Adhyaya 61
AvantiUjjainDharma78 Shlokas

Adhyaya 61: The Second Manvantara Begins: The Brahmin’s Swift Journey and Varuthini’s Temptation on Himavat

स्वारोचिषमन्वन्तरारम्भः—हिमवद्गमनं वरूथिन्युपाख्यानम्

Avanti Narrative

本章宣告第二摩奴劫——斯瓦罗奇沙(Svarocisa)摩奴劫的开启。一位婆罗门圣者为守持正法与苦行,迅疾前往喜马瓦特雪山。其间,瓦鲁提尼(Varuthinī)以欲乐与诡计前来诱惑、扰乱其修行。然圣者坚住誓戒与禅定,制伏诸根,彰显清净与自制所生的灵力与威德。

Divine Beings

Agni (Gārhapatya as ritual source)Varuṇa (implied by Varuṇāyāḥ taṭa—riverbank associated with Varuṇa)Varūthinī (apsaras; Mauleyā)

Celestial Realms

Surālaya / Svarga-like Himavat domain (apsaras-gandharva-kinnara ambience)Deva-krīḍā-vihāra spaces on Himavat (divine recreation grounds)

Key Content Points

Manvantara transition cue: Krauṣṭuki requests details beyond the Svāyambhuva Manvantara; Mārkaṇḍeya announces the Svārociṣa Manvantara as the next sequence.Upākhyāna setup: A virtuous Brahmin of Aruṇāspada hosts a learned guest adept in mantra- and herb-based siddhis, exemplifying dharmic hospitality and transmission of power.Siddhi and its loss: The foot-unguent grants extraordinary speed (thousand yojanas in half a day), but dissolves on Himavat, producing vulnerability and narrative tension.Himavat as liminal sacred space: The Brahmin witnesses siddha-gandharva-kinnara realms, apsarases, and sensory abundance, highlighting the allure of celestialized landscapes.Ethical conflict: Varūthinī (apsaras) offers pleasure, immortality-from-aging, and svarga-like residence; the Brahmin prioritizes nitya-naimittika rites and rejects parastrī.Ritual theology and satya: The Brahmin’s prayer to the Gārhapatya fire asserts Agni as the womb/source of rites and cosmic order; truth (satya) is invoked as the operative force for return.

Focus Keywords

Markandeya Purana Adhyaya 61Svārociṣa Manvantara beginningManvantara chronology Markandeya PuranaVaruthini apsara storyHimavat episode Markandeya PuranaGārhapatya Agni satya prayernitya naimittika karma in PuranaPuranic ethics temptation and dharma

Shlokas in Adhyaya 61

Verse 1

कrauष्टुकिरुवाच कथितं भवता सम्यग् यत् पृष्टोऽसि महामुने । भूसमुद्रादिसंस्थानं प्रमाणानि तथा ग्रहाः ॥

克劳什图基说道:大圣者啊,你已如所问而善加阐明——大地、诸海等的布置与其尺度,并且也说明了诸行星。

Verse 2

तेषाञ्चैव प्रमाणञ्च नक्षत्राणाञ्च संस्थितिः । भूरादयस्तथा लोकाः पातालान्यखिलान्यपि ॥

并且也说明了它们的尺度与诸星宿的位置;同样还叙述了自“布胡”(Bhūḥ)起的诸世界,以及一切地下诸界。

Verse 3

स्वायम्भुवं तथा ख्यातं मुने मन्वन्तरं मम । तदन्तराण्यहं श्रोतुमिच्छे मन्वन्तराणि वै । मन्वन्तराधिपान् देवानृषींस्तत्तनयान्नृपान् ॥

噢,圣贤啊,斯瓦扬布瓦(Svāyambhuva)摩奴劫期(Manvantara)已如此为我阐明。我愿依次聆听其余诸摩奴劫期,并连同其主宰诸神、诸仙圣(ṛṣi)、摩奴之子嗣,以及诸王。

Verse 4

मार्कण्डेय उवाच मन्वन्तरं मयाख्यातं तव स्वायम्भुवं च यत् । स्वारोचिषाख्यमन्यत्तु शृणु तस्मादनन्तरम् ॥

摩罗迦ṇḍeya说道:我已向你讲述的斯瓦扬布瓦摩奴劫期,至此已叙毕。现在请听其后另一劫期,名为斯瓦罗奇沙(Svārociṣa)。

Verse 5

कश्चिद् द्विजातिप्रवरः पुरेऽभूदरुणास्पदे । वरुणायास्तटे विप्रो रूपेणात्यश्विनावपि ॥

