Adhyaya 50
Brahma KhandaAdhyaya 5086 Verses

Adhyaya 50

Āhnika-Dharma: Dawn Purification, Sandhyā-Upāsanā, Tarpana, Pañca-Mahāyajñas, and Aśauca Rules

梵天(Brahmā)开示自 Brāhma-muhūrta 起的完整日常法度:思惟 dharma/artha,于内心观修哈利(Hari),并以黎明沐浴严守 śauca,视其为一切吉祥仪轨之门。又为不能全身沐浴者列出替代净化法,并说明六种沐浴体系,终至心净与瑜伽净化。继而讲述 Sandhyā 修持:ācamana,持 kuśa 与清水净化真言,诵持 Gāyatrī-japa,行 prāṇāyāma,并以吠陀太阳赞歌作 Sūrya-upāsanā,指出 Sandhyā 能维系行仪资格与灵性上升。晨仪之后,融入居家义务:agnihotra/homa,事奉上师(guru),svādhyāya,正午沐浴规矩,以及详尽水仪(Aghamarṣaṇa、Āpo hi ṣṭhā、mārjana)。最后阐明 tarpana 供水礼(圣线佩戴位置),以 Puruṣa-sūkta 与“tad viṣṇoḥ”礼敬诸神,并列 pañca-mahāyajñas(Vaiśvadeva、bhūta-bali、敬客、施食众生、每日 śrāddha)。结尾引入 aśauca(仪式不净)依 varṇa 与人生阶段之期限,为后续净律讨论作铺垫。

Shlokas

Verse 1

नामैकोनपञ्चाशत्तमोध्यायः ब्रह्मोवाच / अहन्यहनि यः कुर्यात्क्रियां स ज्ञानमाप्नुयात् / ब्राह्मे मुहूर्ते चोत्थाय धर्ममर्थं च चिन्तयेत्

梵天说道:若有人日日依教奉行日常仪轨,便能获得真实的智慧。于婆罗门吉时(Brāhma-muhūrta)起身,应思惟达摩,并思惟阿尔塔(正当生计与人生正目的)。

Verse 2

चिन्तयेद्धृदि पद्मस्थमानन्दमजरं हरिम् / उषः काले तु संप्राप्ते कृत्वा चावश्यकं बुधः

当于心中观想哈利(Hari):祂安住于心莲之上,乃纯然喜乐,永不衰朽。黎明到来时,智者先办妥必要之事,然后应如此内观禅念。

Verse 3

स्त्रायान्नदीषु शुद्धासु शौचं कृत्वा यथाविधि / प्रतः स्नानेन पूयन्ते ये ऽपि पापकृतो जनाः

在清净的河流中依仪行持净身(śauca);凭借清晨沐浴,即便造过罪业之人也得以洗净。

Verse 4

तस्मात्सर्वप्रयत्नेन प्रातः स्नानं समाचरेत् / प्रातः स्नानं प्रशंसन्ति दृष्टादृष्टष्टकरं हि तत्

因此,当竭尽所能修行清晨沐浴。诸圣贤称赞晨浴,因为它带来今世可见之益,亦成就不可见的功德(来世福报)。

Verse 5

सुखात्सुप्तस्य सततं लालाद्याः संस्त्रवन्ति हि / अतो नैवाचरेत्कर्माण्यकृत्वा स्नानमादितः

人若安睡,唾液等诸多体液常会不断流出;因此,未先沐浴之前,不应开始任何仪式或应行之业。

Verse 6

अलक्ष्मीः कालकर्णो च दुः स्वप्नं दुर्विचिन्तितम् / प्रतः स्नानेन पापानि धूयन्ते नात्र संशयः

不祥之女阿拉克什米、凶灵迦罗迦尔那、恶梦与害人的恶念——于黎明沐浴,则诸罪皆得洗净;对此毫无疑惑。

Verse 7

न च स्नानं विना पुंसां प्राशस्त्यं कर्म संस्मृतम् / होमे जप्ये विशेषेण तस्मात्स्नानं समाचरेत्

不先沐浴,凡人所行诸吉祥仪轨皆不被视为真正可称许;尤其在护摩火供与持诵真言之时。故当如法勤行沐浴。

Verse 8

अशक्तावशिरस्कं तु स्नानमस्य विधीयते / आर्द्रेण वाससा वापि मार्जनं कायिकं स्मृतम्

若有人无力行全身沐浴,则规定行“不及于首”的部分沐浴。又或以湿布拭身,亦被视为身之净化。

Verse 9

ब्राह्ममाग्नेयमुद्दिष्टं वायव्यं दिव्यमेव च / वारुणं यौगिकं तद्वत्षडङ्गं स्नानमाचरेत्

