
सूर्यस्तुति-तेजोविभाग-विवस्वत्सन्तानवर्णन (Sūryastuti–Tejovibhāga–Vivasvat-santāna-varṇana)
Dhumralochana
本章以圣颂赞礼太阳神苏利耶(Surya),彰显其光辉(tejas)与护世之德。经文叙述太阳将光明与热力分施于诸天与诸界众生,使法(dharma)得以维系、万物得以滋养。随后记述毗婆斯瓦特(Vaivasvata)之系谱,并详述由影身恰雅(Chaya)所生的支系后裔,承续其族统与职责。
Verse 1
इति श्रीमार्कण्डेयपुराणे वैवस्वतमन्वन्तरे साप्तसप्ततितमोऽध्यायः । अष्टसप्ततितमोऽध्यायः— ७८ मार्कण्डेय उवाच । ततस्तं तुष्टुवुर्देवास्तथा देवर्षयो रविम् । वाग्भिरोड्यमशेषस्य त्रैलोक्यस्य समागताः ॥
至此,《圣摩尔迦ṇḍeya往世书》于毗婆斯伐多摩奴时期之第七十七章告终。第七十八章开始。摩尔迦ṇḍeya曰:其时,诸天与诸天仙同来,自遍满三界之处会集,奉以言辞之供养(赞颂圣颂),赞礼罗毗(太阳)。
Verse 2
देवा ऊचुः नमस्ते ऋक्स्वरूपाय सामरूपाय ते नमः । यजुः स्वरूपरूपाय साम्नान्धामवते नमः ॥
诸天说道:礼敬于汝,汝即《梨俱吠陀》之形;礼敬于汝,汝即《娑摩吠陀》之形。礼敬于汝,汝即《夜柔吠陀》之形;礼敬于汝,汝为娑摩圣歌之光辉住处。
Verse 3
ज्ञानैकधामभूताय निर्धूततमसे नमः । शुद्धज्योतिः स्वरूपाय विशुद्धायामलात्मने ॥
礼敬于汝:汝已成为知识唯一之所依,尽抖落一切黑暗;礼敬于汝:汝之形体即清净之光——至纯无垢,本质无染。
Verse 4
वरिष्ठाय वरेण्याय परस्मै परमात्मने । नमोऽखिलजगद्व्यापिस्वरूपायात्ममूर्तये ॥
礼敬至上最胜、最堪拣择者;礼敬超越的至上自我。礼敬于汝:汝之自性遍满整个宇宙,汝之身即一切众生之自我。
Verse 5
इदं स्तोत्रवरं रम्यं श्रोतव्यं श्रद्धया नरैः । शिष्यॊ भूत्वा समाधिस्थो दत्त्वा देयं गुरोरपि ॥
此殊胜而悦意之赞颂,应由具信之人聆听。既为弟子,安住于摄心(三摩地),并已向师长奉献应献之物——然后方可受持(并传授)。
Verse 6
न शून्यभूतैः श्रोतव्यमेतत्तु सफलं भवेत् । सर्वकारणभूताय निष्ठायै ज्ञानचेतसाम् ॥
不应让空虚无诚者聆听;如此方能结果。此文旨在坚固心志趋向知识者,并为证悟那作为万有之因的唯一者。
Verse 7
नमः सूर्यस्वरूपाय प्रकाशात्मस्वरूपिणे । भास्कराय नमस्तुभ्यं तथा दिनकृते नमः ॥
礼敬于汝,形为太阳,体性即是光明本身。礼敬于汝为婆斯迦罗(Bhāskara);亦礼敬于汝,成就白昼者。
Verse 8
शर्वरीहेतवे चैव सन्ध्याज्योत्स्नाकृते नमः । त्वं सर्वमेतद् भगवन् जगदुद्भ्रमता त्वया ॥
礼敬于汝,夜之因者;礼敬于汝,令黄昏与月光显现者。噢主宰,此一切皆是汝;由汝之力,宇宙旋转前行,而其运行之道得以维系。
Verse 9
भ्रमत्याविद्धमखिलं ब्रह्माण्डं सचराचरम् । त्वदंशुभिरिदं स्पृष्टं सर्वं सञ्जायते शुचि ॥
整个宇宙之卵——一切动与不动者——在旋转之际皆被推动而运行,并为汝所遍满。凡被汝光线所触者,悉皆清净。
Verse 10
क्रियते त्वत्करैः स्पर्शाज्जलादीनां पवित्रता । होमदानादिको धर्मो नोपकाराय जायते ॥
由汝双手之触,水与诸元素之清净得以成就。祭仪之责,如供献与布施,若离于汝,自身并不成为有益之业。
Verse 11
तावद्यावन्न संयोगि जगदेतत् त्वदंशुभिः । ऋचस्ते सकला ह्येता यजूṃष्येतानि चान्यतः ॥
只要此世未与汝之光线相应(便不得其应有之效)。这一切《梨俱》(Ṛk)颂句实为汝所有;这些《夜柔》(Yajus)祭辞亦复如是。
Verse 12
सकलानि च सामानि निपतन्ति त्वदङ्गतः । ऋङ्मयस्त्वं जगन्नाथ ! त्वमेव च यजुर्मयः ॥
一切《娑摩》圣歌皆从汝自身诸肢体中涌现。噢,世间之主,汝具《梨俱吠陀》之性;唯汝亦具《夜柔吠陀》之性。
Verse 13
यतः साममयश्चैव ततो नाथ ! त्रयीमयः । त्वमेव ब्रह्मणो रूपं परञ्चापरमेव च ॥
