
सुपर्णवंश-धर्मोपदेश-उपाख्यान (Suparṇavaṃśa-Dharmopadeśa-Upākhyāna)
The Wise Birds
本章叙述苏帕尔那(Suparṇa)/迦楼罗(Garuḍa)的族系,并以一则寓叙(upākhyāna)开示正法(Dharma)。文中讲到智鸟甘迦(Kanka)与甘达罗(Kandhara)的诞生,彰显其持戒、忠信与敬奉之德,说明奉行正法能得功德、护佑与安宁。
Verse 1
इति श्रीमार्कण्डेयपुराणे वपुशापो नाम प्रथमोऽध्यायः । द्वितीयोऽध्यायः । मार्कण्डेय उवाच । अरिष्टनेमिपुत्रोऽभूद् गरुडो नाम पक्षिराट् । गरुडस्याभवत् पुत्रः सम्पातिरिति विश्रुतः ॥
至此,《圣·摩尔迦ṇḍeya往世书》第一章——名为“关于身躯之诅咒(Vapuśāpa)”——告终。第二章开始。摩尔迦ṇḍeya说道:由阿里ṣṭanemi诞生迦楼罗(Garuḍa),为众鸟之王。迦楼罗有一子,名闻遐迩,号为三跋提(Sampāti)。
Verse 2
तस्याप्यासीद् सुतः शूरः सुपार्श्वो वायुविक्रमः । सुपार्श्वतनयः कुन्तिः कुन्तिपुत्रः प्रलोलुपः ॥
而他亦有一子——英勇之士——名为苏帕尔湿瓦(Supārśva),其威力如风。由苏帕尔湿瓦生昆蒂(Kuntī);昆蒂之子为普罗罗卢帕(Pralolupa)。
Verse 3
तस्यापि तनयावास्तां कङ्कः कन्धर एव च ।
他亦有二子:康迦(Kaṅka)与坎达罗(Kandhara)。
Verse 4
कङ्कः कैलासशिखरे विद्युद्रूपेति विश्रुतम् । ददर्शाम्बुजपत्राक्षं राक्षसं धनदानुगम् ॥
在凯拉萨山之巅,Kaṅka看见那以“Vidyudrūpa”闻名的罗刹,双目如莲叶,乃财主天(俱毗罗,Dhanada)的随从。
Verse 5
आपानासक्तममलस्त्रग्दामाम्बरधारिणम् । भार्यासहायमासीनं शिलापट्टेऽमले शुभे ॥
他一心欲饮(某种饮品),佩戴无瑕花鬘,束以腰带,衣着洁净;并偕其妻,端坐于吉祥而洁白无垢的石座之上。
Verse 6
तद्दृष्टमात्रं कङ्केन रक्षः क्रोधसमन्वितम् । प्रोवाच कस्मादायातस्त्वमितो ह्यण्डजाधम ॥
鹭鸟方一见他,那罗刹便怒火充盈,喝道:“你从何处来到此地?你这卵生之中最下劣者!”
Verse 7
स्त्रीसन्निकर्षे तिष्ठन्तं कस्मान्मामुपसर्पसि । नैष धर्मः सुबुद्धीनां मिथो निष्पाद्यवस्तुषु ॥
“你既与女子近身相依,为何又以此般方式逼近于我?此非智者之法(dharma)——去涉入那须由双方相互成就、相互圆满之事(即男女欲事)。”
Verse 8
कङ्क उवाच साधारणोऽयं शैलेन्द्रो यथा तव तथा मम । अन्येषां चैव जन्तूनां ममता भवतोऽत्र का ॥
Kaṅka说道:“此尊贵之山乃众所共有;它属于你,也同样属于我,亦实属其他众生。既如此,你在此又何来占有之心?”
