
योगाध्याय (Yogādhyāya)
Creation of the World
本章阐述瑜伽行者在入三摩地时可能遭遇的障碍(Upasarga),以及心识更为微细的专注层次与易致迷误的征相。经文教导以戒行、觉照与对神圣的归依,超越诱惑、恐惧、散乱乃至种种奇异能力。末后说明八种成就(八悉地,Aṣṭa-siddhi),并告诫勿因我慢或贪求神通而偏离解脱之道。
Verse 1
इति श्रीमार्कण्डेयपुराणे जडोपाख्याने योगाध्यायो नामैकोनचत्वारिंशोऽध्यायः । दत्तात्रेय उवाच । उपसर्गाः प्रवर्तन्ते दृष्टे ह्यात्मनि योगिनः । ये तांस्ते संप्रवक्ष्यामि समासेन निबोध मे ॥
如是,在《吉祥·摩迦ṇḍeya往世书》中,于阇荼(Jaḍa)之叙事里,名为“瑜伽”的品章开始。达多特利耶(Dattātreya)言:当瑜伽行者确已证见自我(Self/Ātman)时,诸障碍(upasarga)便会生起。我将为你略说其要;听我所言。
Verse 2
काम्याः क्रियास्तथा कामान् मानुषानभिवाञ्छति । स्त्रियो दानफलं विद्यां मायां कुप्यं धनं दिवम् ॥
他遂生起对能满愿的仪轨与人间享乐的欲求——女子、布施所得之福德、学识、神通成就(悉地)、珍宝、财富,乃至天界。
Verse 3
देवत्वममरेशत्वं रसायनचयाः क्रियाः । मरुत्प्रपतनं यज्ञं जलग्न्यावेशनन्तथा ॥
他渴望成神,在不死者中得主宰之位,获得炼金的积聚与操作之术,随风而行或坠落,精通祭祀之能,并能入水入火而不受伤害。
Verse 4
श्राद्धानां सर्वदानानां फलानि नियमांस्तथा । तथोपवासात् पूर्ताच्च देवताभ्यर्चनादपि ॥
他追求施行 śrāddha 祭仪之果、诸般布施之果与一切宗教戒行之果;同样也追求斋戒之功德、公共慈善之业(pūrta)之功德,乃至礼敬诸天之功德。
Verse 5
तेभ्यस्तेभ्यश्च कर्मभ्य उपसृष्टोऽभिवाञ्छति । चित्तमित्थं वर्तमानं यत्नाद्योगी निवर्तयेत् ॥
为种种行为(及其诱惑)所侵扰,他便开始贪求它们。瑜伽行者应当以努力使如此驰动之心回转。
Verse 6
ब्रह्मसङ्गिमनः कुर्वन्नुपसर्गात् प्रमुच्यते । उपसर्गैर्जितैरेभिरुपसर्गास्ततः पुनः ॥
令心安住于梵(Brahman),便能从此类障碍中解脱。然而,当这些障碍被克服之后,随后又会再生起别的障碍。
Verse 7
योगिनः संप्रवर्तन्ते सत्त्वराजसतामसाः । प्रातिभिः श्रावणो दैवो भ्रमावत्तौ तथापरौ ॥
对瑜伽行者而言,会生起由三德(sattva、rajas、tamas)所生的障碍:prātibha、śrāvaṇa、daiva,以及 bhrama 与 āvarta(其余两种)。
Verse 8
पञ्चैते योगिनां योगविघ्राय कटुकोदयाः । वेदार्थाः काव्यशास्त्रार्था विद्याशिल्पान्यशेषतः ॥
这五种一旦猛烈生起,便障碍瑜伽行者之瑜伽:对《吠陀》义理的骤然通达,对诗章与论典义理的骤然通达,以及对一切学科与技艺无所遗余的通晓。
Verse 9
प्रतिभान्ति यदस्येति प्रातिभः स तु योगिनः । शब्दार्थानखिलान् वेत्ति शब्दं गृह्णाति चैव यत् ॥
由于万事万物于彼皆“显耀而出”,故此在瑜伽行者处称为 prātibha:他了知一切言辞与义理,并能把握言说本身之旨趣。
Verse 10
योजनानां सहस्रेभ्यः श्रावणः सोऽभिधीयते । ममन्ताद्वीक्षते चाष्टौ स यदा देवतोपमः ॥
当(他能)从数千由旬之外听闻之时,称为“śrāvaṇa”;而当他如同从拇指尖端观照一般见到八方之时,他便呈现出神祇般的状态。