应依所说修行六分净浴:婆罗门净浴、阿耆尼耶(火)净浴、婆耶毗耶(风)净浴、天界净浴、伐楼那(水)净浴,以及同样的瑜伽净浴。

Verse 10

ब्राह्मं तु मार्जनं मन्त्रैः कुशैः सोदकबिन्दुभिः / आग्रेयं भस्मनाऽपादमस्तकाद्देहधूननम्

婆罗门式净化,是以真言、以库沙草,并以点滴净水而拭净。阿耆尼耶式净化,是以圣灰(bhasma)涂身,自足至顶抖拂净身。

Verse 11

गवां हि रजसा प्रोक्तं वायव्यं स्नानमुत्तमम् / यत्तु सातपवर्षेण स्नानं तद्दिव्यमुच्यते

以牛群扬起的尘土沐浴,被宣说为至上的“Vāyavya”(以风净化之浴);而在日光与雨露中受洗而浴者,称为“Divya”(天圣之浴)。

Verse 12

वारुणं चावगाहं च मानर्स त्वात्मवेदनम् / यौगिकं स्नानमाख्यातं योगेन हरिचिन्तनम्

入水浸没称为“伐楼那(Varuṇa)之浴”;心中之浴即自知自证。所谓瑜伽之浴,是以瑜伽观念哈利(Hari)。

Verse 13

आत्मतीर्थमिति ख्यातं सेवितं ब्रह्मवादिभिः / क्षीरवृक्षसमुद्भूतं मालतीसम्भवं शुभम्

此被称为“Ātma-tīrtha(自我圣渡)”,为宣说梵(Brahman)者所依止。其性吉祥,出自乳汁之树,并由末利花(mālatī,茉莉藤)而生。

Verse 14

अपामार्गं च विल्वं च करवीरं च धावने / उदङ्मुखः प्राङ्मुखो वा भक्षयेद्दन्तधावनम्

洁齿之时,可用阿波摩罗伽(apāmārga)、毕尔瓦(bilva)或卡拉维罗(karavīra)之枝;面向北方或东方,应当行此洁齿之法。

Verse 15

प्रक्षाल्य भुक्त्वा तज्जह्याच्छुचौ देशे समाहितः / स्नात्वा सन्तर्पयेद्देवानृषीन्पितृगणांस्तथा

食毕漱洗净洁后,当以摄心在清净之处如法弃置残余。随后沐浴已毕,应行“santarpaṇa”(令其满足之供养),奉献于诸天(Deva)、诸仙圣(Ṛṣi),以及诸祖灵众(Pitṛ)。

Verse 16

आचम्य विधिवन्नित्यं पुनराचम्य वाग्यतः / संमार्ज्य मन्त्रै रात्मानं कुशैः सोदकबिन्दुभैः

每日依仪轨行阿遮摩那(净水啜饮),复以摄持言语再行阿遮摩那;当以真言自净,执拘舍草并佐以水滴而拂拭其身。

Verse 17

आपोहिष्ठाव्याहृतिभिः सावित्र्या वारुणैः शुभैः / ओङ्कारव्याहृतियुतां गायत्त्रीं वेदमातरम्

以“Āpo hi ṣṭhā…”等圣句为首,配以萨维特丽(伽雅特丽)与吉祥的伐楼那真言,并以“唵”连同诸吠阿呼利(vyāhṛti),当诵伽雅特丽——吠陀之母。

Verse 18

जप्त्वा जलाञ्जलिं दद्याद्भारस्करं प्रति तन्मनाः / प्राक्कूलेषु ततः स्थित्वा दर्भेषु सुसमाहितः

诵毕所定真言,当以一掬清水作供献,心专注于日神婆斯迦罗(Bhāskara)。随后立于东方之岸,坐于达尔婆草上,安住摄心,凝然不散。

Verse 19

प्राणायामं ततः कृत्वा ध्यायेत्सन्ध्यामिति श्रुतिः / या सन्ध्या सा जगत्सूतिर्मायातीता हि निष्कला

继而行调息(prāṇāyāma),当观想桑迪雅(Sandhyā)——圣闻如是宣说。彼桑迪雅乃宇宙之本源,超越幻力(māyā),真实无分无片(niṣkala)。

Verse 20

ऐश्वरी केवला शक्तिस्तत्त्वत्रयसमुद्भवा / ध्यात्वा रक्तां सितां कृष्णां गायत्त्रीं वै जपेद्वुधः