在一座名为阿鲁那斯帕达(Aruṇāspada)的城中,住着一位卓越的二次生者(婆罗门)。在伐鲁那河(Varuṇā)岸边,那婆罗门容貌极其俊美,姿容如同阿湿毗尼双神(Aśvin)。

Verse 6

मृदुस्वभावः सद्वृत्तो वेदवेदाङ्गपारगः । सदातिथिप्रियो रात्रावागतानां समाश्रयः ॥

他性情温和,行止端正,通晓吠陀及其诸辅学。常怀敬客之心,凡有来者,即便夜间到访,也必施以庇护与栖止。

Verse 7

तस्य बुद्धिरियं त्वासीदहं पश्ये वसुन्धराम् । अतिरम्यवनोद्यानां नानानगरशोभिताम् ॥

他心中生起此念:“愿我得见大地——以极其悦意的林苑与园圃为饰,又因众多城邑而更显庄严秀美。”

Verse 8

अथागतोऽतिथिः कश्चित् कदाचित्तस्य वेश्मनि । नानौषधिप्रभावज्ञो मन्त्रविद्याविशारदः ॥

某时,有一位宾客来到他家——此人通晓诸多药草的功效,并精于真言(mantra)之学。

Verse 9

अभ्यर्थितस्तु तेनासौ श्रद्धापूतेन चेतसा । तस्याचख्यौ स देशांश्च रम्याणि नगराणि च ॥

应他以信心净化之心的请求,那人便讲述了诸多地域,并且还有令人欣悦的城邑。

Verse 10

वनानि नद्यः शैलांश्च पुण्याण्यायतनानि च । स ततो विस्मयाविष्टः प्राह तं द्विजसत्तमम् ॥

他描绘了森林、河流、群山,以及诸般神圣的圣所。随后,听者满怀惊异,对那位卓越的婆罗门开口说道。

Verse 11

अनेकदेशदर्शित्वेनातिश्रमसमान्वितः । त्वं नातिवृद्धो वयसा नातिवृत्तश्च यौवनात् । कथम् अल्पेन कालेन पृथिवीमटसि द्विज ॥

你展示了许多国土,似乎负担着巨大的劳苦;然而你既不甚老,也未过青春。婆罗门啊,你如何在如此短的时间里周游大地?

Verse 12

ब्राह्मण उवाच मन्त्रौषधिप्रभावेण विप्राप्रतिहता गतिः । योजनानां सहस्रं हि दिनार्धेन व्रजाम्यहम् ॥

婆罗门说道:凭借真言与药草之力,我的行止无所阻碍。确然,我半日之间可行一千由旬(yojana)。

Verse 13

मार्कण्डेय उवाच ततः स विप्रस्तं भूयः प्रत्युवाचेदमादरात् । श्रद्धधानो वचस्तस्य ब्राह्मणस्य विपश्चितः ॥

马尔坎德耶说:于是那位婆罗门(听者)再次恭敬作答,信赖那位智者婆罗门之言。

Verse 14

मम प्रसादं भगवन् कुरु मन्त्रप्रभावजम् । द्रष्टुमेतां मम महीम् अतिवेच्छा प्रवर्तते ॥

噢,具福者,请赐我由真言之力所生的恩惠;我心中已生起强烈愿望,欲亲见此大地。

Verse 15

प्रादात् स ब्राह्मणश्चास्मै पादलेपम् उदारधीः । अभिमन्त्रयामास दिशं तेनाख्यातां च यत्नतः ॥

那位心怀慷慨的婆罗门赐给他足膏,并谨慎地以真言加持他所指示的方向。

Verse 16

तेनानुलिप्तपादोऽथ स द्विजो द्विजसत्तम । हिमवन्तमगाद् द्रष्टुं नानाप्रस्रवणान्वितम् ॥

随后,那婆罗门以此膏涂足,前往瞻礼喜马瓦特——喜马拉雅山——其间多瀑布点缀;噢,二次生者中最胜者。

Verse 17

सहस्रं योजनानां हि दिनार्धेन व्रजामि यत् । आयास्यामिति सञ्चिन्त्य तदर्धेनापरेण हि ॥