Verse 9
मार्कण्डेय उवाच ब्रुवाणमित्थं खड्गेन कङ्कं छिन्चेद राक्षसः । क्षरत्क्षतजबिभत्सं विस्फुरन्तमचेतनम् ॥
马尔坎德耶说道:正当他如此言说之时,那罗刹以剑斩倒迦ṅ迦——迦ṅ迦伤口血流不止,形容惨怖,身躯抽搐,神识尽失。
Verse 10
कङ्कं विनिहतं श्रुत्वा कन्धरः क्रोधमूर्च्छितः । विद्युद्रूपवधायाशु मनश्चक्रेऽण्डजेश्वरः ॥
听闻迦ṅ迦已被杀,坎达罗因忿怒而几近昏厥,随即在心中决意要诛杀毗提尤德鲁帕——卵生者(群鸟)之中的主宰。
Verse 11
स गत्वा शैलशिखरं कङ्को यत्र हतः स्थितः । तस्य संकलनं चक्रे भ्रातुर्ज्येष्ठस्य खेचरः ॥ कोपामर्षविवृताक्षो नागेन्द्र इव निःश्वसन् ॥
他来到迦ṅ迦横尸的山巅。那翱翔天际者遂收拢其长兄的遗骸。因愤怒与怨忿而双目圆睁,他喘息沉重,如同威严的蛇王。
Verse 12
जगामाथ स यत्रास्ते भ्रातृहा तस्य राक्षसः । पक्षवातेन महता चालयन् भूधरान् वरान् ॥
随后他前往那弑兄的罗刹所居之处——其以双翼鼓起的强风,令巍峨群山亦为之震颤。
Verse 13
वेगात् पयोदजालानि विक्षिपन् क्षतजेक्षणः । क्षणात् क्षयितशत्रुः स पक्षाभ्यां क्रान्तभूधरः ॥
他以极快之势驱散雨云成群。双目血红,顷刻间摧灭诸敌;并以双翼飞越群山。
Verse 14
पानासक्तमतिं तत्र तं ददर्श निशाचरम् । आताम्रवक्त्रनयनं हेमपर्यङ्कमाश्रितम् ॥
在那里,他看见那夜行之灵,心神沉溺于饮酒;其面与目呈铜赤之色,斜卧于金榻之上。
Verse 15
स्रग्दामापूरितशिखं हरिचन्दनभूषितम् । केतकीगर्भपत्राभिर्दन्तैर्घोरतराननम् ॥
其顶髻充盈,以花鬘庄严,又涂饰黄檀香;其齿如鸡冠花(ketakī)内瓣之鞘,面容极其可怖。
Verse 16
वामोरुमाश्रितां चास्य ददर्शायतलोचनाम् । पत्नीं मदनिकाṃ नाम पुंस्कोकिलकलस्वनाम् ॥
又见其妻名曰摩陀尼迦(Madanikā),倚其左股,双目修广;其声甜美,如雄杜鹃之啼。
Verse 17
ततो रोषपरीतात्मा कन्धरः कन्दरस्थितम् । तमुवाच सुदुष्टात्मन्नेहि युध्यस्व वै मया ॥
于是坎陀罗(Kandhara)怒火充塞其心,对那住在洞窟者说道:“噫,恶心之徒,出来——与我真战!”
Verse 18
यस्माज्जेष्ठो मम भ्राता विश्रब्धो घाततस्त्वया । तस्मात्त्वां मदसंसक्तं नयिष्ये यमसादनम् ॥
“因我长兄信任于你,却为你所杀;故我必将你这沉醉而为傲慢所缚者,送往阎摩(Yama,死王)之居处。”
Verse 19
विश्वस्तघातिनां लोकाः ये च स्त्रीबालघातिनाम् । यास्यसे निरयान् सर्वांस्तांस्त्वमद्य मया हतः ॥
那些是背信弃义者、杀害妇孺者的报应之界。今日你将被我所杀,堕入所有那些地狱。
Verse 20
मार्कण्डेय उवाच । इत्येवं पतगेन्द्रेण प्रोक्तं स्त्रीसन्निधौ तदा । रक्षः क्रोधसमाविष्टं प्रत्यभाषत पक्षिणम् ॥
马尔坎德亚说:当鸟王在那女子面前如此说完,罗刹怒火中烧,回答了那只鸟。
Verse 21
यदि ते निहतो भ्राता पौरुषं तद्धि दर्शितम् । त्वामप्यद्य हनिष्ये ऽहं खड्गेनानेन खेचर ॥
如果你的兄弟确实被我所杀,那正是勇武的展现。今日,我也将用这把剑斩杀你,噢,行空者(Khecara)!