伽雅特丽乃至上主宰之力,纯一无对,由三种本原(三tattva)而生。观想伽雅特丽之红、白、黑三相之后,智者当诚心持诵其真言(japa)。

Verse 21

प्राङ्मुखः सततं विप्रः सन्ध्योपासनमाचरेत् / सन्ध्याहीनो ऽशुचिर्नित्यमनर्हः सर्वकर्मसु

面向东方,二次生者应恒常修行桑迪亚(Sandhyā)之礼拜。缺失桑迪亚者恒为不净,诸般仪轨与职责皆不堪任。

Verse 22

यदन्यत्कुरुते किञ्चिन्न तस्य फलभाग्भवेत् / अनन्यचेतसः सन्तो ब्राह्मणा वेदपारगाः

人纵使另行诸事,也不得分受其果;唯有心一境性、已达吠陀彼岸的圣洁婆罗门,方堪受取并同享其结果。

Verse 23

उपास्य विधिवत्सन्ध्यां प्राप्ताः पूर्वपरां गतिम् / यो ऽन्यत्र कुरुते यत्नं धर्म कार्ये द्विजोत्तमः

如法奉行桑迪亚(Sandhyā)之仪者,得至至上之道(最高境界)。然二次生中之最胜者,若舍离正法而向他处用功,终不达彼目标。

Verse 24

विहाय सन्ध्याप्रणतिं स याति नरकायुतम् / तस्मात्सर्वप्रयत्नेन सन्ध्योपासनमाचरेत्

舍弃对桑迪亚(Sandhyā)的恭敬礼拜者,将堕入无量地狱;故当竭尽诸般努力,修行桑迪亚之礼拜。

Verse 25

उपासितो भवेत्तेन देवो योगतनुः परः / सहस्रपरमां नित्यां शतमध्यां दशावराम्

由此修持之礼拜与持诵(japa),至上神祇——其身即瑜伽——得以如法悦纳。此行当恒常守持:以千为上数,以百为中数,以十为下数。

Verse 26

गायत्त्रीं वै जपेद्विद्वान्प्राङ्मुखः प्रयतः शुचिः / अथोपतिष्ठेदादित्यमुदयस्थं समाहितः

智者持戒清净,应面向东方诵念伽耶特丽(Gāyatrī);随后心神专一,于日出之时礼敬阿底提耶(Āditya)——太阳尊神。

Verse 27

मन्त्रैस्तु विविधैः सौरैः ऋग्यजुःसामसंज्ञितैः / उपस्थाय महायोगं देवदेवं दिवाकरम्

随后以种种太阳圣咒——称为《梨俱》(Ṛg)、《夜柔》(Yajus)与《娑摩》(Sāma)之咒——如法礼敬天中之神、诸神之神、伟大瑜伽行者日光者(Divākara)。

Verse 28

कुर्वीत प्रणतिं भूमौ मूर्धानमभिमन्त्रितः / ॐ खखोल्काय शान्ताय कारणत्रयहेतवे

先以真言加持其首,然后俯伏于地,诵曰:“唵——礼敬卡科霍尔卡(Khakholka),寂静者,三因之因。”

Verse 29

निवेदयामि चात्मानं नमस्ते ज्ञानरूपिणे / त्वमेव ब्रह्म परममापो ज्योती रसो ऽमृतम्

我将自身奉献于汝;礼敬汝,汝之形体即纯净智知。唯汝是至上梵(Brahman)——汝为诸水、为光明、为精髓(rasa)、为不死甘露。

Verse 30

भूर्भुवः स्वस्त्वमोङ्कारः सर्वो रुद्रः सनातनः / एतद्वै सूर्यहृदयं जप्त्वा स्तवनमुत्तमम्

“Bhūr、Bhuvaḥ、Svaḥ;以及音节唵(Oṁ)——祂是一切,是鲁陀罗(Rudra),是永恒者。”如是诵持此为“苏利耶心咒”(Sūrya-hṛdaya),便得至上赞颂。

Verse 31

प्रातः काले च मध्याह्ने नमस्कुर्याद्दिवाकरम् / अथागम्य गृहं विप्रः (पश्चात्) समाचम्य यथाविधि

清晨与正午之时,应向日神(Divākara)顶礼。随后婆罗门归家,再依仪轨行阿遮摩那(ācāmana)净口之礼。

Verse 32

प्रज्वाल्य वह्निं विधिवज्जुहुयाज्जातवेदसम् / ऋत्विक् पुत्रो ऽथ पत्नी वा शिष्यो वापि सहोदरः