既然汝亦具《娑摩》之性,故而,噢主宰,汝即三部吠陀之具身。唯汝为梵(Brahman)之形相——既为至上(超越),亦为非至上(内在)。
Verse 14
मूर्तामूर्तस्तथा सूक्ष्मः स्थूलरूपस्तथा स्थितः । निमेषकाष्ठादिमयः कालरूपः क्षयात्मकः । प्रसीद स्वेच्छया रूपं स्वतेजः शमनं कुरु ॥
汝住于有相与无相,亦住于微细与粗大。汝由自眨眼之刹那(nimeṣa)与迦ṣṭhā等诸时间单位所成;汝即时间本身,其性为消融与坏灭。愿汝垂慈——随汝自愿,示现一相,并平息汝自身的炽光。
Verse 15
मार्कण्डेय उवाच एवṃ संस्तूयमानस्तु देवैर्देवर्षिभिस्तथा । मुमोच स्वं तदा तेजस्तेजसां राशिरव्ययः ॥
马尔坎ḍ耶说道:如是为诸天与神圣仙人所赞颂后,那不坏的光辉之聚遂放出自身的光明。
Verse 16
यत्तस्य ऋङ्मयṃ तेजो भविता तेन मेदिनी । यजुर्मयेनापि दिवं स्वर्गः साममयṃ रवॆः ॥
其光辉中具《梨俱》之性者化为大地;具《夜柔》之性者成就诸天(div);而太阳则成为具《娑摩》之性。
Verse 17
शातितास्तेजसो भागा ये त्वष्ट्रा दश पञ्च च । त्वष्ट्रैव तेन शर्वस्य कृतं शूलं महात्मना ॥
那道光辉的诸分被分割——由工神特瓦什特里(Tvaṣṭṛ)分为十五分。凭此光辉,具大心的特瓦什特里为舍尔瓦(Śarva,即湿婆Śiva)铸成三叉戟(śūla)。
Verse 18
चक्रं विष्णोर्वसूनाञ्च शङ्कवो 'थ सुदारुणाः । पावकस्य तथा शक्तिः शिबिका धनदस्य च ॥
为毗湿奴(Viṣṇu)造轮盘(discus),为诸婆苏(Vasus)造凶猛之矛;同样也为帕瓦卡(Pāvaka,即火神阿耆尼Agni)造矛兵器,并为财主天(Dhanada,即俱毗罗Kubera)造肩舆(palanquin)。
Verse 19
अन्येषामसुरारीणामस्त्राण्युग्राणि यानि वै । यक्षविद्याधराणाञ्च तानि चक्रे स विश्वकृत् ॥
又为阿修罗(Asuras)之敌——诸天神——造作其余凶猛兵器,并为夜叉(Yakṣas)与持明(Vidyādharas)造其兵器;这一切皆由宇宙的造作者所制。
Verse 20
ततश्च षोडशं भागं बिभर्ति भगवान् विभुः । तत्तेजः पञ्चदशधा शातितं विश्वकर्मणा ॥
其后,遍一切处的主宰保留第十六分。那道光辉由毗湿伐羯摩(Viśvakarman)分作十五分。
Verse 21
ततोऽश्व रूपधृग्भानुरुत्तरानगमत्कुरून् । तदृशे तत्र संज्ञाञ्च वडवारूपधारिणीम् ॥
于是婆奴(Bhānu,太阳)化作马形,北行至俱卢(Kuru)之国。在那里,他也见到三阇尼耶(Saṃjñā),正持母马(mare)之形。
Verse 22
सा च दृष्ट्वा तमायान्तं परपुंसो विशङ्कया । जगाम संमुखं तस्य पृष्ठरक्षणतत्परा ॥
她见他走近,疑心他是另一个男子,便上前迎对——心存戒备,以护其背后,自保无虞。
Verse 23
ततश्च नासिकायोगं तयोस्तत्र समेतयोः । नासत्यदस्त्रौ तनयावश्वीवक्त्रविनिर्गतौ ॥
随后二者在彼处相会,便发生由鼻而成的结合;于是二子——那萨提耶(Nāsatya)与达斯拉(Dasra)——诞生,显现为马面之相。
Verse 24
रेतसोऽन्ते च रेवन्तः खड्गी चर्मो तनुत्रधृक् । अश्वारूढः समुद्भूतो बाणतूणसमन्वितः ॥
而在精种放出之终,雷梵塔(Revanta)出现——执剑、持盾、披甲——骑于马背,并备有箭矢与箭囊。
Verse 25
ततः स्वरूपमतुलं दर्शयामास भानुमान् । तस्यैषा च समालोक्य स्वरूपं मुदमाददे ॥
其后,婆奴曼(太阳神)显现其无与伦比的真实形相;她见此真相,心中充满欢喜。
Verse 26
स्वरूपधारिणीं चैमामानिनाय निजाश्रयम् । संज्ञां भार्यां प्रीतिमतीं भास्करो वारितस्करः ॥
而婆斯迦罗(太阳神),制止盗贼者(即驱散黑暗者),将这位三阇尼耶(Saṃjñā)——如今具足自身真实形相——带回其本宫,立为挚爱的妻子。
Verse 27
ततः पूर्वसुतो योऽस्याः सोऽभूद्वैवस्वतो मनुः । द्वितीयश्च यमः शापाद्धर्मदृष्टिरभूत् सुतः ॥
