगस्त्यमृषिसत्तमम् । देवकार्यं तु भवता दानवानां विनाशनम्

世尊欢喜,告于阿迦斯提耶——诸仙之最:“诚然,由汝成就诸天之事:灭尽达那婆。”

Verse 190

यतस्संतारिता देवास्तेन तुष्टोस्मि वै मुने । अभिप्रेतो वरो यस्ते याचयस्व ददामि तम्

既由汝使诸天得度得救,仙人啊,我实为欢喜。汝所愿之恩赐,尽可祈求;我当赐与汝。

Verse 191

एवमुक्तस्तदागस्त्यः प्रणिपातपुरःसरम् । इहस्थेन मया देव देवकार्यमिदं कृतम्

如是被告,阿迦斯提耶先行顶礼而后言:“天尊啊,我安住于此,已为诸天成就此事。”

Verse 192

सर्वाश्रमाणां प्रवरो भवत्वेष ममाश्रमः । त्वया चोक्तस्तु भगवन्भविता नात्र संशयः

愿我这座修行林苑成为一切阿湿罗摩中最尊最胜。噢吉祥的主啊,既然你已如此宣说,此事必定成就,毫无疑惑。

Verse 193

ब्रह्मोवाच । यात्रां तु पुष्करे कृत्वा इहागत्य नरास्तु ये । इह कुंडेषु ये स्नानं तर्पणं पितृदेवयोः

梵天说道:凡在补湿迦罗(Puṣkara)完成朝圣而后来到此地的人——凡在此诸圣池中沐浴,并向祖先与诸天奉献塔尔帕那(tārpaṇa)者——

Verse 194

अर्चनं चैव देवेषु सर्वमक्षयकारकम् । अर्घ्यं चोच्चावचं गृह्य शष्कुलापूपकांस्ततः

向诸天所作的礼拜,尽皆成为不坏功德之因。取种种阿尔伽(arghya,恭敬供献)之后,当再奉献仪式食供,如沙湿库拉(śaṣkula)与阿普帕卡(āpūpaka)饼。

Verse 195

दास्यंति द्विजमुख्येभ्यस्तेषां वासस्त्रिविष्टपे । श्राद्धेन पितरस्तृप्ता यावदाभूतसंप्लवम्

他们将这些供施奉与最尊贵的二次生者(dvija);于是便得居于三十三天(Triviṣṭapa)。凭借施行施罗达(śrāddha)之礼,祖先将满足安乐,直至终劫大毁灭。

Verse 196

कंदमूलफलैर्वापि तर्पयिष्यति यो मुनिम् । सप्तर्षिस्थानमासाद्य मोदते शास्वतीः समाः

凡能令牟尼圣者欢喜者——纵以根、块茎与果实供养——亦得抵达七仙之境,并于彼处欢悦,历经恒常之岁月。

Verse 197

यज्ञपर्वतमारूढो दृष्ट्वा गंगाविनिर्गमम् । उदङ्मुखी देवनदी निर्गता पुष्करं प्रति

登上祭祀之山耶阇那,见恒河涌现;这条天界圣河面向北方,启程前往普什迦罗。

Verse 198

अत्राभिषेकं यः कुर्यात्पितृदेवार्चने रतः । अश्वमेधफलं तस्य भवत्येव न संशयः

凡在此行灌顶沐浴(阿毗湿迦),专心礼敬祖灵与诸天者,必得马祭(阿湿婆梅陀)之功德,毫无疑问。

Verse 199

यस्त्वेकं भोजयेद्विप्रं कोटिर्भवति भोजिता । अक्षयं त्वन्नपानं च अत्र दत्तं मुनीश्वर

然而,若有人供养哪怕一位婆罗门,便如同供养了一亿(拘胝)之众。此处所施之饮食亦成不坏之福,噢牟尼之主。

Verse 200

यो यमिच्छति कामं तु सर्वं तस्य भविष्यति । न वियोनिं व्रजत्यत्र स्नातमात्रो नरो भुवि

人所欲求之愿,皆可成就;在此处,即便只是沐浴之人,于世间亦不堕入恶胎与下劣再生。

Verse 201

स्थानानां परमं स्थानं तीर्थानां तीर्थमुत्तमम् । मया दत्तं मुनिश्रेष्ठ भविष्यति न संशयः

此处必成诸处之最胜,亦为一切圣地渡口(提尔塔)之无上——乃我所赐,噢诸牟尼中最胜者;毫无疑问。