Verse 22
तिष्ठ क्षणं नात्र जीवन् पतगाधम यास्यसि । इत्युक्त्वाञ्जनपुञ्जाभं विमलं खड्गमाददे ॥
“站住片刻;你绝不能活着离开此地,卑鄙的鸟!”说完这话,他拿起一把无瑕的剑,黑如一团眼药膏(Anjana)。
Verse 23
ततः पतगराजस्य यक्षाधिपभटस्य च । बभूव युद्धमतुलं यथा गरुडशक्रयोः ॥
于是,鸟王与夜叉王的战士之间爆发了一场无与伦比的战斗,就像迦楼罗与帝释天(Indra)之间的著名战斗一样。
Verse 24
ततः स राक्षसः क्रोधात् खड्गमाविध्य वेगवत् । चिक्षेप पतगेन्द्राय निर्वाणाङ्गारवर्चसम् ॥
尔时,那罗刹怒火中烧,挥舞利剑,疾速掷向鸟王;剑光闪烁,犹如火焰将熄之赤炭。
Verse 25
पतगेन्द्रश्च तं खड्गं किञ्चिदुत्प्लुत्य भूतलात् । वक्त्रेण जग्राह तदा गरुडः पन्नगं यथा ॥
随后,鸟王迦楼罗离地跃起,以喙衔住那利剑,宛如捕获一条毒蛇。
Verse 26
वक्त्रपादतलैर्भङ्क्त्वा चक्रे क्षोभमथातुलम् । तस्मिन्भग्ने ततः खड्गे बाहुयुद्धमवर्तत ॥
他以喙啄足踏发起猛攻,引发了巨大的震动。当那利剑折断后,战斗随之转变为徒手肉搏。
Verse 27
ततः पतगराजेन वक्षस्याक्रम्य राक्षसः । हस्तपादकरैराशु शिरसा च वियोजितः ॥
随后,那罗刹被鸟王踏住胸膛,顷刻间手足与头颅皆被斩断。
Verse 28
तस्मिन् विनिहते सा स्त्री खगं शरणमभ्यगात् । किञ्चित् संजातसंत्रासा प्राह भर्त्या भवामि ते ॥
罗刹既毙,那女子便走向神鸟寻求庇护。她略带惊恐地说道:“愿为君之妻。”
Verse 29
तामादाय खगश्रेष्ठः स्वकं गृहमगात् पुनः । गत्वा स निष्कृतिं भ्रातुर्विद्युद्रुपनिपातनात् ॥
那最上之鸟携她而去,又返回自己的居所。到达之后,他为其兄长行赎罪之仪(prāyaścitta),因为有树被雷击而倒下。
Verse 30
कन्धरस्य च सा वेश्म प्राप्येच्छारूपधारिणी । मेनकातनया सुभ्रूः सौपर्णं रूपमाददे ॥
抵达坎达罗(Kandharā)的居处时,她——能随意化形者、眉目秀美的美那迦(Menakā)之女——化作鸟形,宛如迦楼罗(Garuḍa)。
Verse 31
तस्यां स जनयामास तार्क्षों नाम सुतां तदा । मुनिशापाग्निविप्लुष्टां वपुमप्सरसां वराम् ॥ तस्या नाम तदा चक्रे तार्क्षोमिति विहङ्गमः ॥
随后他在她身上得一女,名为塔尔克索(Tārkṣo)。她是一位卓越的天女(apsaras),其身因一位圣仙诅咒之火而灼伤。那只鸟便为她取名“塔尔克索”。
Verse 32
मण्डपालसुताश्चासंश्चत्वारोऽमितबुद्धयः । जरितारिप्रभृतयो द्रोणान्ता द्विजसत्तमाः ॥
而曼达帕拉(Maṇḍapāla)有四个儿子,智慧不可度量——以贾里塔里(Jaritāri)为首,以德罗那(Droṇa)为末,噢,最胜的两次生者。
Verse 33
तेषां जगहन्यो धर्मात्मा वेदवेदाङ्गपारगः । उपयेमे स तां तार्क्षी कन्धरानुमते शुभाम् ॥
他们之中,最幼者——心怀正法,通晓吠陀及其支分——在坎达罗(Kandharā)同意之下,迎娶了那吉祥的塔尔克希(Tārkṣī)。
Verse 34
कस्यचित्त्वथ कालस्य तार्क्षो गर्भमवाप ह । सप्तपक्षाहिते गर्भे कुरुक्षेत्रं जगाम सा ॥
过了一段时日,塔尔克莎(Tārkṣā)怀了胎。她怀孕满七个半月期(七个半月段)后,便前往俱卢之野——库鲁克舍特拉(Kurukṣetra)。
Verse 35
कुरुपाण्डवयोर्युद्धे वर्तमाने सुदारुणे । भावित्वाच्चैव कार्यस्य रणमध्ये विवेश सा ॥