点燃圣火之后,应依仪轨向“知一切者”阇多吠陀(Jātavedas,即火神阿耆尼)奉献供酥。主祭祭司,或儿子,或妻子,或弟子,乃至同胞兄弟,皆可行此仪。

Verse 33

प्राप्यानुज्ञां विशेषेण जुहुयाद्वा यथाविधि / विना म (त) न्त्रेण यत्कर्म नामुत्रेह फलप्रदम्

以正当方式特别取得许可之后,应依规行火供;因为凡不依真言而作之业,既不在此世结果,亦不在来世得果。

Verse 34

दैवतानि नमस्कुर्यादुपहारान्निवेदयेत् / गुरुं चैवाप्युपासीत हितं चास्य समाचरेत्

应向诸天神明顶礼,并恭敬奉献供品;亦当侍奉上师(guru),行一切有益于师之事。

Verse 35

वेदाभ्यासं ततः कुर्यात्प्रयत्नाच्छक्तितो द्विजः / जपेद्वाध्यापयेच्छिष्यान्धारयेद्वै विचारयेत्

随后,二生者应尽其所能勤修吠陀之学;或行持持诵(japa),或教授弟子;当令教法入于记忆,并复加思惟省察。

Verse 36

अवेक्षेत च शास्त्राणि धर्मादीनि द्विजोत्तमः / वैदिकांश्चैव निगमान्वेदाङ्गानि च सर्वशः

最殊胜的两次生者,应当勤勉省察有关达摩等的诸论典;亦当学习吠陀之圣典(尼伽摩)以及一切吠陀支分(Vedāṅga,吠陀的辅肢)。

Verse 37

उपयादीश्वरं चैव योगक्षेमप्रासिद्धये / साधयेद्विविधानर्थान्कुटुम्बार्थं ततो द्विजः

为求得并稳固瑜伽与刹摩(兴盛与安保),两次生者应如法礼敬主宰(自在天);其后,当为养家而经营种种生计之道。

Verse 38

ततो मध्याह्नसमये स्नानार्थं मृदमाहरेत् / पुष्पाक्षतांस्तिलकुशान् गोमयं शुद्धमेव च

随后于正午之时,应取洁净之土以供沐浴,并备花、阿克沙塔(整粒米)、芝麻、库沙草,以及纯净的牛粪。

Verse 39

नदीषु देवखातेषु तडागेषु सरः सु च / स्नानं समाचरेन्नैव परकीये कदाचन

应当在江河、神圣所开凿的水渠与水池、池塘与湖泊中沐浴;但在任何时候,都不可无权无许可而在他人所属之水中沐浴。

Verse 40

पञ्च पिण्डाननुद्धृत्य स्नानं दुष्यन्ति नित्यशः / मृदैकया शिरः क्षाल्यं द्वाभ्यां नाभेस्तथोपरि

若未先除去五团不净而沐浴,则其沐浴每次皆成染污。以一份净土洗头;以两份净土洗自脐以上之处。

Verse 41

अधश्च तिसृभिः क्षाल्यं पादौ षट्भिस्तथैव च / मृत्तिका च समुद्दिष्टा वृद्धामलकमात्निका

在身体下部,应以三捧水洗净;双足亦当以六捧水洗净。同样也规定所用的净土(mṛttikā),即名为“vṛddhāmalaka-mātnikā”的那一种。

Verse 42

गोमयस्य प्रमाणं तु तेनाङ्गं लेपयेत्ततः / प्रक्षाल्याचम्य विधिवत्ततः स्नायात्समाहितः

取适量牛粪,先涂抹于身;随后洗净,并依仪轨行阿遮摩那(ācamana)净口之法,然后以摄心专注而沐浴。

Verse 43

लेपयित्वा तु तीरस्थस्तल्लिङ्गैरेव मन्त्रतः / अभिमन्त्र्य जलं मन्त्रैरालिङ्गैर्वारुणैः शुभैः

立于河岸,应依其相应之标志而诵合宜真言,并涂抹那圣物;继而以与同一标志相应的吉祥伐楼那(Varuṇa)真言加持净化其水,以行其仪。

Verse 44

त्नानकाले स्मरेद्विष्णमापो नारायणो यतः / प्रेक्ष्य ओङ्कारमादित्यं त्रिर्निमज्जेज्जलाशये