因为我半日可行一千由旬;他心想“我将返回”,便计划以余下的半日作为归程。

Verse 18

सम्प्राप्तो हिमवत्पृष्ठं नातिश्रान्ततनुर्द्विज । विचचार ततस्तत्र तुहिनाचलभूतले ॥

婆罗门啊,他抵达喜马瓦特山的后部高地时,身躯并未过度疲惫,便在那雪山之地上徘徊行走。

Verse 19

पादाक्रान्तेन तस्याथ तुहिनेन विलीयता । प्रक्षालितः पादलेपः परमौषधिसम्भवः ॥

随后,因他脚下所踏之雪随踏而融,他足上以至上灵药草制成的药膏之泥,便被融雪洗去。

Verse 20

ततो जडगतिः सोऽथ इतश्चेतश्च पर्यटन् । ददर्शातिमनोज्ञानि सानूनि हिमभूभृतः ॥

其后,他步履迟钝而略显蹒跚,四处游行,见到那雪覆之山的坡麓极其悦目可爱。

Verse 21

सिद्धगन्धर्वजुष्टानि किन्नराभिरतानि च । क्रीडाविहाररम्याणि देवादीनामितस्ततः ॥

此处彼处皆有可供游乐与憩息的胜地,常为成就者(悉地)与乾闼婆所往来,亦为紧那罗所欣赏;乃诸天及其他天界众生之所属。

Verse 22

दिव्याप्सरोगणशतैराकीर्णान्यवलोकयन् । नातृप्यत द्विजश्रेष्ठः प्रोद्धूतपुलको मुने ॥

见到诸处为数百群天界阿普萨拉(天女)所充满,那最胜婆罗门仍不知足;圣者啊,他周身毛发皆为之竖立。

Verse 23

क्वचित् प्रस्त्रवणाद् भ्रष्टजलपातमनोरमम् । प्रनृत्यच्छिखिकेकाभिरन्यतश्च निनादितम् ॥

一处景致妩媚,泉眼飞瀑垂落;另一处回响着起舞孔雀的鸣叫之声。

Verse 24

दात्यूहकोयष्टिकाद्यैः क्वचिच्चातिमनोहरैः । पुंस्कोकिलकलालापैः श्रुतिहारिभिरन्वितम् ॥

有一处以极其可爱的群鸟为饰,如达底优诃与拘耶湿底迦等;又有雄布谷鸟甜美的啼声,仿佛夺人耳目。

Verse 25

प्रफुल्लतरुगन्धेन वासितानिलवीजितम् । मुदा युक्तः स ददृशे हिमवन्तं महागिरिम् ॥

在带着花树芬芳的微风轻拂之下,他心怀喜悦,瞻望到喜马伐特——那巍峨的大山。

Verse 26

दृष्ट्वा चैतं द्विजसुतो हिमवन्तं महाचलम् । श्वो द्रक्ष्यामिति संचित्य मतिञ्चक्रे गृहं प्रति ॥

见到喜马伐特这座大山后,那婆罗门之子心想:“明日我当再观之。”遂将心志转向归家。

Verse 27

विभ्रष्टपादलेपोऽथ चिरेण जडितक्रमः । चिन्तयामास किमिदं मयाज्ञानादनुष्ठितम् ॥

随后,他脚上的涂膏已失,且过了许久步履才渐趋迟缓,他自省道:“我因无明究竟做了什么?”

Verse 28

यदि प्रलेपो नष्टो मे विलीनो हिमवारिणा । शैलोऽतिदुर्गमश्चायं दूरञ्चाहमिहागतः ॥

“若我(在路上)所作的标记已失——被雪水冲融而消散——而此山又极难跋涉,我却从远方来到此处……”

Verse 29

प्रयास्यामि क्रियाहानिमग्निशुश्रूषणादिकम् । कथमत्र करिष्यामि सङ्कटं महदागतम् ॥

“我将要违失所规定的本分——如奉事圣火等诸行。如今大苦难临到我身,在此处我当如何行事?”

