
在《大那罗陀往世书》前分中,梵天对摩利支开示,列举《梵卵往世书》(Brahmāṇḍa Purāṇa)的范围与内部结构。梵天确立四个 pāda——Prakriyā、Anuṣaṅga、Upodghāta、Upasaṃhāra——归为前段、中段与后段,并逐条说明内容:祭仪与义务、奈弥沙(Naimiṣa)叙事、金胎(Hiraṇyagarbha)与世界形成;诸 kalpa 与 manvantara;意生创造、鲁陀罗(Rudra)诞生、摩诃提婆(Mahādeva)诸显现与圣仙创造;宇宙地理(婆罗多 Bhārata、他方地域、七洲 dvīpa、下界与上界)、行星运行与太阳构成;四时代(yuga)法则与末劫征相;吠陀灾厄、自在生(Svāyambhuva)等诸摩奴(Manu)、大地被“挤乳”之事;毗婆斯瓦特摩奴(Vaivasvata Manu)及王族/仙族谱系(伊克湿瓦库 Ikṣvāku、阿特里系、雅雅提 Yayāti、雅度 Yadu、迦尔塔毗利耶 Kārtavīrya、帕罗修罗摩 Paraśurāma、弗利什尼 Vṛṣṇi、娑伽罗 Sagara),天神与阿修罗之争、黑天(Kṛṣṇa)降世、赞颂与婆利(Bali)世系;并述面向迦梨时代的 Bhaviṣya 内容。继而谈诸 pralaya、时间度量、十四世界(loka)、地狱、意成城(Manomaya)、原质(Prakṛti)消融、关于湿婆派往世书的提示、依三德(guṇa)而定的归趣,以及以 anvaya–vyatireka 指示梵(Brahman)。章末说明往世书传承谱系,听闻/诵读/书写之功德,并立正当布施与教授的伦理规范。
Verse 1
ब्रह्मोवाच । श्रृणु वत्स प्रवक्ष्यामि ब्रह्मांडाख्यं पुरातनम् । यच्च द्वादशसाहस्रमादिकल्पकथायुतम् ॥ १ ॥
梵天说道:听吧,亲爱的孩子;我将宣说那部古老的《梵卵(Brahmāṇḍa)往世书》,共一万二千颂,并具足关于原初劫(宇宙最初大劫)的叙事。
Verse 2
प्रक्रियाख्योऽनुषंगाख्य उपोद्घातस्तृतीयकः । चतुर्थ उपसंहारः पादाश्चत्वार एव हि ॥ २ ॥
第一部分名为“Prakriyā”(次第阐明),第二名为“Anuṣaṅga”(相续连贯),第三为“Upodghāta”(序言开端),第四为“Upasaṃhāra”(结语总摄);确然共有四个pāda(四分/四段)。
Verse 3
पूर्वपादद्वयं पूर्वो भागोऽत्र समुदाहृतः । तृतीयो मध्यमो भागश्चतुर्थस्तूत्तरो मतः ॥ ३ ॥
在此,前两pāda被宣说为前分;第三为中分;第四则被视为后分。
Verse 4
आदौ कृत्यसमुद्देशो नैमिषाख्यानकं ततः । हिरण्यगर्भोत्पत्तिश्च लोककल्पनमेव च ॥ ४ ॥
起初先简要列举应行的仪轨与职责;继而叙述奈弥沙(Naimiṣa)之事;随后讲到金胎(Hiraṇyagarbha)的诞生,并说及诸世界的建立与安排。
Verse 5
एष वै प्रथमः पादो द्वितीयं श्रृणु मानद । कल्पमन्वन्तराख्यानं लोकज्ञानं ततः परम् ॥ ५ ॥
“此即第一分;现在听第二分吧,尊贵者。在其中有诸劫(kalpa)与诸摩奴期(manvantara)的叙事,继而还有关于诸世界的更高知见。”
Verse 6
मानसीसृष्टिकथनं रुद्रप्रसववर्णनम् । महादेवविभूतिश्च ऋषिसर्गस्ततः परम् ॥ ६ ॥
经中叙述由心意所生的创造,描绘鲁陀罗的诞生,宣说大天(摩诃提婆)的神圣威德与显现(vibhūti),继而讲述诸仙圣(ṛṣi)的化生。
Verse 7
