
ममतात्यागोपदेशः (Mamatā-tyāgopadeśaḥ)
Shraddha Rites
本章中,圣者达多特雷亚开示应舍弃“我所执”(mamata),不再把身体、财物与亲缘关系当作“我”与“我的”。他指出,凭借对真我(Atman)的觉悟,配合离欲(vairagya)、禅定与清明的内观,行者得以超越忧苦,循道趋向解脱(moksha)。
Verse 1
इति श्रीमार्कण्डेयपुराणे पितापुत्रसंवादे आत्मविवेको नाम सप्तत्रिंशोऽध्यायः । अष्टत्रिंशोऽध्यायः । जड उवाच । दत्तात्रेयं ततो विप्रं प्रणिपत्य स पार्थिवः । प्रत्युवाच महात्मानं प्रश्रयावनतो वचः ॥
如是,在《吉祥·摩尔迦ṇḍeya往世书》中,于父子对话之中,名为“Ātmaviveka”(自我辨别)的篇章告终。今起第三十八章。惰者(Jaḍa)曰:其时彼王顶礼婆罗门达多特雷耶(Dattātreya),以谦恭恭敬之辞答复那位大心者。
Verse 2
सम्यक्प्रपश्यतो ब्रह्मन् मम दुःखं न किञ्चन । असम्यग्दर्शिनो मग्नाः सर्वदैवासुखार्णवे ॥
婆罗门啊,对于如实正见者,毫无忧悲;而邪见之人,恒常沉没于不幸之海。
Verse 3
यस्मिन् यस्मिन्ममासक्ता बुद्धिः पुंसः प्रजायते । ततस्ततः समादाय दुःखान्येव प्रयच्छति ॥
凡人心于任何境物生起“我所”之执著,即从彼处聚集并带来唯有忧苦。
Verse 4
मार्जारभक्षिते दुःखं यादृशं गृहकुक्कुटे । न तादृङ्ममताशून्ये कलविङ्केऽथ मूषिके ॥
居家者之雄鸡被猫吞食时所生之悲,并不会以同样方式为麻雀或老鼠而起,因为对它们并无“我所”之感。
Verse 5
सोऽहं न दुःखी न सुखी यतोऽहं प्रकृतेः परः । यो भूताभिभवो भूतैः सुखदुःखात्मकॊ हि सः ॥
是故我既不忧亦不喜,因为我超越于普拉克里蒂(物质自然)。凡为诸有与诸缘所制伏者,实由乐与苦所构成。
Verse 6
दत्तात्रेय उवाच । एवमेतन्नरव्याघ्र यथैतद्व्याहृतं त्वया । ममेति मूलं दुःखस्य न ममेति च निर्वृतेः ॥
达多特利耶说道:诚然如此,噫,人中之虎,正如你所言。“我之所有”是忧苦之根;“非我所有”则是安宁与解脱(mokṣa)之因。
Verse 7
मत्प्रश्नादेव ते ज्ञानमुत्पन्नमिदमुत्तमम् । ममेति प्रत्ययो येन क्षिप्तः शाल्मलितूलवत् ॥
仅因我这一问,你心中便生起了此殊胜之智;凭此智慧,“我之所有”的观念被抛却,如同娑罗摩梨(śālmali)树之棉絮被掷散。
Verse 8
अहमित्यङ्कुरोत्पन्नो ममेति स्कन्धवान् महान् । गृहक्षेत्रोच्चशाखश्च पुत्रदारादिपल्लवः ॥
由名为“我”的嫩芽,生出名为“我之所有”的大干。其高耸之枝为屋舍与田地;其新芽与叶为子女、妻室及其余诸缘。
Verse 9
धनधान्यमहापत्रो नैककालप्रवर्धितः । पुण्यापुण्याग्रपुष्पश्च सुखदुःखमहाफलः ॥
其大叶为财宝与谷粮,历经多季而滋长;其枝端之花为福德与罪过;其硕果为乐受与苦受。
Verse 10
तत्र मुक्तिपथव्यापि मूढसम्पर्कसेचनः । विधित्साभृङ्गमालाढ्यो कृत्यज्ञानमहातरुः ॥
此“业与仪轨之知”的大树,甚至蔓延遮覆通向解脱之道;它因与迷妄者相交而得浇灌,并负载着成群之蜂——即“欲行诸仪式与作为”的渴求。
Verse 11
संसाराध्वपरिश्रान्ता ये तच्छायां समाश्रिताः । भ्रान्तिज्ञानसुखाधीनास्तेषामात्यन्तिकं कुतः ॥
那些在轮回(saṃsāra)之路上疲惫不堪、却只投靠那(仅仅)荫影的人——依赖由迷妄之知所生的乐受——又怎能证得究竟的绝对境界(解脱)?