沐浴之时,当忆念毗湿奴(Viṣṇu),因为诸水皆为那罗延(Nārāyaṇa)之体。观日轮为神圣的“唵”(Oṁ),于水中三次沉入。

Verse 45

आचान्तः पुनराचामेन्मन्त्रेणानेन मन्त्रवित् / अन्तश्चरसि भूतेषु गुहायां विश्वतोमुखः

既已行阿遮摩那(ācamana),通晓真言者当以此咒再啜净水:“汝行于一切众生之内,住于心窟之中,噫!遍面者,向一切方所者。”

Verse 46

त्वं यज्ञस्त्वं वषट्कार आपो ज्योती रसो ऽमृतम् / द्रुपदां वा त्रिरभ्यस्येव्द्याहृतिप्रणवान्विताम्

汝即祭祀(yajña),亦即“vaṣaṭ”之献供呼声;汝为诸水、为光明、为精髓、为甘露(amṛta)不死之蜜。应以具足三界圣呼(vyāhṛti)与圣音“唵”(praṇava)的圣句,三遍诵念以忆持汝。

Verse 47

सावित्रीं वा जपे द्विद्वांस्तथा चैवाघमर्षणम् / ततः संमार्जनं कुर्यादापोहिष्ठामयोभुवः

博学之二次生者(dvija)当诵萨维特丽(Sāvitrī/Gāyatrī),亦诵除罪赞(Aghamarṣaṇa)。其后应行洒净清洁,诵“Āpo hi ṣṭhā…”与“A mayo bhuvaḥ”等水咒。

Verse 48

इदमापः प्रवहतव्याहृतिभिस्तथैव च / ततो ऽभिमन्त्रितं तोपमापो हिष्ठादिमन्त्रकैः

此诸水当随诵三界圣呼(vyāhṛti)而倾注流出。其后,应以诵咒加持,使水成就仪轨之净,先从“Āpo hi ṣṭhā…”起,并及诸水咒。

Verse 49

अन्तर्जलमवाङ्मग्नो जपेत्त्रिरघमर्षणम् / द्रुपदां वाथ सावित्ररिं तद्विष्णोः परमं पदम्

沉入水中,俯面向下者,当三遍诵除罪咒(Aghamarṣaṇa)。或亦可诵Drupadā,或诵萨维特丽(Sāvitrī/Gāyatrī),并诵以“tad viṣṇoḥ paramaṃ padam”起首之咒,礼敬毗湿奴至上之境。

Verse 50

आवर्तयेद्वा प्रणवं देवदेवं रमरेद्धरिम् / अपः पाणौ समादाय जप्त्वा वै मार्जने कृते

或复当反复诵圣音(praṇava)“唵”,礼敬诸神之神哈利(Hari)。以手取水,持诵真言,而后行mārjana之洒净清洁。

Verse 51

विन्यस्य मूर्ध्नि तत्तोयं मुच्यते सर्वपातकैः / सन्ध्यामुपास्य चाचम्य संस्मरेन्नित्यमीश्वरम्

将那水安置于头顶,便能解脱一切罪业。行完三时礼敬(Sandhyā)并以阿遮摩那(ācamana)净口后,应恒常忆念主宰。

Verse 52

अथोपतिष्ठेदादित्यमूर्ध्वपुष्पान्विताञ्जलिम् / प्रक्षिप्यालोकयेद्देवमुदयन्तं न शक्यते

随后应恭立于阿底提耶(太阳神)之前,合掌举花向上。献花之后,当观照升起的神明;然其初升之时,不可强行直视。

Verse 53

उदुत्यं चित्रमित्येवं तच्चक्षुरिति मन्त्रतः / हंसः शुचिषदेतेन सावित्र्या च विशेषतः

诵念以“Udutyaṃ citram”与“Tac-cakṣur”开头的真言,尤其持诵萨维特丽(Gāyatrī)之咒,即能由此法体悟并奉事住于清净的“哈ṃ萨”。

Verse 54

अन्यैः सौरैर्वैदिकैश्च गायत्त्रीं च ततो जपेत् / मन्त्रांश्च विविधान्पश्चात्प्राक्कूले च कशासने

其后当持诵伽雅特丽,并同诵其他太阳真言与吠陀真言。随后再诵诸多别的真言,端坐于库沙草座上,使其尖端朝向东方。

Verse 55

तिष्ठंश्च वीक्ष्यमाणोर्ऽकं जपं कुर्यात्समाहितः / स्फटिकाब्जाक्षरुद्राक्षैः पुत्रजीवसमुद्भवैः

