
महिषासुरसैन्यवधः (Mahiṣāsurasainyavadhaḥ)
Narayani Stuti
女神旃提迦(Caṇḍikā)率诸天以神力与圣兵摧灭摩醯沙苏罗的军队。激战之后,摩醯沙苏罗屡次变形顽抗,终被女神降伏并诛灭,邪恶由此止息,正法(Dharma)得以重建。
Verse 1
इति श्रीमार्कण्डेयमहापुराणे सावर्णिके मन्वन्तरे देवीमाहात्म्ये महिषासुरसैन्यवधो नाम द्व्यशीतितमोऽध्यायः । ऋषिरुवाच— निहन्यमानं तत्सैन्यमवलोक्य महासुरः । सेनानीश्चिक्षुरः कोपाद्ययौ योद्धुमथाम्बिकाम् ॥
如是,在《圣摩尔甘德耶大往世书》中,于萨瓦尔尼·摩奴万塔罗之段、《女神功德颂》(Devī Māhātmya)里,名为“诛灭摩醯沙阿修罗之军”(第八十二章)的一章至此结束。仙人说道:见自己的军队被屠戮,那大阿修罗——其统帅吉克舒罗(Cikṣura)——怒而出阵,欲与安比迦(Ambikā)交战。
Verse 2
स देवीं शरवर्षेण ववर्ष समरेऽसुरः । यथा मेरुगिरेः शृङ्गं तोयवर्षेण तोयदः ॥
战斗中,那阿修罗以箭如雨倾泻于女神——犹如雨云将甘霖倾注在须弥山之巅。
Verse 3
तस्य छित्त्वा ततो देवी लीलयैव शरोत्करान् । जघान तुरगान् बाणैर्यन्तारं चैव वाजिनाम् ॥
随后,女神仿佛仅以游戏之态便斩断了他成排的箭雨;又以神箭射倒群马,并射杀驾驭战车之御者。
Verse 4
चिच्छेद च धनुः सद्यो ध्वजं चातिसमुच्छ्रितम् । विव्याध चैव गात्रेषु छिन्नधन्वानमाशुगैः ॥
她立刻斩断了他的弓,也斩落了高举的战旗;继而以迅疾之箭贯穿其肢体——那弓已被截断之敌。
Verse 5
स छिन्नधन्वा विरथो हताश्वो हतसारथिः । अभ्यधावत तां देवीं खड्गचर्मधरोऽसुरः ॥
其弓已碎,战车已毁,战马被杀,御者亦亡;那阿修罗执剑持盾,径直冲向女神。
Verse 6
सिंहमाहत्य खड्गेन तीक्ष्णधारेण मूर्धनि । आजघान भुजे सव्ये देवीमप्यतिवेगवान् ॥
那极其迅捷者以锋利之剑斩击狮首,又击中女神的左臂。
Verse 7
तस्याः खड्गो भुजं प्राप्य पफाल नृपनन्दन । ततो जग्राह शूलं स कोपादरुणलोचनः ॥
噢,诸王之欢悦者,她的剑触及其臂,便将之劈裂。随即他怒目赤红,抓起三叉戟。
Verse 8
चिक्षेप च ततस्तत्तु भद्रकाल्यां महासुरः । जाज्वल्यमानं तेजोभी रविबिम्बमिवाम्बरात् ॥
随后那大阿修罗将其掷向光辉炽盛的婆陀罗迦梨,宛如太阳之轮自天坠落。
Verse 9
दृष्ट्वा तदापतच्छूलं देवी शूलममुंचत । तच्छूलं शतधा तेन नीतं स च महासुरः ॥
女神见那三叉戟疾冲而来,便放出自己的三叉戟;由此,那三叉戟被击碎为百段——那大阿修罗亦同被诛倒。
Verse 10
हते तस्मिन्महावीर्ये महिषस्य चमूपतौ । आजगाम गजारूढश्चामरस्त्रिदशार्दनः ॥
当那位强大的英雄、摩醯沙军的统帅被诛杀后,遮摩罗——摧碎诸天者——骑着大象前来。
Verse 11
सोऽपि शक्तिं मुमोचाथ देव्यास्तामम्बिका द्रुतम् । हुङ्काराभिहतां भूमौ पातयामास निष्प्रभाम् ॥
他也向女神掷出一柄标枪(śakti);但安毗迦以迅疾的吽迦罗(huṃkāra)将其击落,抛在地上,光辉尽失。
Verse 12
भग्नां शक्तिं निपतितां दृष्ट्वा क्रोधसमन्वितः । चिक्षेप चामरः शूलं बाणैस्तदपि साच्छिनत् ॥