अग्नीनां विजयश्चाथ कालसद्भाववर्णनम् । प्रियव्रतान्वयोद्देशः पृथिव्यायामविस्तरः ॥ ७ ॥
随后将叙述诸火神(阿耆尼)的胜利,阐明时间(迦罗)的真实本性,略述普利耶弗罗多的世系,并广说大地的尺度与辽阔。
Verse 8
वर्णनं भारतस्यास्य ततोऽन्येषां निरूपणम् । जम्ब्वादिसप्तद्वीपाख्या ततोऽधोलोकवर्णनम् ॥ ८ ॥
将先描述此婆罗多(Bhārata),继而说明其他诸地域;再叙以阎浮提(Jambūdvīpa)为首的七大洲(七岛洲);随后讲述下界诸世界。
Verse 9
उर्द्ध्वलोकानुकथनं ग्रहचारस्ततः परम् । आदित्यव्यूहकथनं देवग्रहानुकीर्तनम् ॥ ९ ॥
随后叙述上界诸世界,继而说明诸行星的运行;再后阐释太阳(阿底提耶)的宇宙阵列(Āditya-vyūha),并列举诸神圣行星。
Verse 10
नीलकंठाह्वयाख्यानं महादेवस्य वैभवम् । अमावास्यानुकथनं युगतत्त्वनिरूपणम् ॥ १० ॥
其中包含名为“尼罗迦ṇṭha(青颈)”的故事,赞颂大天(摩诃提婆)的荣耀,叙述阿摩婆娑(新月日/无月夜),并阐明诸劫(yuga,世界时代)的真实原理。
Verse 11
यज्ञप्रवर्तनं चाथ युगयोरंत्ययोः कृतिः । युगप्रजालक्षणं च ऋषिप्रवरवर्णनम् ॥ ११ ॥
经中亦宣说祭祀之法(yajña)的建立、诸劫(yuga)将尽之际所现诸事、各时代众生之相,以及最上圣仙族系(ṛṣi-pravara)的叙述。
Verse 12
वेदानां व्यसनाख्यानं स्वायम्भुवनिरूपणम् । शेषमन्वंतराख्यानं पृथिवीदोहनं ततः ॥ १२ ॥
经中叙述吠陀所遭之厄难,阐明自生者(Svāyambhuva)摩奴之时代,继而讲述其余诸摩奴劫(Manvantara),随后描绘“大地被汲乳”之事。
Verse 13
चाक्षुषेऽद्यतने सर्गे द्वितीयोऽङ्घ्रिः पुरोदले । अथोपोद्घातपादे तु सप्तर्षिपरिकीर्तनम् ॥ १३ ॥
于现今恰克舒沙摩奴劫(Cākṣuṣa Manvantara)的创造(sarga)中,第二分章先在开端铺陈;继而在引言之足(upodghāta-pāda)中,称述七圣仙(Saptarṣis)。
Verse 14
प्रजापत्यन्वयस्तस्माद्देवादीनां समुद्भवः । ततो जयाभिलाषश्च मरुदुत्पत्तिकीर्तनम् ॥ १४ ॥
由此叙述般若波提(Prajāpati)之系谱,以及诸天与众类众生之起源;继而谈及求胜之愿,并称说风神众(Maruts)的诞生。
Verse 15
काश्यपेयानुकथनं ऋषिवंशनिरूपणम् । पितृकल्पानुकथनं श्राद्धकल्पस्ततः परम् ॥ १५ ॥
继而叙述迦叶波(Kaśyapa)之后裔,阐明诸圣仙(ṛṣi)之族系,讲解奉献于祖灵(Pitṛs)的仪轨,并进一步说明施行施罗陀(Śrāddha)之法。
Verse 16
वैवस्वतसमुत्पत्तिः सृष्टिस्तस्य ततः परम् । मनुपुत्रान्वयश्चांतो गान्धर्वस्य निरूपणम् ॥ १६ ॥
此处阐明:毗婆斯瓦塔·摩奴(Vaivasvata Manu)的起源;继而叙述其后之创造;摩奴诸子之世系直至终结;并对乾闼婆(Gandharva)传统作出开示。
Verse 17
इक्ष्वाकुवंशकथनं वंशोऽत्रेः सुमहात्मनः । अमावसोरन्वयश्च रजेश्चरितमद्भुतम् ॥ १७ ॥