Verse 11
उपसर्गान्तमप्याहुर्दैवमुन्मत्तवद् बुधाः । भ्राम्यते यन्निरालम्बं मनो दोषेण योगिनः ॥
智者称一种如同癫狂般显现的障碍为 daiva:当由于过失,瑜伽行者之心无所依止、无所凭藉而漂荡之时。
Verse 12
समस्ताचारविभ्रंशाद् भ्रमः स परिकीर्तितः । आवर्त इव तोयस्य ज्ञानावर्तो यदाकुलः ॥
背离一切正行者,名为“痴迷”(moha)。当知识之旋涡被搅动时,犹如水中回流之涡。
Verse 13
नाशयेच्चित्तमावर्त उपसर्गः स उच्यते । एतैर्नाशितयोगास्तु सकला देवयोनयः ॥
那摧毁心识之旋涡,称为“障碍”(upasarga)。由于这些,凡具天生神性之众生,其瑜伽皆被败坏。
Verse 14
उपसर्गैर्महाघोरैरावर्तन्ते पुनः पुनः । प्रावृत्य कम्बलं शुक्लं योगी तस्मान्मनोमयम् ॥
由于极其可怖的障碍,他们一次又一次被旋转抛掷。故瑜伽行者当以由心所成之“白毯”自覆,即以内在清净与心识护持为衣。
Verse 15
चिन्तयेत् परमं ब्रह्म कृत्वा तत्प्रवणं मनः । योगयुक्तः सदा योगी लघ्वाहारो जितेन्द्रियः ॥
当观想至上梵(Brahman),使其心倾向于彼。恒常以瑜伽自律者,当少食清淡,并降伏诸根。
Verse 16
सूक्ष्मास्तु धारणाः सप्त भूराद्या मूर्ध्नि धारयेत् । धरित्रीं धारयेद्योगी तत् सौक्ष्म्यं प्रतिपद्यते ॥
有七种微细的摄持(dhāraṇā),以地界为始。应将其安持于头顶之冠。摄持地元素时,瑜伽行者得彼微细之境。
Verse 17
आत्मानं मन्यते चोर्वोṃ तद्गन्धञ्च जहाति सः । यथैवाप्सु रसं सूक्ष्मं तद्वद्रूपञ्च तेजसि ॥
随后,他观自身为较地大更为微细,舍离其香(气味)。如同味在水中为微细之相,色相(形相)亦在火中为微细之相。
Verse 18
स्पर्शं वायो तथा तद्वद्विभ्रतस्तस्य धारणाम् । व्योम्रः सूक्ष्मां प्रवृत्तिञ्च शब्दं तद्वज्जहाति सः ॥
同样地,持守彼定,他舍离触——风大的特相。继而于虚空(以太)中,以觉知的微细动势,亦复舍离声。
Verse 19
मनसा सर्वभूतानां मनस्याविशते यदा । मानसीं धारणां बिभ्रन्मनः सूक्ष्मञ्च जायते ॥
当他以心入于一切众生之心时——恒持意念之摄持(mānasī dhāraṇā)——其心便趋于微细。
Verse 20
तद्वद् बुद्धिमशेषाणां सत्त्वानामेत्य योगवित् । परित्यजति सम्प्राप्य बुद्धिसौक्ष्म्यमनुत्तमम् ॥
同样地,瑜伽知者通达一切众生之觉慧(buddhi);既得觉慧无上微细之境,亦复舍之(即连 buddhi 亦超越)。
Verse 21
परित्यजति सूक्ष्माणि सप्त त्वेतानि योगवित् । सम्यग्विज्ञाय यो 'लर्क ! तस्यावृत्तिर्न विद्यते ॥
瑜伽知者舍离此七种微细。能如实了知者——噢,阿拉尔迦——不复再来(不再轮转)。
Verse 22
एतासां धारणानान्तु सप्तानां सौक्ष्म्यमात्मवान् । दृष्ट्वा दृष्ट्वा ततः सिद्धिं त्यक्त्वा त्यक्त्वा परां व्रजेत् ॥
反复体察这七种持念(dhāraṇā)的微细本性之后,能自持的瑜伽行者应当——在获得相应的成就力之后——一再舍离它们,而趋向至上的境界。
Verse 23
यस्मिन् यस्मिंश्च कुरुते भूते रागं महीपते । तस्मिंस्तस्मिन् समासक्तिं संप्राप्य स विनश्यति ॥