Verse 30

इदं रम्यमिदं रम्यमित्यस्मिन् वरपर्वते । शक्तदृष्टिरहं तृप्तिं न यास्येऽब्दशतैरपि ॥

“‘妙哉,妙哉!’——在这殊胜之山上,我的目光被牢牢摄住;纵使百年亦不知餍足。”

Verse 31

किन्नराणां कलालापाः समन्ताच्छ्रोत्रहारिणः । प्रफुल्लतरुगन्धान्श्च घ्राणमत्यन्तमृच्छति ॥

“四面八方,紧那罗的甘美歌声夺人耳根;开花树木的芬芳亦浓烈地扑入鼻端。”

Verse 32

सुखस्पर्शस्तथा वायुः फलानि रसवन्ति च । हरन्ति प्रसभं चेतो मनोज्ञानि सरांसि च ॥

“清风触体怡然,果实滋味充盈;而那妩媚的湖泊强烈地夺去人心。”

Verse 33

एवं गते तु पश्येयं यदि कञ्चित् तपोनिधिम् । स ममोपदिशेन्मार्गं गमनाय गृhaं प्रति ॥

“若依眼下情形,我能得见一位大苦行者——如同苦行(tapas)之宝藏——他必将教我返归故乡之道。”

Verse 34

मार्कण्डेय उवाच स एवम् चिन्तयन् विप्रो बभ्राम च हिमाचले । भ्रष्टपादौषधिबलो वैक्लवं परमं गतः ॥

“马尔坎德耶说道:如此思量之时,那婆罗门在喜马拉雅山中徘徊;及至足下药草所赐之力消失,他便陷入极度无助。”

Verse 35

तं ददर्श भ्रमन्तञ्च मुनिश्रेष्ठं वरूथिनी । वराप्सरा महाभागा मौलेया रूपशालिनी ॥

“瓦鲁提尼看见他在行走徘徊——那位卓越的圣仙。她是一位高贵的阿普萨拉,福缘最盛,出自毛勒耶(Mauleya)族系,具足美貌。”

Verse 36

तस्मिन् दृष्टे ततः साभूद् द्विजवर्ये वरूथिनी । मदनाकृष्टहृदया सानुरागा हि तत्क्षणात् ॥

“她一见到那位卓越的婆罗门,瓦鲁提尼便立刻充满爱慕——其心为伽摩(Kāma,爱神)所牵引。”

Verse 37

चिन्तयामास को न्वेष रमणीयतमाकृतिः । सफलं मे भवेञ्जन्म यदि मां नावमन्यते ॥

“她思忖道:‘此人究竟是谁,形貌竟如此无比可爱?若他不轻弃于我,我此生之出生便算圆满。’”

Verse 38

अहोऽस्य रूपमाधुर्यमहोऽस्य ललिता गतिः । अहो गम्भीरता दृष्टेः कुतोऽस्य सदृशो भुवि ॥

“啊,他的容貌何其甘美!啊,他的步态何其娴雅!啊,他目光中的庄重何其深沉!世间何处还有人能与他相比?”

Verse 39

दृष्टा देवास्तथा दैत्याḥ सिद्धगन्धर्वपन्नगाः । कथमेकोऽपि नास्त्यस्य तुल्यरूपो महात्मनः ॥

“我曾见诸天,也见过阿修罗(代提耶)、悉地者、乾闼婆与龙蛇之族——为何竟无一者在形貌上能与这位大心者相等?”

Verse 40

यथाहमस्मिन्मय्येष सानुरागस्तथा यदि । भवेदत्र मया कार्यस्तत्कृतः पुण्यसञ्चयः ॥

“若他也能如我爱慕他一般,对我生起怜爱之情,那么我在此便有可行之事;由此将积聚一藏功德。”

Verse 41

यद्येष मयि सुस्निग्धां दृष्टिमद्य निपातयेत् । कृतपुण्या न मत्तोऽन्या त्रैलोक्ये वनिता ततः ॥

“若他今日以极其深情的目光垂视于我,则三界之中再无女子比我更具功德。”

Verse 42

मार्कण्डेय उवाच एवम् सञ्चिन्तयन्ती सा दिव्ययोषित् स्मरातुरा । आत्मानं दर्शयामास कमनीयतराकृतिम् ॥

马尔坎德耶说道:“她如此思量,那位天女——为欲念所逼恼——便显露其身,化现出更为惑人的形相。”

Verse 43

तां तु दृष्ट्वा द्विजसुतश्चारुरूपां वरूथिनीम् । सोपचारं समागम्य वाक्यमेतदुवाच ह ॥

然而见到她——形貌姝丽的瓦鲁提尼(Varūthinī)——那婆罗门之子依礼恭敬趋前,说道如下。

Verse 44

का त्वं कमलगर्भाभे कस्य किं वानुतिष्ठसि । ब्राह्मणोऽहमिहायातो नगरादरुणास्पदात् ॥

“你是谁,噢莲胎(莲胸)般的女子?你属谁所有,又在此作何事?我是婆罗门,自名为阿鲁那阿斯帕达(Aruṇāspada)的城而来。”

Verse 45

पादलेपोऽत्र मे ध्वस्तो विलीनो हिमवारिणा । यस्यानुभावादत्राहमागतो मदिरेक्षणे ॥

“在此,我的足膏已被毁——为冷水所溶解。噢酒眼之女,我因谁的影响而来到这里?”