Verse 12
यैस्तु सत्सङ्गपाषाणशितेन ममतातरुः । छिन्नो विद्याकुठारेण ते गतास्तेन वर्त्मना ॥
然而,那些以智慧之斧砍倒“我所—占有之心”之树——此斧因亲近善者而在磨石上磨砺锋利——他们已循着这同一条道路前行。
Verse 13
प्राप्य ब्रह्मवनं शीतं नीरजस्कमकण्टकम् । प्राप्नुवन्ति परां प्राज्ञा निर्वृतिं वृत्तिवर्जिताः ॥
既已抵达清凉的梵(Brahman)之林——无尘无刺——智者心念不起波动,便得至上的寂静安宁。
Verse 14
भूतेन्द्रियमयं स्थूलं न त्वं राजन्न चाप्यहम् । न तन्मात्रमयावावां नैवान्तःकरणात्मकौ ॥
大王啊,你并非由诸元素与诸根所成的粗身——我亦非是。我们也并非由微细元素(tanmātra)所成,亦非内器(心等)的本性。
Verse 15
कं वा पश्यामि राजेन्द्र ! प्रधानमिदमावयोः । यतः परो हि क्षेत्रज्ञः सङ्घातो हि गुणात्मकः ॥
那么,我所见者是谁,诸王之主啊?就我们而言,这不过是主质(Pradhāna,即 Prakṛti)。因为田知者 kṣetrajña(知“田”者)超越其上,而聚合体(身心复合)则由诸 guṇa 所构成。
Verse 16
मशकोडुम्बरेषीकामुञ्जमत्स्याम्भसां यथा । एकत्वे 'पि पृथग्भावस्तथा क्षेत्रात्मनोर् नृप ! ॥
正如蚋虫、优昙婆罗之果、芦苇/纤维、牟阇草、鱼与水——虽被并举而说——彼此仍各自有别;同样地,王啊,田界(kṣetra)与自我(ātman)之间亦有分明之别。
Verse 17
अलर्क उवाच भगवंस्त्वत्प्रसादेन ममाविर्भूतमुत्तमम् । ज्ञानं प्रधानचिच्छक्ति-विवेककरमीदृशम् ॥
阿拉尔迦说道:噢,吉祥者,由于你的恩德,我心中生起此殊胜之智,能分辨普罗陀那(Pradhāna,即 Prakṛti)与识之力(cit-śakti,觉知之能)。
Verse 18
किंत्वत्र विषयाक्रान्ते स्थैर्यवत्त्वं न चेतसि । न चापि वेद्मि मुच्येयं कथं प्रकृतिबन्धनात् ॥
然而在此,当我的心被诸境所侵夺时,便不得安住;我亦不知当如何从普拉克里蒂(Prakṛti)的系缚中解脱。
Verse 19
कथं न भूयां भूयश्च कथं निर्गुणतामियाम् । कथञ्च ब्रह्मणैकत्वं व्रजेयṃ शाश्वतेन वै ॥
我当如何才能不再一生又一生地受生?我当如何证得超越诸古那(guṇas)的境界?又当如何抵达与梵(Brahman)永恒合一?
Verse 20
तन्मे योगं तथा ब्रह्मन् ! प्रणतायाभियाचते । सम्यग् ब्रूहि महाप्राज्ञ ! सत्सङ्गो ह्युपकृन् नृणाम् ॥
因此,婆罗门啊,我今稽首恳问,愿大智者如法教授彼瑜伽;因为亲近善人,确能利益世间之人。
It investigates why human beings experience duḥkha and argues that sorrow is not intrinsic to objects but arises from misperception and possessive identification (mamatā); liberation is framed as the collapse of ‘mine-ness’ through discriminative knowledge.
This Adhyaya is not structured as a Manvantara catalogue; instead, it advances the Purana’s analytical discourse by embedding Sāṃkhya-style distinctions (kṣetrajña vs. guṇa-aggregate) within the pitā–putra frame and by preparing the next step: Alarka’s request for a practical yogic method.
The relevant frame is the pitā–putra saṃvāda featuring King Alarka receiving instruction from Dattātreya (with Jaḍa’s prior statements affirmed), emphasizing guru–śiṣya transmission of viveka leading to a request for yoga and mental steadiness.