随后,她先出生的儿子成为毗婆斯瓦特·摩奴(Vaivasvata Manu);第二个是阎摩(Yama)。但由于诅咒,(另一个)儿子成了“达摩见者”达摩·德里什提(Dharma-dṛṣṭi)。
Verse 28
कृमयो मांसमादाय पादतोऽस्य महीतले । पतिष्यन्तीति शापान्तं तस्य चक्रे पिता स्वयम् ॥
“虫将从他的脚上啃去血肉,并坠落于地。”——父亲亲自为那诅咒设下了界限与终止。
Verse 29
धर्मदृष्टिर्यतश्चासौ समो मित्रे तथाहिते । ततो नियोगं तं याम्ये चकार तिमिरापहः ॥
又因那达摩·德里什提对友与敌一视同仁、秉持无偏之正,因此驱散黑暗者——太阳神——任命他担任与阎摩相关的职司。
Verse 30
यमुना च नदी जज्ञे कलिन्दान्तरवाहिनी । अश्विनौ देवभिषजौ कृतौ पित्रा महात्मना ॥
又有阎牟那河(Yamunā)诞生,流经/沿着迦林陀(Kalinda)山域而行;而两位阿湿毗尼(Aśvin)则由其大心之父立为诸天的神圣医师。
Verse 31
गुह्यकाधिपतित्वे च रेवन्तोऽपि नियोजितः । च्छायासंज्ञासुतानाञ्च नियोगः श्रूयतां मम ॥
而瑞梵陀(Revanta)亦被任命为古希耶迦众(guhyakas)的主宰。如今,请从我处聆听遮耶(Chāyā)与三阇尼耶(Saṃjñā)诸子之任命(niyoga)。
Verse 32
पूर्वजस्य मनोस्तुल्यश्छायासंज्ञासुतोऽग्रजः । ततः सावर्णिकीं संज्ञामवाप तनयो रवेः ॥
由影身(Chāyā)与三智(Saṃjñā)所生的长子,其心意如同先前的摩奴。故此,日神罗毗(Ravi)之子得名号“萨瓦尔尼”(Sāvarṇi)。
Verse 33
भविष्यति मनुः सोऽपि बलिरिन्द्रो यदा तदा । शनैश्चरो ग्रहाणाञ्च मध्ये पित्रा नियोजितः ॥
他也将成为一位摩奴;届时,婆利(Bali)将为因陀罗。沙奈施遮罗(Śanaiścara,土星)将由其父安置于诸行星之列。
Verse 34
तयोस्तृतीया या कन्या तपती नाम सा कुरुम् । नृपात्संवरणात्पुत्रमवाप मनुजेश्वरम् ॥
二者的第三位女儿名为塔帕蒂(Tapatī),与人中王者三婆罗那(Saṃvaraṇa)生下一子——俱卢(Kuru)。
Verse 35
तस्य वैवस्वतस्याहं मनोः सप्तममन्तरम् । कथयामि सुतान्भूपानृषीन्देवान्सुराधिपम् ॥
如今我将叙述那位毗婆斯伐多摩奴(Vaivasvata Manu)的第七摩奴期(Manvantara):其诸子、诸王、诸仙(ṛṣi)、诸天神,以及天神之主因陀罗(Indra)。
It examines how an overwhelming divine potency (Sūrya’s tejas) can be both transcendent and yet rendered immanent, measurable, and beneficial—purifying ritual action, sustaining the cosmos, and becoming intelligible through Vedic identification (trayīmaya) and controlled distribution.
It anchors the Vaivasvata Manvantara in solar lineage: Vaivasvata Manu is presented as Sūrya’s earlier son, while related figures (Yama/Dharmadṛṣṭi, the Aśvins, Revanta, Śanaiścara, and Tapatī) receive origins and cosmic appointments that support Manvantara governance and dharma-administration.
The chapter links Sūrya with Saṃjñā and Chāyā and enumerates their offspring and roles: Vaivasvata Manu (Manu of the seventh Manvantara), Yama as Dharmadṛṣṭi, the Aśvins as divine physicians, Revanta’s placement in guhyaka leadership, Śanaiścara’s graha-station, and Tapatī’s integration into the Kuru royal line through Saṃvaraṇa.