大王啊,无论对何种众生或元素生起贪染(rāga),便在那对象上因执取而受缚;由此执取,遂致败坏与灵性堕落。
Verse 24
तस्माद्विदित्वा सूक्ष्माणि संसक्तानि परस्परम् । परित्यजति यो देही स परं प्राप्नुयात् पदम् ॥
因此,了知这些微细原理彼此纠缠相系之后,具身者若能舍离它们,便得至上的归处。
Verse 25
एतान्येव तु सन्धान्य सप्त सूक्ष्माणि पार्थिव । भूतादीनां विरागोऽत्र सद्भावज्ञस्य मुक्तये ॥
大王啊,若将心专注安住于这七种微细原理之上,便会对诸元素及其相关因素生起离贪;对了知真实(sadbhāva)者而言,此即导向解脱。
Verse 26
गन्धादिषु समासक्तिं सम्प्राप्य स विनश्यति । पुनरावर्तते भूप स ब्रह्मापरमानुषम् ॥
若堕入对香与其他诸境的强烈贪著,便在灵性上败坏,并且——大王啊——再度回到从梵天(Brahmā)乃至人身的范围之中,即在高下诸趣间轮回往复。
Verse 27
सप्तैताः धारणाः योगी समतीत्य यदिच्छति । तस्मिंस्तस्मिंल्लयं सूक्ष्मे भूते याति नरेश्वर ॥
噢,人中之主,当瑜伽行者随其意愿超越这七种持念(dhāraṇā)时,便于各自相应的微细元素中入于融解(laya)。
Verse 28
देवानामसुराणां वा गन्धर्वोरगरक्षसाम् । देहेषु लयमायाति सङ्गं नाप्रोति च क्वचित् ॥
无论处于诸天、阿修罗、乾闼婆、那伽或罗刹之身中,他都能于那些形相中入于吸融(laya),然而他从不在任何处生起执著。
Verse 29
अणिमा लघिमा चैव महिमा प्राप्तिरेव च । प्राकाम्यं च तथैशित्वं वशित्वञ्च तथापरम् ॥
阿尼玛(aṇimā)、拉吉玛(laghimā)、摩希玛(mahimā)、普拉普提(prāpti)、普拉卡米亚(prākāmya)、自在主宰(īśitva)、摄持支配(vaśitva),以及第八种(其他)神力——这些即为传统所称的八种悉地。
Verse 30
यत्रकामावसायित्वं गुणानेतांस्तथैश्वरान् । प्राप्नोत्यक्ष्टौ नरव्याघ्र परं निर्वाणसूचकान् ॥
噢,人中之虎,有人可得此八种尊主之力与德相——乃至能随意裁定结果——然而它们只是征象,指向至上的涅槃。
Verse 31
सूक्ष्मात् सूक्ष्मतमोऽणीयान् शीघ्रत्वं लघिमा गुणः । महिमाशेषपूज्यत्वात् प्राप्तिर्नाप्राप्यमस्य यत् ॥
阿尼玛(aṇimā)是令自身比最微细者更为细小;拉吉玛(laghimā)是迅疾轻盈之德;摩希玛(mahimā)是使人堪受普世敬礼之广大;而普拉普提(prāpti)则是对他而言再无不可得之事。
Verse 32
प्राकाम्यमस्य व्यापित्वादीशित्वञ्चेश्वरो यतः । वखित्वाद्वशिमा नाम योगिनः सप्तमो गुणः ॥
由于其遍一切处,便有 prākāmya(无碍成就之力);由于其为主宰,便有 īśitva(主权、自在)。又由于能令诸有情与诸事物归于控制,名为 vaśitā(摄御、主宰)的德相,被说为瑜伽行者的第七种成就。
Verse 33
यत्रेच्छास्थानमप्युक्तं यत्रकामावसायिता । ऐश्वर्यकारणैरेभिर्योगिनः प्रोक्तमष्टधा ॥
凡其所欲之处,彼处即被说为对他可达;凡其所向之处,欲望便得圆满。由此种种主宰之力(aiśvarya)的因缘,瑜伽行者的成就被宣说为八种。
Verse 34
मुक्तिसंसूचकं भूप ! परं निर्वाणमात्मनः । ततो न जायते नैव वर्धते न विनश्यति ॥