见自己的标枪折断坠地,遮摩罗怒火中烧,掷出三叉戟;那也被她以箭矢斩裂。
Verse 13
ततः सिंहः समुत्पत्य गजकुम्भान्तरे स्थितः । बाहुयुद्धेन युयुधे तेनोच्चैस्त्रिदशारिणा ॥
随后狮子跃起,立于大象两鬓之间,与他——遮摩罗,这位高傲的诸天之敌——展开近身搏斗。
Verse 14
युधायमानौ ततस्तौ तु तस्मान्नागान्महीं गतौ । युयुधातेऽतिसंरब्धौ प्रहारैरतिदारुणैः ॥
他们交战之际,二者遂自那象背落至地面,以极端的狂怒互相搏击,拳脚之势甚为可怖。
Verse 15
ततो वेगात्खमुत्पत्य निपत्य च मृगारिणा । करप्रहारेण शिरश्चामरस्य पृथक्कृतम् ॥
随后,鹿之宿敌(狮子)迅疾腾空而起,俯冲而下,以爪猛击,斩落迦摩罗(Cāmara)之首。
Verse 16
उदग्रश्च रणे देव्याः शिलावृक्षादिभिर्हतः । दन्तमुष्टितलैश्चैव करालश्च निपातितः ॥
又有乌达格罗(Udagra)在战场上被女神之军以巨石、树木等物击杀;迦罗罗(Karāla)亦被牙齿、拳头与掌击所击倒。
Verse 17
देवी क्रुद्धा गदापातैश्चूर्णयामास चोद्धतम् । वाष्कलं भिन्दिपालेन बाणैस्ताम्रं तथान्धकम् ॥
女神震怒,以钉锤之击碾碎那狂妄者;又以 bhindipāla(标枪)劈裂婆湿迦罗(Vāṣkala),并以箭矢射倒昙罗(Tāmra)与安陀迦(Andhaka)。
Verse 18
उग्रास्यमुग्रवीर्यञ्च तथैव च महाहनुम् । त्रिनेत्रा च त्रिशूलेन जघान परमेश्वरी ॥
三目至上女主(Parameśvarī)以其三叉戟诛杀乌格罗娑耶(Ugrāsya)、乌格罗毗梨耶(Ugravīrya)与摩诃诃奴(Mahāhanu)。
Verse 19
बिडालस्यासिना कायात् पातयामास वै शिरः । दुर्धरं दुर्मुखं चोभौ शरैर्निन्ये यमक्षयम् । कालं च कालदण्डेन कालरात्रिरपातयत् ॥
她以剑将毗陀罗(Biḍāla)之首自其身躯斩下;又以箭矢将杜尔陀罗(Durdhara)与杜尔目迦(Durmukha)送往阎摩之所。并且,迦罗(Kāla)亦被迦罗罗夜(Kālarātri)以“时间之杖”击倒。
Verse 20
अग्रदर्शनमत्युग्रैः खड्गपातैरताडयत् । असिनैवासिलोमानमच्छिदत् सा रणोत्सवे । गणैः सिंहॆन देव्याः च जयक्ष्वेडाकृतोत्सवैः ॥
她以极其凶猛的剑击斩倒阿格拉达尔沙那,又在这场战斗的盛会中以剑斩落阿西洛摩——其时,女神的众伽那与她的狮子齐声高呼胜利,欢庆不已。
Verse 21
एवं संक्षीयमाणे तु स्वसैन्ये महिषासुरः । माहिषेण स्वरूपेण त्रासयामास तान् गणान् ॥
当他的军队如此被歼灭之时,摩醯沙阿修罗化作水牛之形,开始恐吓那些伽那众。
Verse 22
कांश्चित्तुण्डप्रिहारेण खुरक्षेपैस्तथापरान् । लाङ्गूलताडितांश्चान्यान् शृङ्गाभ्याञ्च विदारितान् ॥
有的被他以口鼻猛击;有的被他以蹄踢飞;有的被他以尾鞭击;还有的被他以双角撕裂。
Verse 23
वेगेन कांश्चिदपरान् नादेन भ्रमणेन च । निश्वासपवनेनान्यान् पातयामास भूतले ॥
还有一些被他凭借疾速本身撞倒;一些被他以咆哮与旋转之势震倒;另一些则被他呼吸所生之风吹落在地。
Verse 24