此处叙述:伊克什瓦库(Ikṣvāku)之族系;大心圣者阿特里(Atri)之显赫世系;阿摩婆苏(Amāvāsu)之谱系;以及罗阇耶什(Rajeś)王奇妙非凡的事迹。
Verse 18
ययातिचरितं चाथ यदुवंशनिरूपणम् । कार्तवीर्यस्य चरितं जामदग्न्यं ततः परम् ॥ १८ ॥
继而叙述耶耶提(Yayāti)之事;随后阐明夜度(Yadu)王族之系;其后讲述迦尔塔毗利耶(Kārtavīrya)的一生;再后则是阇摩达格尼之子(Jāmadagnya,即帕罗修罗摩 Paraśurāma)的传记。
Verse 19
वृष्णिवंशानुकथनं सगरस्याथ संभवः । भार्गवस्यानुचरितं पितृकार्यवधाश्रयम् ॥ १९ ॥
其中包含对弗利什尼(Vr̥ṣṇi)族系的叙述;继而是萨伽罗(Sagara)的诞生;随后讲述婆尔伽瓦(Bhārgava)的事迹——以为成就父命之责而行诛戮为主旨。
Verse 20
सगरस्याथ चरितं भार्गवस्य कथा पुनः । देवासुराहवकथा कृष्णाविर्भाववर्णनम् ॥ २० ॥
随后是萨伽罗(Sagara)的事迹;再一次讲述婆尔伽瓦(Bhārgava)的故事;天神与阿修罗之间的战斗传说;以及对黑天(Kṛṣṇa)显现(化身,avatāra)的描绘。
Verse 21
इंद्रस्य तु स्तवः पुण्यः शुक्रेण परिकीर्तितः । विष्णुमाहात्म्यकथनं बलिवंशनिरूपणम् ॥ २१ ॥
随后,舒克罗(Śukra)诵述赞颂因陀罗的清净圣赞;并讲述毗湿奴的伟大荣耀,以及巴利的族系传承。
Verse 22
भविष्यराजचरितं संप्राप्तेऽथ कलौ युगे । समुपोद्धातपादोऽयं तृतीयो मध्यमे दले ॥ २२ ॥
如今,当迦利纪元(Kali Yuga)来临之时,此段即为未来王(Bhaviṣya)之行传。这是第三分部,为引言之章,安置于中段之中。
Verse 23
चतुर्थमुपसंहारं वक्ष्ये खण्डे तथोत्तरे । वैवस्वतांतराख्यानं विस्तरेण यथातथाम् ॥ २३ ॥
随后,在后续的分卷(khaṇḍa)中,我将宣说第四个结语总摄;并将依其分寸、详尽叙述毗婆斯瓦特摩奴期(Vaivasvata Manvantara)的事迹。
Verse 24
पूर्वमेव समुद्दिष्टं संक्षेपादिह कथ्यते । भविष्याणां मनूनां च चरितं हि ततः परम् ॥ २४ ॥
先前已略作指示之事,如今在此简要陈说;其后,确将续述未来诸摩奴(Manu)的行传。
Verse 25
कल्पप्रलयनिर्देशः कालमानं ततः परम् । लोकाश्चतुर्द्दश ततः कथिताः प्राप्तलक्षणैः ॥ २५ ॥
其后,阐明诸劫(kalpa)与诸坏灭(pralaya);再后,详说时间之全量尺度。随后,十四世界(lokas)亦被描述,并具足其各自的界相特征。
Verse 26
वर्णनं नरकाणां च विकर्माचरणैस्ततः । मनोमयपुराख्यानं लयः प्राकृतिकस्ततः ॥ २६ ॥
随后叙述诸地狱,以及行作禁行之业(vikarma);继而讲述“意成之城”摩诺摩耶(Manomaya)的传说;再继而说明依原质普拉克里蒂(Prakṛti)而起的归融与解体(laya)。
Verse 27
शैवस्याथ पुरस्यापि वर्णनं च ततः परम् । त्रिविधा गुणसंबंधाज्जंतूनां कीर्तिता गतिः ॥ २७ ॥
其后亦叙述《湿婆派往世书》(Śaiva Purāṇa)的内容;再后说明众生因与三德(guṇa)相应而得的三种归趣与去处。