大王啊,自我(Ātman)的至上涅槃,是解脱的标志。其后它不再生起,不再增长,也不再灭坏。
Verse 35
नापि क्षयमवाप्रोति परिणामं न गच्छति । छेदं क्लेदं तथा दाहं शोषं भूरादितो न च ॥
它亦不遭减损,不受变异;也不为切割、浸湿、焚烧或干枯所制——这些从地大(及其余诸大)而起的损害,皆不能及。
Verse 36
भूतवर्गादवाप्नोति शब्दाद्यैः ह्रियते न च । न चास्य सन्ति शब्दाद्यास्तद्भोक्ता तैर् न युज्यते ॥
它不为诸大之类所及(即不受其影响),亦不为声等诸境所牵引。实则于它而言,声等皆无;而作为彼境之体验者,它亦不与彼等相系缚。
Verse 37
यथाहि कनकं खण्डमपद्रव्यवदग्निना । दग्धदोषं द्वितीयेन खण्डेनैक्यं व्रजेन्नृप ॥
正如一块黄金,其杂质被火焚尽——仿佛脱离合金——便与另一块(纯金)合为一体,王啊。
Verse 38
न विशेषमवाप्रोति तद्वद्योगाग्निना यतिः । निर्दग्धदोषस्तेनैक्यं प्रयाति ब्रह्मणा सह ॥
同样地,苦行者以瑜伽之火而不复有任何(分离的)差别;其垢染既焚尽,便归于与梵(Brahman)的一体。
Verse 39
यथाग्निरग्नौ संक्षिप्तः समानत्वमनुव्रजेत् । तदाख्यस्तन्मयो भूतो न गृह्येत विशेषतः ॥
如同火被投入火中,便随其同一性(与之相同):被称为同一,并成同一之性,因而不再以任何特殊方式被把握为有别。
Verse 40
परेण ब्रह्मणा तद्वत् प्राप्यैक्यं दग्धकिल्विषः । योगी याति पृथग्भावं न कदाचिन्महीपते ॥
同样地,既与至上梵(supreme Brahman)合一的瑜伽行者——其罪业已焚尽——再也不复归于分离,哦,大地之主。
Verse 41
यथा जलं जलेनैक्यं निक्षिप्तमुपगच्छति । तथात्मा साम्यमभ्येति योगिनः परमात्मनि ॥
如水注入水中而成一体,如是瑜伽行者之自我(Ātman)与至上自我(Paramātman)达成同一。
The chapter examines how awakened yogic perception can generate temptations and distortions (upasargas) that mimic spiritual success, and it argues that ethical-psychological restraint—redirecting the mind toward Brahman and cultivating dispassion—is necessary to prevent siddhis, merit, and heavenly aspirations from replacing liberation.
It does not develop Manvantara chronology or genealogical transitions; instead, it functions as a stand-alone doctrinal instruction on yoga and liberation, framed as Dattātreya’s counsel to a king regarding the hazards and proper orientation of yogic practice.
This Adhyāya is outside the Devi Māhātmya section (Adhyāyas 81–93) and contains no stuti, epithet, or battle narrative of the Goddess; its primary contribution is yogic-advaitic soteriology centered on Brahman rather than explicit Śākta theology.