当俱卢族与般度族之间那极其可怖的大战正酣之时,且因其事已为命定所趋,她便走入战场中央。
Verse 36
तत्रापश्यत् तदा युद्धं भगदत्तकिरीटिनोः । निरन्तरं शरैरासीदाकाशं शलभैरिव ॥
在那里,他看见薄伽达多(Bhagadatta)与那位戴冠的勇士交战。苍穹被箭矢不绝地充满,宛如飞蛾或蝗群成群翻涌。
Verse 37
पार्थकोदण्डनिर्मुक्तमासन्नमतिवेगवत् । तस्या भल्लमहिश्यामं त्वचं चिच्छेद जाठरीम् ॥
那从帕尔塔(Pārtha)之弓放出的箭,以骇人的速度逼近;凭其宽阔的箭镞,割裂了她腹部的皮肤,黑如蛇身。
Verse 38
भिन्ने कोष्ठे शशाङ्काभं भूमावण्डचतुष्टयम् । आयुषः सावशेषत्वात् तूलराशाविवापतत् ॥
当那粮仓(贮藏处)被破开时,四个卵状之物、色白如月,坠落于地——如同一堆棉絮——因为所余的生命时分已极其微少。
Verse 39
तत्पातसमकाले च सुप्रतीकाद्गजोत्तमात् । पपात महती घष्टा बाणसंच्छिन्नबन्धना ॥
就在他坠落的刹那,从名为苏普拉提迦(Supratīka)的上等战象背上,一座巨大的象背战台(howdah)坠下;其系缚之索已被箭矢斩断。
Verse 40
समं समन्तात् प्राप्ता तु निर्भिन्नधरणीतला । छादयन्ती खगाण्डानि स्थितानि पिशितोपरी ॥
然而它向四方均匀铺展;大地表面被撕裂而开。它覆盖着那躺在血肉之上的鸟卵,便停立于彼处。
Verse 41
हते च तस्मिन् नृपतौ भगदत्ते नरेश्वरे । बहून्यहाऽन्यभूद्युद्धं कुरुपाण्डवसैन्ययोः ॥
而当那位国王——人中之主薄伽达多(Bhagadatta)——被诛之后,俱卢与般度两军之间的战斗仍持续了许多日。
Verse 42
वृत्ते युद्धे धर्मपुत्रे गते शान्तनवान्तिकम् । भीष्मस्य गदतोऽशेषान् श्रोतुं धर्मान् महात्मनः ॥
战争既毕,达摩之子(坚战,Yudhiṣṭhira)前往善檀努之子(毗湿摩,Bhīṣma)处,欲详尽聆听那位大心者毗湿摩所宣说的一切法(dharma)。
Verse 43
घष्टागतानि तिष्ठन्ति यत्राण्डानि द्विजोत्तम । आजगाम तमुद्देशं शमीको नाम संयमी ॥
“噢,二次生者中最胜者啊:那些卵所安止并停留之处,正是那地方,一位自持的苦行者名为沙弥迦(Śamīka)来到。”
Verse 44
स तत्र शब्दमशृणोच्चिचीकुचीति वाशताम् । बाल्यादस्फुटवाक्यानां विज्ञानेऽपि परे सति ॥
在那里,他听见那些哭喊“cicīku-cī”的声音,如婴儿般的咿呀。虽其理解本已成熟,但那出自幼稚之语,含混不清,难以辨明。
Verse 45
अथर्षिः शिष्यसहितो घृष्टामुत्पाट्य विस्मितः । अमातृपितृपक्षाणि शिशुकानि ददर्श ह ॥
于是圣者偕同弟子撕开那筑巢的草丛,惊异地看见几只幼雏,竟无父母在旁照料。
Verse 46
तानि तत्र तथा भूमौ शमीको भगवान् मुनिः । दृष्ट्वा स विस्मयाविष्टः प्रोवाचानुगतान् द्विजान् ॥
见那些事物就那样伏在地上,德高的圣者沙弥迦(Śamīka)满怀惊异,便对随行的婆罗门诸人说道。
Verse 47
सम्यगुक्तं द्विजाग्र्येण शुक्रेणोशनसा स्वयम् । पलायनपरं दृष्ट्वा दैत्यसैन्यं सुरार्दितम् ॥
因此,二生者中最卓越者——舒克罗(Śukra),即乌沙那斯(Uśanas)亲口所言——确实恰当;因为他看见代底耶(Daitya)之军意欲逃遁,正被诸天追逼驱迫。
Verse 48
न गन्तव्यं निवर्तध्वं कस्माद् व्रजथ कातराः । उत्सृज्य शौर्ययशसी क्व गताः न मरिष्यथ ॥
“不可前去——速速回转!你们为何如懦夫般逃窜?既已抛却勇武与荣誉,你们还能往何处去而不遭死亡?”