当专注而立、观照太阳之时,应行持咒念(japa),以水晶、莲子、鲁陀罗叉(rudrākṣa)或菩多罗吉瓦(putrajīva)之子制成的念珠为助。

Verse 56

कर्तव्या त्वक्षाला स्यादन्तरा तत्र सा स्मृता / यदि स्यात्क्लिन्नवासा वै वारिमध्यगतश्चरेत्

在那段间隙中,确应行身之洗净(沐浴/净身)——此为法则。若衣服已湿,当行走而仍处于水中之中。

Verse 57

अन्यथा च शुचौ भूम्यां दर्भेषु च समाहितः / प्रदक्षिणं समावृत्य नमस्कृत्य ततः क्षितौ

否则,当于清净之地、圣达婆草上端坐,摄心安住;继而作吉祥的右绕(pradakṣiṇa);随后恭敬顶礼,并伏身礼拜于地。

Verse 58

आचम्य च यथाशास्त्रं शक्त्या स्वाध्यायमाचरेत् / ततः सन्तर्पयेद्देवानृषीन्पितृगणांस्तथा

依经教如法行阿遮摩那(ācamana,净口)之后,当尽己力修习诵读自学(svādhyāya);继而行供水慰悦之礼(tarpana),奉献于诸天(Deva)、诸仙圣(Ṛṣi)以及诸祖灵(Pitṛ)。

Verse 59

आदावोङ्कारमुच्चार्य नमो ऽन्ते तर्पयामि च / देवान्ब्रह्मऋषींश्चैव तर्पयेदक्षतोदकैः

先诵出“唵”(Oṁ),末以“南无”(namo)作礼,复言“我今奉献塔尔帕那(tarpana)”;随后以掺和不碎净谷(akṣata)的清水,慰悦诸天与诸婆罗门仙(Brahmarṣi)。

Verse 60

पितॄन्देवान्मुनीन् भक्त्या स्वसूत्रोक्तविधानतः

当以虔敬之心,依自家所传家祭仪轨(gṛhya-sūtra)之规定,严谨奉事祖灵(Pitṛ)、诸天(Deva)与诸牟尼圣者(Muni)。

Verse 61

देवर्षोंस्तर्पयेद्धीमानुदकाञ्जलिभिः पितॄत् / यज्ञोपवीती देवानां निवीती ऋषितर्पणे

智者应以掬水行供养,使诸Pitṛ(祖灵)得以满足;供奉诸Deva时,当以upavīta之法佩戴圣线;供奉诸Ṛṣi时,则以nivīta之法佩戴。

Verse 62

प्राचीनावीती पित्र्ये तु तेन तीर्थेन भारत / निष्पीड्य स्नानवस्त्रं वै समाचम्य च वाग्यतः

噢,婆罗多啊,凡为Pitṛ而行之仪,应以prācīnāvītī之法佩戴圣线。随后在该tīrtha处,拧干沐浴之衣,行ācamana,并收摄言语,寡言自持。

Verse 63

स्वैर्मन्त्रैरर्चयेद्देवान्पुष्पैः पत्रैस्तथाम्बुभिः / ब्रह्माणं शङ्करं सूर्यं तथैव मधुसूदनम्

当以自身所受之规定咒语,以花、叶及清水礼拜诸神——礼拜梵天(Brahmā)、商羯罗(Śaṅkara)、苏利耶(Sūrya),亦礼拜摩度苏达那(Madhusūdana,毗湿奴)。

Verse 64

अन्यांश्चाभिमतान्देवान् भक्त्या चाक्रोधनो हर ! / प्रदद्याद्वाथ पुष्पादि सूक्तेन पुरुषेण तु

又,噢哈罗(Hara)啊,当以虔敬而无嗔恚之心,亦向所敬所选之其他神祇献供;随后以《普鲁沙颂》(Puruṣa-sūkta)相伴,奉献花等供品。

Verse 65

आपो वा देवताः सर्वास्तेन सम्यक् समर्चिताः / ध्यात्वा प्रणवपूर्वं वै देवं वारिसमाहितः

水本身即当观为一切神祇;因此藉由水,诸神皆得如法供养。先以圣音“Oṁ”为前导而入观,令心专注于水中,默念并观想至上神圣。

Verse 66

नमस्कारेण पुषापाणि विन्यसेद्वै पृथक्पृथक् / नर्ते ह्याराधनात्पुण्यं विद्यते कर्म वैदिकम्

