
Varāha-uddhāraṇa and the Re-constitution of Bhū-maṇḍala (Earth after Pralaya)
本章在苏多(Sūta)主导的讲述中,呈现一段较为精密的宇宙生成叙事:当梵天(Brahmā)的“夜”(naiśa kāla,等同一千劫)终了,创造再度开启。经文描绘近似大毁灭(pralaya)的景象——幽暗之水弥漫,动与不动的众生或已灭尽,或处于未显现之态。梵天的运作之力被比作风(vāyu)在宇宙海中鼓荡。核心事件是拯救沉没的大地:神祇化现为野猪形的伐罗诃(Varāha),入水探寻,举起隐没的布弥(Bhūmi,大地)。大地被抬升并安置后,叙事转入世界重建:分定诸海与河流的疆域;先前被劫火(saṃvartaka 之火)熔化的群山,经风力聚敛与沉积而再度凝成,并各就其位。末尾提示标准的地界结构——七洲(dvīpa)及其环绕之海——以此重建可居、可测绘的空间,为后续关于地域、族类与时间循环的叙述奠基。
Verse 1
इति श्रीब्रह्माण्डे महापुराणे वायुप्रोक्ते पूर्वभागे द्वितीये अनुषङ्गापादे कल्पमन्वन्तराख्यानवर्णनं नाम षष्ठो ऽध्यायः सूत उवाच तुल्यं युगसहस्रं वै नैशं कालमुपास्य सः / शर्वर्यंते प्रकुरुते ब्रह्मा तूत्सर्गकारणात्
如是,在《圣梵卵大摩诃往世书》(风神所说)前分中,名为“劫与摩奴万多罗叙事之描写”的第六章。苏多曰:度过等同千个瑜伽的夜时之后,于夜尽之际,梵天因放出创造之因而起行施作。
Verse 2
ब्रह्मा तु सलिले तस्मिन् वायुर्भूत्वा तदाचरत् / अन्धकारार्णवे तस्मिन्नष्टे स्थावरजंगमे
在那水中,梵天化为风而行;当彼黑暗之海里,一切静与动的众生皆已灭尽之时。
Verse 3
जलेन समनुप्लाव्य सर्वतः पृथिवीतले / प्रविभागेन भूतेषु सत्यमात्रे स्थितेषु वा
水从四方淹没了大地之面;众生虽有种种分判差别,却唯住于纯一之真(satya)。
Verse 4
निशयामिव खद्योतः प्रावृट् काले ततस्तदा / तदा कामेन तरसामन्यामानःस्वयं धिया
如同雨季之夜的萤火微光,那时他被欲愿之势所驱,以自身的智慧向他处寻觅。
Verse 5
सोप्युपायं प्रतिष्ठायां मार्गमाणस्तदा भुवम् / ततस्तु सलिले तस्मिन् ज्ञात्वा त्वन्तर्गतो महीम्
他也依凭方便之策,于彼时寻觅大地;继而得知大地已潜入那片水中,便进入其中。
Verse 6
अन्धमन्यतमं बुद्धा भूमेरुद्धरणक्षमः / चकार तं तु देवो ऽथ पूर्वकल्पादिषु स्मृतः
他知晓那是极其幽暗之处;那位能举出大地、在前诸劫中被追忆的天神,遂行此事。
Verse 7
सत्यं रूपं वराहस्य कृत्वाभो ऽनुप्रविश्य च / अद्भिः संछादितामिच्छन् पृथिवीं स प्रजापतिः
那位生主化现为野猪(婆罗诃)之真实形相,进入水中,欲寻得被水所覆的大地。
Verse 8
उद्धृत्योर्वीमथ न्यस्ता सापत्यांतामतिन्यसत् / सामुद्राश्च समुद्रेषु नादेयाश्च नदीषु च
他举起大地,安置于其本位,并连同疆界使之稳固;海水归于诸海,河水归于诸河。
Verse 9
पृथक्तास्तु समीकृत्य पृथिव्यां सो ऽचिनोद्गिरीन् / प्राक्सर्गे दह्यमाने तु पुरा संवर्त काग्निना
他将分散之物汇聚一处,在大地上安置群山。于远古前劫之初,当“桑瓦尔塔之火”焚烧万有之时亦然。
Verse 10
तेनाग्निना विलीनास्ते पर्वता भुवि सर्वशः / शैल्यादेकार्णवे तस्मिन्वायुना ये तु संहिताः
因那火焰,大地四方诸山尽皆熔化。在那唯一的大海中,山石之聚由风力汇拢成团。
Verse 11