Verse 46

वरूथिन्युवाच मौलेयाहं महाभागा नाम्ना ख्याता वरूथिनी । विचरामि सदैवात्र रमणीये महाचले ॥

瓦鲁提尼说道:“噢有福者,我名为毛勒雅(Mauleyā),世人以瓦鲁提尼之名称我。我常在此间徜徉,于这可喜的大山之上。”

Verse 47

साहं त्वद्दर्शनाद्विप्र कामवक्तव्यताङ्गता । प्रशाधि यन्मया कार्यं त्वदधीनास्मि साम्प्रतम् ॥

“而我——见到你,噢婆罗门——便被欲念驱使而开口。请命我当行之事;此刻我听从你的指引。”

Verse 48

ब्राह्मण उवाच येनोपायेन गच्छेयं निजगेहं शुचिस्मिते । तन्ममाचक्ष्व कल्याणि हानिर्नोऽखिलकर्मणाम् ॥

婆罗门说道:“以何种方法我才能回到自己的家中,噢,含笑端丽者?请告知我,噢,吉祥的女神,使我一切仪轨与本分不致有所亏损。”

Verse 49

नित्यनैमित्तिकानान्तु महाहानिर्द्विजन्मनः । भवत्यतस्त्वं हे भद्रे ! मामुद्धर हिमालयात् ॥

“对于二次出生者而言,忽略每日与随时之仪轨,确有重大损失。因此,噢,慈惠的女神,请从喜马拉雅中救度我。”

Verse 50

प्रशस्यते न प्रवासो ब्राह्मणानां कदाचम । अपराद्धं न मे भीरु देशदर्शनकौतुकम् ॥

“对婆罗门而言,漂泊或离开本分之地而居,从未受称赞。噢,怯弱者,我并未犯过失——这只是想观览诸方国土的好奇而已。”

Verse 51

सतो गृहे द्विजाग्र्यस्य निष्पत्तिः सर्वकर्मणाम् । नित्यनैमित्तिकानाञ्च हानिरेवं प्रवासिनः ॥

“在善良而最胜的二次出生者之家,一切义务皆得如法圆满;但居于外地者,便因此在每日与随时之仪轨上有所亏失。”

Verse 52

सा त्वं किं बहुनोक्तेन तथा कुरु यशस्विनि । यथा नास्तं गते सूर्ये पश्यामि निजमालयम् ॥

“因此——多言何益?噢,光辉的女神,请如此施为,使我在日落之前得见自己的居所。”

Verse 53

वरूथिन्युवाच मैवं ब्रूहि महाभाग ! मा भूtsa दिवसॊ मम । मां परित्यज्य यत्र त्वं निजगेहमुपैष्यसि ॥

瓦鲁提尼说道:“吉祥者啊,切莫如此言说。愿那一日不要临到我——你舍我而去,回到你自己家宅的那一日。”

Verse 54

अहो रम्यतरः स्वर्गो न यतो द्विजनन्दन । अतो वयं परित्यज्य तिष्ठामोऽत्र सुरालयम् ॥

“啊!再没有比此处更令人欢悦的天界了,二生者之乐啊。因此我们当舍弃(那念头),留在此处这神圣的居所。”

Verse 55

स त्वं सह मया कान्त ! कान्तेऽत्र तुहिनाचले । रममाणो न मर्त्यानां बान्धवानां स्मरिष्यसि ॥

“而你,所爱之人——与我同住此雪山之上——纵情欢悦之时,便不会再忆念你尘世的亲族。”

Verse 56

स्रजो वस्त्राण्यलङ्कारान् भोगभोज्यानुलेपनम् । दास्याम्यत्र तथाहन्ते स्मरेण वशगा हृता ॥

“花鬘、衣裳、饰物、享乐、饮食与香膏——这一切我都将在此赐予你。唉!我被爱神迦摩所迷,遂受其制伏。”

Verse 57

वीणावेणुस्वनं गीतं किन्नराणां मनोरमम् । अङ्गाह्लादकरो वायुरुष्णान्नमुदकं शुचि ॥

“此处有维那琴与笛之声,有紧那罗动人的歌唱;有令四肢欢悦的微风;亦有热食与清净之水。”

Verse 58

मनॊभिलषिता शय्या सुगन्धमनुलेपनम् । इहासतो महाभाग गृहे किं ते निजे 'धिकम् ॥

“此处有随你心愿的卧榻,并有芬芳香膏可供涂抹。噢,高贵者,当你住在这里时,你自家之中还有什么能胜过此等福乐呢?”