निपात्य प्रमथानीकमभ्यधावत सोऽसुरः । सिंहं हन्तुं महादेव्याः कोपं चक्रे ततोऽम्बिका ॥
他击倒了普罗摩他众的军阵之后,那魔便冲上前去欲杀大女神之狮;于是安毗迦勃然震怒。
Verse 25
सोऽपि कोपान्महावीऱ्यः खुरक्षुण्णमहीतलः । शृङ्गाभ्यां पर्वतानुच्चैश्चिक्षेप च ननाद च ॥
他亦勇力无比、怒火炽盛,以蹄搅动大地;又以双角掀抛巍峨群山直上虚空,并发出震天咆哮。
Verse 26
वेगभ्रमणविक्षुण्णा मही तस्य व्यशीर्यत । लाङ्गूलेनाहतश्चाब्धिः प्लावयामास सर्वतः ॥
因他迅疾的旋转奔突,大地被震裂粉碎;而海洋被其尾击中,波涛暴起,漫溢四方。
Verse 27
धुतशृङ्गविभिन्नाश्च खण्डं खण्डं ययुर्घनाः । श्वासानिलास्ताः शतशो निपेतुर्नभसोऽचलाः ॥
又有云团因其双角的震荡而碎裂成片;被他呼吸之风所驱,数百座山岳自天际坠落。
Verse 28
इति क्रोधसमाध्मातमापतान्तं महासुरम् । दृष्ट्वा सा चण्डिका कोपं तद्वधाय तदाकरोत् ॥
见那大阿修罗怒胀如狂、疾冲而来,旃提迦(Caṇḍikā)遂现忿怒之相,以求诛灭之。
Verse 29
सा क्षिप्त्वा तस्य वै पाशं तं बबन्ध महासुरम् । तत्याज माहिषं रूपं सोऽपि बद्धो महामृधे ॥
她将索套掷向他,缚住那大阿修罗。虽在大战中被缚,他仍舍弃其水牛之形。
Verse 30
ततः सिंहोऽभवत् सद्यो यावत्तस्याम्बिका शिरः । छिनत्ति तावत्पुरुषः खड्गपाणिरदृश्यत ॥
他立刻化作狮子;正当安比迦(Ambikā)将要斩下他的头时,一名男子手执利剑忽然现身。
Verse 31
तत एवाशु पुरुषं देवी चिच्छेद सायकैः । तं खड्गचर्मणा सार्धं ततः सोऽभून्महागजः ॥
就在那时,女神以箭矢迅疾射倒那人——连同他的剑与盾一并击落;随即他又化为一头巨象。
Verse 32
करेण च महासींहं तं चकर्ष जगर्ज च । कर्षतस्तु करं देवी खड्गेन निरकृन्तत ॥
他用象鼻拖拽那头巨狮并发出咆哮;但在拖拽之际,女神以利剑斩断了他的象鼻。
Verse 33
ततो महासुरो भूयो माहिषं वपुरास्थितः । तथैव क्षोभयामास त्रैलोक्यं सचराचरम् ॥
随后,那大阿修罗又再度取了水牛之身;于是他继续震撼三界,连同一切动者与不动者。
Verse 34
ततः क्रुद्धा जगन्माता चण्डिका पानमुत्तमम् । पपौ पुनः पुनश्चैव जहासारुणलोचना ॥
于是,世界之母旃提迦(Caṇḍikā)忿怒起来,一再饮下最上妙的甘露之饮;她放声大笑,双目赤红。
Verse 35
ननर्द चासुरः सोऽपि बलवीर्यमदोद्धतः । विषाणाभ्यां चिक्षेप चण्डिकां प्रति भूधरान् ॥
那阿修罗也高声咆哮,沉醉于自身的力量与勇武,并以双角将群山掷向旃提迦(Caṇḍikā)。
Verse 36
सा च तान् प्रहितांस्तेन चूर्णयन्ती शरोत्करैः । उवाच तं मदोद्धूतमुखरागाकुलाक्षरम् ॥
而女神以连绵箭雨将他掷来的群山击成尘粉,遂对他说话——那人因醉而喧嚣,言辞紊乱。
Verse 37
देव्युवाच गरज गरज क्षणं मूढ मधु यावत्पिबाम्यहम् । मया त्वयि हतेऽत्रैव गर्जिष्यन्त्याशु देवताः ॥
女神说道:“吼吧,吼吧,愚者,且再吼片刻——直到我饮下这蜜。待你在此被我诛灭,诸天不久便将欢呼咆哮(以示凯旋)。”