以恭敬礼拜之心,应将花朵一一分开安置;因为离开虔诚的供奉礼敬,吠陀的仪式行为并不能产生功德。

Verse 67

तस्मात्तत्रादिमध्यान्ते चेतसा धारयेद्धरिम् / तद्विष्णोरिति मन्त्रेण सूक्तेन पुरुषेण तु

因此,在此仪轨之中,于开始、中间与结束之时,都应以心持念主哈利——借由“tad viṣṇoḥ”之真言,并诵《普鲁沙颂》(Puruṣa Sūkta)。

Verse 68

निवेदयेच्च आत्मानं विष्णवे ऽमलतेजसे / तदाध्यात्ममनाः शान्तस्तद्विष्णोरिति मन्त्रतः

当将自身奉献归投于无垢光明的毗湿奴;令心内向、安寂,以“tad viṣṇoḥ”之真言而行。

Verse 69

अप्रेते सशिरा वेतियजेत्वा पुष्पके हरिम् / देवयज्ञं पितृयज्ञं तथैव च / मानुषं ब्रह्मयज्ञं च पञ्च यज्ञान्समाचरेत्

在成为饿鬼般不安之灵(preta)之前,应礼拜哈利——观想其安坐于迦楼罗之上——并当如法修行五大祭(pañca-yajña):天神祭(deva-yajña)、祖灵祭(pitṛ-yajña)、人祭/待客济人(manuṣya-yajña)、以及梵祭(brahma-yajña:诵习圣典)。

Verse 70

यदि स्यात्तर्पणादर्वाग्ब्रयज्ञं कुतो भवेत् / कृत्वा मनुष्ययज्ञं वै ततः स्वाध्यायमाचरेत्

若先行作塔尔帕那(tarpaṇa:献水),梵祭(brahma-yajña:诵习圣典)又怎能开展?当先行人祭/待客济人(manuṣya-yajña),然后再修斯瓦迪亚雅(svādhyāya:自习吠陀与论典)。

Verse 71

वैश्वदेवस्तु कर्तव्यो देवयज्ञः स तु स्मृतः / भूतयज्ञःऋ स वै ज्ञेयो भूतेभ्यो यस्त्वयं बलिः

应当行“毗湿瓦提婆”(Vaiśvadeva)之供养;此被忆念为“天神祭”(deva‑yajña)。而施与诸有情众生之供物(bali),当知为“众生祭”(bhūta‑yajña)。

Verse 72

श्वभ्यश्च श्वपचेभ्यश्च पतितादिभ्य एव च / दद्याद्भूमौ बहिस्त्वन्नं पक्षिभ्यश्च द्विजोत्तमः

最上之二次生者,应将食物置于屋外地上,施与犬类、贱民(所谓“煮狗者”)、堕落之人等,并亦施与群鸟。

Verse 73

एकं तु भोजयेद्विप्रं पितॄनुद्दिश्य सत्तमाः / नित्यश्राद्धं तदुद्दिश्य पितृयज्ञो गतिप्रदः

至善之人当为诸祖灵(Pitṛ)而供养哪怕一位婆罗门。此举若作为每日的施祖祭(śrāddha)而行,即名“祖灵祭”(Pitṛ‑yajña),能赐予祖先善妙的后续归趣。

Verse 74

उद्धृत्य वा यथाशक्ति किञ्चिदन्नं समाहितः / वेदतत्त्वार्थविदुषे द्विजायैवोपपादयेत्

当以摄心专注,随己之力,取出少分饮食,奉献于通达吠陀真义与要旨之二次生者(婆罗门)。

Verse 75

पूजयेदतिथिं नित्यं नमस्येदर्चयोद्द्विजम् / मनोवाक्कर्मभिः शान्तं स्वागतैः स्वगृहं ततः

应常常礼敬来宾,并向二次生的贤者顶礼供奉。以身口意安宁,然后在自家中如法迎请、善加款待。

Verse 76

भिक्षामाहुर्ग्रासमात्रमन्नं तत्स्याच्चतुर्गुणम् / पुष्कलं हन्तकारं तु तच्चतुर्गुणमुच्यते

经中说:“bhikṣā”(乞得之供食)仅如一口之量;依规所定的份额为其四倍。若铺张过度、数量奢侈,则名为“hantakāra”(招致败亡之过量),亦以四倍之度来说明。

Verse 77

गोदोहमात्रकालं वै प्रतीक्ष्यो ह्यतिथिः स्वयम् / अभ्यागतान्यथाशक्ति पूजयेदतिथिं तथा