Verse 59

इहासतो नैव जरा कदाचित्ते भविष्यति । त्रिदशानामियं भूमिर्यौवनोपचयप्रदा ॥

“凡住于此者,任何时候都不会生起衰老。此乃诸天之地,是赐予青春增长之处。”

Verse 60

इत्युक्त्वा सानुरागा सा सहसा कमलेक्षणा । आलिलिङ्ग प्रसीदेति वदन्ती कलमुन्मनाः ॥

“说罢,她——情执充满、莲华眼者——忽然拥抱了他,柔声道:‘愿君欢喜。’其心因渴慕而不安。”

Verse 61

ब्राह्मण उवाच मा मां स्प्राक्षीर्व्रजान्यत्र दुष्टे यः सदृशस्तव । मयान्यथा याचिता त्वमन्यथैवाप्युपैषि माम् ॥

婆罗门说道:“不要触碰我。去别处吧,恶人!像你这般者乃是败德之徒。我以一种方式询问你,你却以全然另一种方式来接近我。”

Verse 62

सायं प्रातरहुतं हव्यं लोकान् यच्छति शाश्वतान् । त्रैलोक्यमेतदखिलं मूढे इव्ये प्रतिष्ठितम् ॥

“晨夕所献之供奉(祭火供物)能赐予恒久之诸界(天界成就)。确然,此整个三界皆依此而立——而你在此却仿佛迷惑。”

Verse 63

वरूथिन्युवाच किं ते नाहं प्रिया विप्र ! रमणीयो न किं गिरिः । गन्धर्वान् किन्नरादींश्च त्यक्त्वाभीष्टो हि कस्तव ॥

瓦鲁提尼说道:“你怎么了——婆罗门啊,我难道不为你所爱吗?这座山难道不令人欢喜吗?你既已舍弃乾闼婆、紧那罗等众,究竟还欲求谁呢?”

Verse 64

निजमालयमप्यस्माद्भवान् यास्यत्यसंशयम् । स्वल्पकालं मया सार्धं भुङ्क्ष्व भोगान् सुदुर्लभान् ॥

“即便从此处,你终究也必定会回到你自己的住处。因此,在短暂的时日里,与我同享那极难得的诸般乐受吧。”

Verse 66

ब्राह्मण उवाच अष्टावात्मगुणा ये हि तेषामादौ दया द्विज । तां करोṣi कथं न त्वं मयि सद्धर्मपालक ॥

婆罗门说道:“在自我之八种德相之中,慈悲为最上,噢二次生者。你自称护持真实之法(dharma),为何却不向我示现那慈悲?”

Verse 67

त्वद्विमुक्ता न जीवामि तथा प्रीतिमती त्वयि । नैतद्वदाम्यहं मिथ्या प्रसीद कुलनन्दन ॥

“若与你分离,我便不能生存;我对你的情爱正是如此。我并非虚言——愿你垂怜,噢你族系之欢荣。”

Verse 68

ब्राह्मण उवाच यदि प्रीतिमती सत्यं नोपचाराद्ब्रवीषि माम् । तदुपायं समाचक्ष्व येन यामि स्वमालयम् ॥

婆罗门说道:“若你的情意确实真诚,并非仅以权谋之辞对我言说,那么请告诉我,使我得以回到自己住处的方法。”

Verse 69

वरूथिन्युवाच निजमालयमप्यस्माद्भवान् यास्यत्यसंशयम् । स्वल्पकालं मया सार्धं भुङ्क्ष्व भोगान् सुदुर्लभान् ॥

瓦鲁提尼说道:“即使从此处,你也必定会回到你自己的归处。因此,且在短暂之时,与我同享那极难得的诸般乐受。”

Verse 70

ब्राह्मण उवाच न भोगार्थाय विप्राणां शस्यते हि वरूथिनि । इह क्लेशाय विप्राणां चेष्टा प्रेत्याफलप्रदा ॥