Verse 28
अनिर्देश्याप्रतर्क्यस्य ब्रह्मणः परमात्मनः । अन्वयव्यतिरेकाभ्यां वर्णनं हि ततः परम् ॥ २८ ॥
至于那不可言说、不可推度的至上我——梵(Brahman,Paramātman),其后所示的至上表述之道,是以“随同与排除”之法,即 anvaya 与 vyatireka 来说明祂。
Verse 29
इत्येष उपसंहारपादो वृत्तः सहोत्तरः । चतुष्पादं पुराणं ते ब्रह्माण्डं समुदाहृतकम् ॥ २९ ॥
如是,结尾之分(pāda)连同其后续部分已被叙述。由此,名为《梵卵往世书》(Brahmāṇḍa Purāṇa)的经典被宣说于汝:全书具四分。
Verse 30
अष्टादशमनौपम्यं सारात्सारतरं द्विज । ब्रह्मांडं यच्चतुर्लक्षं पुराणं येन पठ्यते ॥ ३० ॥
噢,二生者(dvija)啊,在十八部往世书中,《梵卵往世书》(Brahmāṇḍa Purāṇa)无与伦比——精髓之上更为精髓;此书被传诵为具四十万(四 lakṣa)偈颂。
Verse 31
तदेतदस्य गदितमत्राष्टादशधा पृथक् । पाराशर्येण मुनिना सर्वेषामपि मानद ॥ ३१ ॥
因此,在此处,这一教诲已由圣贤帕罗沙利耶(毗耶娑)为一切众生之利益,分为十八门而分别宣说,噢,赐荣者。
Verse 32
वस्तुतस्तूपदेष्ट्राथ मुनीनां भावितात्मनाम् । मत्तः श्रुत्वा पुराणानि लोकेभ्यः प्रचकाशिरे ॥ ३२ ॥
诚然,我成了那些自性已被修炼净化之圣贤的导师;他们从我处听闻诸《普拉那》之后,便使其在诸世界中广为流传。
Verse 33
मुनयो धर्मशीलास्ते दीनानुग्रहकारिणः । मयाचेदं पुराणं तु वसिष्टाय पुरोदितम् ॥ ३३ ॥
那些圣贤安住于法(Dharma),并怜悯困苦之人。的确,这部《普拉那》昔日曾由我向瓦西什塔宣说。
Verse 34
तेन शक्तिसुतायोक्तं जातूकर्ण्याय तेन च । व्यासो लब्ध्वा ततश्चैतत्प्रभंजनमुखोद्गतम् ॥ ३४ ॥
由他,此法传授给商提(Śakti)之子;又由那位再传给阇度迦尔尼耶(Jātūkarṇya)。其后,毗耶娑得此教诲——这从普拉梵伽那(Prabhañjana)之口流出的《普拉那》圣传。
Verse 35
प्रमाणीकृत्य लोकेऽस्मिन्प्रावर्तयदनुत्तमम् । य इदं कीर्तयेद्वत्स श्रृणोति च समाहितः ॥ ३५ ॥
他在此世间确立其为权威正典,遂令这无上教法流行开来。噢,爱子,凡诵持此文,或以摄心专注而听闻者,皆得其神圣功德之果。
Verse 36
स विधूयेह पापानि याति लोकमनामयम् । लिखित्वैतत्पुराणं तु स्वर्णसिंहासनस्थितम् ॥ ३६ ॥
他在此世便能抖落诸罪,前往无病无恼之界;又因誊写此《往世书》,得坐于黄金宝座之位。
Verse 37
वस्त्रेणाच्छादितं यस्तु ब्राह्मणाय प्रयच्छति । स यादि ब्रह्मणो लोकं नात्र कार्या विचारणा ॥ ३७ ॥
凡以衣物覆裹之物施与婆罗门者,必往梵天之界;对此无需再作思量。
Verse 38
मरीचेऽष्टादशैतानि मया प्रोक्तानि यानि ते । पुराणानि तु संक्षेपाच्छ्रोतव्यानि च विस्तरात् ॥ ३८ ॥