निषिक्ता यत्र यत्रासंस्तत्रतत्राचलो ऽभवत् / स्कन्धाचलत्वादचलाः पर्वभिः पर्वताः स्मृताः
凡其倾注之处,彼处即成“不动之山”。因其如肩峰(skandha)般稳固,故名“阿遮罗”(acala);又因具“节段”(parva),故称“帕尔瓦塔”(parvata)。
Verse 12
गिरयो हि निगीर्णत्वादयनात्तु शिलोच्चयाः / तत स्तावासमुद्धृत्य क्षितिमंतर्जलात्प्रभुः
因曾被吞没,故称“吉里”(giri);又因是高耸的石聚,故名“石丘”(śiloccaya)。随后主宰将其举起,从内海之水中拯出大地。
Verse 13
सप्तसप्त तु वर्षाणि तस्या द्वीपेषु सप्तसु / विषमाणि समीकृत्य शिलाभिरभितो गिरीन्
在她的七大洲中,历经七七之年,他平整崎岖之地,并以巨石环护群山,使之坚固。
Verse 14
द्वीपेषु तेषु वर्षाणि चत्वारिंशत्तथैव तु / तावंतः पर्वताश्चैव वर्षांते समवस्थिताः
在那些洲岛之中,各有四十个“伐尔沙”(地域);每一地域的边际,又有同数的群山安住其间。
Verse 15
स्वर्गादौ कांतिविष्टास्ते स्वभावेनैव नान्यथा / सप्तद्वीपा समुद्राश्च अन्योन्यस्यानुमंडलम्
它们在天界等处依自性而光辉灿然,并非他因;七洲与诸海彼此相环,互为轮围。
Verse 16
सन्निविष्टाः स्वभावेन समावृत्य परस्परम् / भूराद्याश्चतुरो लोकाश्चंद्रादित्यौ ग्रहैः सह
它们依自性而安置,彼此相覆相护;又有从“布尔”起的四界诸世,与月与日及诸行星同在。
Verse 17
पूर्ववन्निर्ममे ब्रह्मा स्थावराणीह सर्वशः / कल्पस्य चास्य ब्रह्मा चासृजद्यः स्थानिनः सुरान्
如同往昔,梵天在此处处造作一切“斯塔瓦拉”(不动之类);并于此劫中,又生出各安其位的诸天神众。
Verse 18
आपोग्निं पृथिवीं वायुमंतरिक्षं दिवं तथा / स्वर्गं दिशः समुद्रांश्च नदीः सर्वांस्तु पर्वतान्
梵天造作了水、火、地、风、虚空与天界;又造天国、诸方、诸海、一切河流与群山。
Verse 19
ओषधीनामात्मनश्च आत्मनो वृक्षवीरुधाम् / लवकाष्ठाः कलाश्चैव मुहुर्त्तान्संधिरात्र्यहान्
他制定了药草之性、自我之我(ātman),以及树木藤蔓之我;又立下拉婆与迦湿吒等时量、诸分刻(kalā)、须臾(muhūrta)、交界、夜与昼。
Verse 20
अर्द्धमासांश्च मासांश्च अयनाब्दान् युगानि च / स्थानाभिमानिनश्चैव स्थानानिच पृथक्पृथक्
他规定了半月、月、行程(ayana)、年与诸劫(yuga);并分别安立各处的主宰(sthānābhimānin)及其所在之处。
Verse 21
स्थानात्मनस्तु सृष्ट्वा च युगावस्था विनिर्ममे / कृतं त्रेता द्वापरं च तिष्यं चैव तथा युगम्
他先造就“处所之性”(sthana),继而建立诸劫之相:克利多(Kṛta)、特雷塔(Tretā)、德瓦帕拉(Dvāpara),以及提舍耶(Tiṣya,即迦利)劫。
Verse 22
कल्पस्यादौ कृतयुगे प्रथमं सो ऽसृजत्प्रजाः / प्रागुक्ताश्च मया तुभ्यं पूर्व्वे कल्पे प्रजास्तु ताः
在劫初、克利多纪元(Kṛta-yuga)之时,他首先创造众生(prajā)。这些众生,正是我在前一劫中已向你述说过的。
Verse 23
तस्मिन्संवर्त माने तु कल्पे दग्धास्तदग्निना / अप्राप्तायास्तपोलोकं पृथिव्यां याः समासत