婆罗门说道:“对于婆罗门而言,为了享乐而追求并不受称赞,噢瓦鲁提尼。他们在此世所勤行者,是艰苦与克己;其果报在死后方得。”

Verse 71

वरूथिन्युवाच सन्त्राणं म्रियमाणायाः मम कृत्वा परत्र ते । पुण्यस्यैव फलं भावि भोगाश्चान्यत्र जन्मनि ॥

瓦鲁提尼说道:“若你在我将死之际救我,则于来世你将得功德之果——并且在另一生中亦有诸享受。”

Verse 72

एवं च द्वयमप्यत्र तवोपचयकारणम् । प्रत्याख्यानादहं मृत्युः त्वञ्च पापमवाप्स्यसि ॥

“因此,此处两种结局都成你所谓‘所得’之因:若你拒绝我,我将死去——而你将招致罪过。”

Verse 73

ब्राह्मण उवाच परस्त्रियां नाभिलषेदित्युगुर्गुरवो मम । तेन त्वां नाभिवाञ्छामि कामं विलप शुष्य वा ॥

婆罗门说道:“我的师长曾宣示:‘不应贪求他人之妻。’因此我不欲你。你尽可哭泣,或任凭自己枯萎消瘦。”

Verse 74

मार्कण्डेय उवाच इत्युक्त्वा स महाभागः स्पृष्ट्वापः प्रयतः शुचिः । प्राहेदं प्रणिपत्याग्निं गार्हपत्यं उपांशुना ॥

马尔坎德耶说道:说罢此言,那位有福之人——触水以自制并净化——向家宅之火(伽尔哈帕提耶火)顶礼,低声说道如下。

Verse 75

भगवन्! गार्हपत्याग्ने योनिस्त्वं सर्वकर्मणाम् । त्वत्त आहवनीयोऽग्निर्दक्षिणाग्निश्च नान्यतः ॥

“噢,蒙福的伽尔哈帕提耶圣火,你是一切祭仪的胎藏与源泉。由你而生的是阿哈瓦尼耶火与达克希那火——绝非出自他处。”

Verse 76

युष्मदाप्यायनाद् देवा वृष्टिशस्यादिहेतवः । भवन्ति शस्यादखिलं जगद्भवति नान्यतः ॥

“因你的滋养,诸天得以成为降雨、五谷与诸般生长之因。由五谷而世间万类得以存续——别无他途。”

Verse 77

एवं त्वत्तो भवत्येतद्येन सत्येन वै जगत् । तथाहमद्य स्वं गेहं पश्येयं सति भास्करे ॥

“因此,由你而生那使世界真实安住之法。凭此真谛,愿我今日在日光尚明之时得见我自己的家宅。”

Verse 78

यथा वै वैदिकं कर्म स्वकाले नोज्झितं मया । तेन सत्येन पश्येयं गृहस्थोऽद्य दिवाकरम् ॥

“既然我未曾在应行之时怠慢吠陀之责,凭此真实,愿我——虽为居家者——今日得见太阳。”

Verse 79

यथा च न परद्रव्ये परदारे च मे मतिः । कदाचित् साभिलाषाभूत्तथैतत् सिद्धिमेतु मे ॥

正如我的心从未在任何时候因欲望而倾向于他人的财物或他人的妻子,如是愿此我之誓愿/祈祷为我获得成就。

Frequently Asked Questions

The chapter tests dharmic steadfastness under extraordinary temptation: whether a householder-Brahmin should abandon nitya-naimittika Vedic duties and moral restraint for svarga-like pleasures. The narrative resolves in favor of ritual continuity, avoidance of parastrī, and satya (truth) as a performative, protective principle.

It functions as a hinge: after Krauṣṭuki requests the remaining Manvantaras and their rulers, Markandeya announces the Svārociṣa Manvantara as the next to be heard. The embedded upākhyāna then supplies an ethical-ritual exemplum consistent with Manvantara discourse—how dharma is preserved across cosmic administrations.

The chapter foregrounds the gṛhastha-Brahmin institutional dharma—especially the Gārhapatya fire as the generative center of śrauta/vaidika ritual and the maintenance of nitya-naimittika obligations. This emphasis frames household rite as cosmically consequential and portrays deviation (through prolonged pravāsa or sensual distraction) as a threat to both personal merit and social-ritual order.