应亲自等候宾客,时长如同挤一头牛乳之久;待宾客到来,当随己之力恭敬供养、礼迎款待。

Verse 78

भिक्षां वै भिक्षवे दद्याद्विधिवद्ब्रह्यचारिणे / दद्यादन्नं यथाशक्ति अर्थिभ्यो लोभवर्जितः

当依仪轨施与乞士以bhikṣā,并按正法供养梵行者(brahmacārin)。离贪之心,亦应随己之力施食于求乞之人。

Verse 79

भुञ्जति बन्धुभिः सार्धं वाग्यतो ऽन्नमकुत्सयन् / अकृत्वा तु द्विजः पञ्च महायज्ञान् द्विजोत्तमः

即便是卓越的再生者(dvija),若与亲族同食,谨慎言语而不轻贱食物,却不行“五大祭”(pañca mahāyajña),则虽有其身分,仍难免受责。

Verse 80

भुञ्जते चेत्स मूढात्मा तिर्यग्योनिं च गच्छति / वेदाभ्यासो ऽन्वहं शक्त्या महायज्ञक्रियाक्षमाः

若愚迷之人沉溺于此等禁忌之享受,便将堕入畜生之胎(tiryag-yoni)。因此,应随己之力日日习诵吠陀,并使自己堪能于诸大祭的仪式行持。

Verse 81

नाशयन्त्याशु पापानि देवानामर्चनं तथा / यो मोहादथ वालस्यादकृत्वा देवतार्चनम्

礼敬诸天(Deva)能迅速灭除罪业;但若因迷惑或懒惰而不行神祇之供奉礼拜者,必得相反之果报。

Verse 82

भुङ्क्ते स याति नरकान्त्सूंकरेष्वेव जायते / अशौचं संप्रवक्ष्यामि अशुचिः पातकी सदा

食用禁食或不净之物者,将堕诸地狱,且确实转生于猪类之中。今我当宣说阿修迦(aśauca,不净):不净之人恒为罪人。

Verse 83

अशौचं चैव संसर्गाच्छुद्धिः संसर्गवर्जनात् / दशाहं प्राहुराशौचं सर्वेविप्रा विपश्चितः

阿修迦(aśauca,不净)由与不净者相接触而生;清净则由远离此等接触而得。诸位明智的婆罗门圣者皆宣说:不净之期为十日。

Verse 84

मृतेषु वाथ जातेषु ब्राह्मणानां द्विजोत्तम / आदन्तजननात् सद्य आचूडादेकरात्रकम्

噢二生中之最胜者:婆罗门家中若有死亡或出生,不净即刻生起,唯持续一夜——自婴儿生齿之时起,直至行剃发礼(cūḍā)为止。

Verse 85

त्रिरात्रमौपनयनाद्दशरात्रमतः परम् / क्षत्त्रियो द्वादशहेन दशभिः पञ्चभिर्विशः

行乌帕那耶那(upanayana,授圣线礼)之后,不净之守持为三夜;其后则延至十夜。刹帝利为十二日;吠舍为十日,或依所行法则为五日。

Verse 86

शुध्येन्मासेन वै शूद्रो यतीनां नास्ति पातकम् / रात्रिभिर्मासतुल्याभिर्गर्भस्त्रावेषु शौचकम्

首陀罗经一月而得清净;对诸游行出家者(yatī)则无不净之过。若遇流产,当守净期,其夜数与一月相等。

Frequently Asked Questions

The chapter states a graded discipline for the constant observance: a thousand as the highest count, a hundred as the middle, and ten as the minimum, in the context of propitiating the supreme deity through the practice.

It explicitly names the water-hymn “Āpo hi ṣṭhā…”, the phrase “A mayo bhuvaḥ…”, and the Aghamarṣaṇa for sin-removal; it also permits Sāvitrī (Gāyatrī), the Drupadā hymn, and ‘tad viṣṇoḥ paramaṃ padam’ as alternatives, alongside repeated praṇava (Oṁ).

Offerings to Devas are done with the thread in upavīta; offerings to Ṛṣis with nivīta; and rites for Pitṛs with prācīnāvītī, followed by ācamana and restraint of speech at the tīrtha.

The chapter gives a general ten-day framework, then specifies: for Brāhmaṇas, a short immediate impurity in early childhood contexts and later three nights after upanayana, extending to ten; for Kṣatriyas twelve days; for Vaiśyas ten (or five by some rule); for Śūdras one month; for renunciants none; and for miscarriage, as many nights as correspond to the month-count of gestation.