在那走向收摄(saṃvarta)的劫中,凡未至苦行天(Tapoloka)而仍居于大地者,皆为彼火所焚尽。
Verse 24
आवर्तन्ते पुनः सर्गे वीक्षार्थं ता भवन्ति हि / वीक्ष्यार्थं ताः स्थितास्तत्र पुनः सर्गस्य कारणात्
它们在再度创生时复归轮转;确然是为被观见而显现。由于再创之因,它们安住于彼处以供观照。
Verse 25
ततस्ताः सृज्यमानास्तु सन्तानार्थं भवन्ति हि / धर्म्मार्थ काममोक्षाणामिह ताः साधिताः स्मृताः
随后它们被创造出来,确是为延续后嗣而有。在此它们被忆念为成就法、利、欲与解脱之资具。
Verse 26
देवाश्च पितरश्चैव क्रमशो मानवास्तथा / ततस्ते तपसा युक्ताः स्थानान्यापूरयन्पुरा
诸天与祖灵(Pitri),以及依次的人类亦然。于是他们具足苦行,在远古充满各自的位处。
Verse 27
ब्राह्मणो मनवस्ते वै सिद्धात्मानो भवन्ति हि / आसंगद्वेषयुक्तेन कर्मणा ते दिवं गताः
那些摩奴确成婆罗门之性,成就自性(悉达阿特曼)。以夹杂执著与憎恶之业,他们升至天界。
Verse 28
आवर्तमानास्ते देहे संभवन्ति युगे युगे / स्वकर्म्मफलशेषेण ख्याताश्चैव तदात्मकाः
他们复归于身,世世代代于诸劫中再生。凭自身业果之余,他们得名显著,并具与之相应的性情。
Verse 29
संभवन्ति जने लोकाः कल्पागमनिबन्धनाः / अप्सु यः कारणं तेषां बोधयन्कर्म्मणा तु सः
诸世界在众生中生起,系于劫期来临之法。彼在水中为其因者,以业令其觉知。
Verse 30
कर्म्मभिस्तैस्तु जायन्ते जनलोकाच्छुभाशुभैः / गृह्णन्ति ते शरीराणि नानारूपाणि योनिषु
由彼等善恶之业,他们自众生界(Janaloka)而生;在诸种胎生中,受取种种形相之身。
Verse 31
देवाद्याः स्थावरांतास्तु आपद्यन्ते परस्परम् / तेषां मेध्यानि कर्म्माणि प्रायशः प्रतिपेदिरे
自诸天乃至不动之类,彼此堕入对方之境。多半各自承受其相应而清净之业。
Verse 32
तस्माद्यन्नांमरूपाणि तान्येव प्रतिपेदिरे / पुनः पुनस्ते कल्पेषु जायन्ते नामरूपेणः
因此他们复得同样的名与相;在一劫又一劫中,他们以同一名相反复出生。
Verse 33
ततः सर्गो ह्युपसृष्टिं सिसृक्षोर्ब्रह्मणस्तु वै / ताः प्रजा ध्यायतस्तस्य सत्याभिध्यायिनस्तदा
于是,欲行创造之梵天,由其副创(upasṛṣṭi)而起诸生之造化。彼时,梵天一念观想,众生便成就真实之愿(satya-saṅkalpa)。
Verse 34
मिथुनानां सहस्रं तु मुखात्समभवत्किल / जनास्ते ह्युपपद्यन्ते सत्त्वोद्रिक्ताः सुतेजसः
据说从口中生出一千对男女。那些众生以萨埵为胜,具足清净光辉之威德而显现。
Verse 35
चक्षुषो ऽन्यत्सहस्रं तु मिथुनानां ससर्ज्ज ह / ते सर्वे रजसोद्रिक्ताः शुष्मिणश्चाप्यमर्षिणः
又从双眼造出另一千对男女。他们皆以罗阇为盛,刚猛有力,且多嗔怒。
Verse 36
सहस्रमन्यदसृजद् बाहूनामसतां पुनः / रजस्तमोभ्यासुद्धिक्ता गृहशीलास्ततः स्मृताः
复又从双臂造出另一千对。他们杂具罗阇与昏暗之性,故被称为乐于家居之众。
Verse 37
आयुषोंऽते प्रसूयंते मिथुनान्येव वासकृत् / कूटकाकूटकाश्चैव उत्पद्यंते मुमूर्षुणाम्