Verse 49
नश्यतो युध्यतो वापि तावद्भवति जीवितम् । यावद्धातासृजत् पूर्वं न यावन्मनसेप्सितम् ॥
无论将亡或正战斗,生命只延续到造命者达特利(Dhātṛ)先前所造所定的期限,绝不会如人心中所愿那般长久。
Verse 50
एके म्रियन्ते स्वगृहे पलायन्तोऽपरे जनाः । भुञ्जन्तोऽन्नं तथैवापः पिबन्तो निधनं गताः ॥
有人死于自家屋内,有人死于逃亡之际。同样,有人于进食时终命,有人于饮水时殒身。
Verse 51
विलासिनस्तथैवान्ये कामयाना निरामयाः । अविक्षताङ्गाः शस्त्रैश्च प्रेतराजवशङ्गताः ॥
有人贪求享乐,有人欲望炽盛却无病患;其肢体甚至不为兵刃所伤——然而仍已落入亡者之王、鬼众之主(Preta-rāja/阎摩)的掌控。
Verse 52
अन्ये तपस्याभिरता नीताः प्रेतनृपानुगैः । योगाभ्यासे रताश्चान्ये नैव प्रापुरमृत्युताम् ॥
有人虽奉行苦行(tapas),仍被鬼王——死者之主——的随从所掳去;有人虽沉浸于瑜伽修持,终究未得不死。
Verse 53
शम्बराय पुरा क्षिप्तं वज्रं कुलिशपाणिना । हृदयेऽभिहतस्तेन तथापि न मृतोऽसुरः ॥
往昔,执金刚者因陀罗将金刚雷霆掷向商婆罗(Śambara)。虽被击中心脏,那阿修罗竟仍未死。
Verse 54
तेनैव खलु वज्रेण तेनैनेन्द्रेण दानवाः । प्राप्ते काले हता दैत्या स्तत्क्षणान्निधनं गताः ॥
确实,正是凭那金刚雷霆——因陀罗之武器——诸达那婆被诛灭。待其命定之时到来,诸代底耶遭击倒,并于同一刹那走向毁灭。
Verse 55
विदित्वैवं न सन्त्रासः कर्तव्यो विनिवर्तते । ततो निवृत्तास्ते दैत्या स्त्यक्त्वा मरणजं भयम् ॥
“既已如此明了,便不应怀抱惊惶;惊惶自会平息。于是那些代底耶退去,已抛却由死亡而生的恐惧。”
Verse 56
इति शुक्रवचः सत्यं कृतमेभिः खगोत्तमैः । ये युद्धेऽपि न सम्प्राप्ताः पञ्चत्वमतिमानुषे ॥
由此,这些最卓越的鸟类使舒克罗之言成为真实:那些即便在战斗中也未曾遭遇“成为五者”(即死亡)之境者,竟以超越凡人尺度的方式遭此结局。
Verse 57
क्वाणाडानां पतनं विप्राः क्व घण्टापतनं समम् । क्व च मांसवसारक्तैर्भूमेरास्तरणक्रियाः ॥
“噢,婆罗门们,小小的 āṇāḍa 的坠落何在?又何物可比钟之坠落?又何处有以肉、脂与血铺覆大地之举?”