Verse 38
ऋषिरुवाच एवमुक्त्वा समुत्पत्य सारूढा तं महासुरम् । पादेनाक्रम्य कण्ठे च शूलेनैनमताडयत् ॥
仙者说道:她如此说罢,便纵身跃起,跨乘在那大阿修罗之上,以足踏压,使其伏地,并以长矛刺击其颈。
Verse 39
ततः सोऽपि पदाक्रान्तस्तया निजमुखात्ततः । अर्धनिष्क्रान्त एवासीद् देव्याः वीर्येण संवृतः ॥
随后,虽被她的足踏所压制,他仍开始从自己的口中挣出;然而只挣出一半,便被女神之威力所遏止、所拘束。
Verse 40
अर्धनिष्क्रान्त एवासौ युध्यमानो महासुरः । तया महासिना देव्याः शिरश्छित्त्वा निपातितः ॥
当那大阿修罗仍只半身显现、仍在奋战之时,女神以其大剑斩落其首,使之倒毙。
Verse 41
एवं स महिषो नाम ससैन्यः ससुहृद्गणः । त्रैलोक्यं मोहयित्वा तु तया देव्याः विनाशितः ॥
于是,那名为摩醯沙者被女神歼灭——连同其军队与一切盟党——在迷惑三界之后尽皆覆亡。
Verse 42
त्रैलोक्यस्थैस्तदा भूतैर्महिषे विनिपातिते । जयेत्युक्तं ततः सर्वैः सदेवासुरमानवैः ॥
随后,摩醯沙既已倒下,三界一切众生齐声宣告“胜利!”——包括诸天、阿修罗与人类。
Verse 43
ततो हाहाकृतं सर्वं दैत्यसैन्यं ननाश तत् । प्रहर्षं च परं जग्मुः सकला देवतागणाः ॥
于是,代提耶全军哀号“呜呼!”而溃散灭亡;而诸神的所有众会则得至无上的欢喜。
Verse 44
तुष्टुवुस्तां सुरा देवीṃ सह दिव्यैर्महर्षिभिः । जगुर्गन्धर्वपतयो ननृतुश्चाप्सरोगणाः ॥
诸神与天界大圣仙一同赞颂那位女神;乾闼婆之主歌咏颂赞,阿普萨拉斯众则翩然起舞。
The chapter frames dharma as cosmic stability and adharma as violent, shape-shifting disruption: Mahiṣāsura’s protean forms symbolize evasive, escalating disorder, while the Devī’s measured yet absolute force represents sovereign restoration of moral and cosmological balance.
As part of the Devīmāhātmya embedded in the Sāvarṇika Manvantara setting, this Adhyāya anchors Manvantara history in shaktic intervention: the Devī’s victory functions as a paradigmatic event ensuring the continuity of divine governance across the three worlds within that Manvantara frame.
It delivers the climactic iconography and theology of the Mahiṣāsuramardinī episode: Caṇḍikā binds the asura with a pāśa, pins him underfoot, pierces him with the śūla, and beheads him—followed by universal acclamation and praise—establishing the Devī as the decisive salvific power over cosmic crisis.