噢,摩利支啊,我已向你宣说的这十八部《往世书》,当以略说亦以广说而聆听。
Verse 39
अष्टादश पुराणानि यः श्रृणोति नरोत्तमः । कथयेद्वा विधानेन नेह भूयः स जायते ॥ ३९ ॥
凡人中最胜者,若聆听十八部《往世书》,或依正法仪轨如理宣讲,便不再于此世复生。
Verse 40
सूत्रमेतत्पुराणानां यन्मयोक्तं तवाधुना । तन्नित्यं शीलनीयं हि पुराणफलमिच्छता ॥ ४० ॥
此即我今对你所说诸《往世书》之纲要偈句。诚然,欲求《往世书》之果报者,当恒常奉行之。
Verse 41
न दांभिकाय पापाय देवगुर्वनुसूयवे । देयं कदापि साधूनां द्वेषिणे न शठाय च ॥ ४१ ॥
切莫将神圣的布施或教诲给予伪善者、罪人,或敌视诸天与自身上师者;也不可给予憎恨圣贤之人,或狡诈欺诳者。
Verse 42
शांताय शमचित्ताय शुश्रूषाभिरताय च । निर्मत्सराय शुचये देयं सद्वैष्णवाय च ॥ ४२ ॥
应当布施给安宁者、心意调伏者、乐于侍奉者、无嫉妒者、清净者;尤其应当布施给真正的毗湿奴信徒(Vaiṣṇava)。
Verse 43
इति श्रीबृहन्नारदीयपुराणे पूर्वभागे बृहदुपाख्याने चतुर्थपादे ब्रह्माण्डपुराणानुक्रमणीनिरूपणं नाम नवोत्तरशततमोऽध्यायः ॥ १०९ ॥
至此,在神圣的《大那罗陀往世书》(Bṛhannāradīya Purāṇa)前分(Pūrva-bhāga)之“大叙事”(Bṛhad-upākhyāna)第四段(Caturtha-pāda)中,题为“梵卵往世书目录(Anukramaṇī)之说明”的第一百零九章圆满结束。
It functions as a canonical navigation scheme: Prakriyā and Anuṣaṅga establish foundational creation-and-time doctrines, Upodghāta frames the narrative-historical materials (Manus, dynasties, yugas), and Upasaṃhāra consolidates eschatology, pralayas, and philosophical closure.
Anvaya–vyatireka (concomitance and exclusion) is a classical interpretive method used to indicate Brahman by identifying what consistently accompanies the Real and what is negated as non-essential; its presence signals that Purāṇic cosmology culminates in discriminative metaphysics, not mere mythology.
By cataloguing an entire Purāṇa’s modules—ritual duties, cosmology, yuga theory, lineages, sectarian narratives, and liberation-oriented doctrine—it models encyclopedic indexing (anukramaṇikā), a hallmark feature of the Naradīya’s broader project of summarizing and systematizing Purāṇic knowledge.