Verse 58
केऽप्येते सर्वथा विप्रा नैते सामान्यपक्षिणः । दैवानुकूलता लोके महाभाग्यप्रदर्शिनी ॥
“不论如何,噢,婆罗门们,这些众生在各方面皆为殊胜;它们并非寻常之鸟。于世间,唯有命运的眷顾(天意、神圣摄持)方能显现大福德。”
Verse 59
एवमुक्त्वा स तान् वीक्ष्य पुनर्वचनमब्रवीत् । निवर्तताश्रमं यात गृहीत्वा पक्षिबालकान् ॥
他如此说罢,又注视着他们,再次说道:“你们回去吧;带着这些雏鸟,前往林居道场(精舍)。”
Verse 60
मार्जाराखुभयं यत्र नैषामण्डजजन्मनाम् । श्येनतो नकुलाद्वापि स्थाप्यन्तां तत्र पक्षिणः ॥
凡这些卵生之类不惧猫与鼠之处,唯当在彼处饲养群鸟——同样也须在能免于鹰隼,乃至獴之侵害的安全之地。
Verse 61
द्विजाः किं वातियत्नेन मार्यन्ते कर्मभिः स्वकैः । रक्ष्यन्ते चाखिला जीवा यथैते पक्षिबालकाः ॥
噫,二生者啊,单凭个人之力又能成就什么?众生以自业而遭死亡;而一切有情亦复得护佑——正如此诸雏鸟。
Verse 62
तथापि यत्नः कर्तव्यो नरैः सर्वेषु कर्मसु । कुर्वन् पुरुषकारं तु वाच्यतां याति नो सताम् ॥
即便如此,人于一切事业仍当勤勉用功;然若唯恃个人之力而行(以为尽在于此),则为善人所讥责。
Verse 63
इति मुनिवरचोदितास्ततस्ते मुनितनयाः परिगृह्य पक्षिणस्तान् । तरुविटपसमाश्रितालिसङ्घं ययुरथ तापसरम्यमाश्रमं स्वम् ॥
既蒙诸仙中最胜者如是教诲,那些仙人之子便携取诸鸟。随后他们前往自家林居道场——为修苦行者所喜——其处群蜂栖息于树枝之间。
Verse 64
स चापि वन्यं मनसाभिकामितं प्रगृह्य मूलं कुसुमं फलं कुशान् । चकार चक्रायुध-रुद्र-वेधसां सुरेन्द्र-वैवस्वतः जातवेदसाम् ॥
于是他取来心中所备的林野供品——根、花、果与库沙草——向执轮者毗湿奴、鲁陀罗、维陀诃斯(梵天)、诸天之主因陀罗、毗婆斯伐多(阎摩)以及阇多吠陀斯(阿耆尼)奉献火供与供养。
Verse 65
अपाम्पतेर्गोष्पतिवित्तरक्षिणोः समीरणस्यापि तथा द्विजोत्तमाः । धातुर्विधातुस्त्वथ वैश्वदेविकाः श्रुतिप्रयुक्ता विविधास्तु सत्क्रियाः ॥
噢,最胜的二生者啊,吠陀所规定的清净仪轨(satkriyāḥ)种类繁多——有关于水之主者、关于牲畜之主与护财之神者,也有关于风神者;同样也有为达特利(Dhātṛ)与毗达特利(Vidhātṛ)而设的仪式,以及与诸神总类相应的毗湿瓦提婆(Vaiśvadeva)祭仪。
The chapter interrogates possessiveness and violence (mamatā and adharmic aggression) and then broadens into a reflection on death’s inevitability: fear and flight do not determine longevity, while effort (puruṣakāra) remains ethically mandated even under the sovereignty of time (kāla/daiva).
This Adhyaya is not a Manvantara-chronology unit; instead, it builds the text’s instructional frame by establishing a Suparṇa genealogy and the origin-context for extraordinary birds whose later speech and counsel function as a vehicle for analytic dharma exposition.
It does not belong to the Devi Mahatmyam sequence (Adhyayas 81–93). Its relevance is genealogical and didactic: it traces the Suparṇa line (Garuḍa → descendants → Kaṅka/Kandhara → Tārkṣī) and introduces a karma-focused ethical discourse through Śamīka’s rescue and instruction.