至于寿命将尽之时,由“瓦萨克利特”所生者唯是成对而出;而对临终之人,亦会生起“库塔卡”与“阿库塔卡”。
Verse 38
कुतः कुलमथोत्पाद्य ताः शरीराणि तत्यजुः / ततः प्रभृति कल्पे ऽस्मिन्मैथुनानां च संभवः
随后他们建立族系而舍弃其身。从那时起,在此劫中,成对众生的出生便延续不绝。
Verse 39
ध्यानेन मनसा तासां प्रजानां जायते कृते / शब्दादिविषयः शुद्धः प्रत्येकं पञ्चलक्षणम्
在克利多时代,众生由入定之心而生;声等诸境皆清净,各各具足五种相。
Verse 40
इत्येवं मानसैर्भावैः प्रेष्ठं तिष्ठंति चाप्रजाः / तथान्वयास्तु संभूता यैरिदं पूरितं जगत्
如是以心之诸态而安住于可爱之相;由彼等而生诸系谱,使此世界充满。
Verse 41
सरित्सरःसमुद्रांश्च सेवंते पर्वतानपि / तदा ता ह्यल्पसंतोषायुद्धे तस्मिंश्चरंति वै
他们依止江河、湖泊与大海,也亲近群山;彼时为求些微满足,便在那争斗中往来游行。
Verse 42
पृथ्वी रसवती नाम आहारं व्याहरंति च / ताः प्रजाः कामचारिण्यो मानसीं सिद्धिमिच्छतः
在名为“味具”(Rasavatī)的大地上,他们只以言语称呼食物;那些众生随欲而行,希求心成就。
Verse 43
तुल्यमायुः सुखं रूपं तासामासीत्कृते युगे / धर्माधर्मौं तदा न स्तः कल्पादौ प्रथमे युगे
在克利多时代,他们的寿命、安乐与形貌皆同等;于劫初之第一纪元,当时既无达摩,亦无非达摩。
Verse 44
स्वेनस्वेनाधि कारेण जज्ञिरे तु युगेयुगे / चत्वारि तु सहस्राणि वर्षाणां दिव्यसंख्यया
众生依各自之职分与权能,于每一劫中相继出生;按天界之数,年数为四千。
Verse 45
आदौ कृतयुगं प्राहुः संध्यांशौ च चतुःशतौ / ततः सहस्रशस्तास्तु प्रजासु प्रथितास्विह
起初称为“克利多劫”;其劫之黎明与余晖各为四百。随后此说在众生之间以千般方式流传。
Verse 46
न तासां प्रतिघातो ऽस्ति न द्वंद्वं नापि च क्रमः / पर्वतोदधिवासिन्यो ह्यनिकेताश्रयास्तु ताः
她们无有阻碍,无有对立,亦无次第之缚;居于山岳与海滨,依止而无固定居所。
Verse 47
विशोकाः सत्त्वबहुला एकांतसुखिनः प्रजाः / ताश्शश्वत् कामचरिण्यो नित्यं मुदितमानसाः
众生无忧无悲,充满萨埵之德,安住于独处之乐;恒随所欲而行,心常欢悦。
Verse 48
पशवः पक्षिणश्चैव न तदासन्सरीसृपाः / नोद्विजा नोत्कटाश्चैव धर्मस्य प्रक्रिया तु सा
彼时有兽与鸟,却无爬行之类;无可惊惧者,亦无凶暴者——此即当时达摩之行。
Verse 49
समूल फलपुष्पाणि वर्त्तनाय त्वशेषतः / सर्वैकान्तसुखः कालो नात्यर्थं ह्युष्णशीतलः
连根的果与花无不不断生长。彼处时节唯是安乐,不甚炎热,亦不甚寒冷。
Verse 50
मनो ऽभिलषितः काम स्तासां सर्वत्र सर्वदा / उत्तिष्ठंति पृथिव्यां वै तेषां ध्यानै रसातलात्
他们心所愿求,处处时时皆得成就。凭其禅观之力,乃至从罗娑多罗亦能在大地上显现。
Verse 51
बलवर्णकरी तेषां जरारोगप्रणाशिनी / असंस्कार्यैः शरीरैस्तु प्रजास्ताः स्थिरयौवनाः
此能增其力与色泽,灭除衰老与疾病。其身不待诸般净化仪式而成,众生皆住于恒常青春。
Verse 52
तासां विना तु संकल्पाज्जायंते सिथुनात्प्रजाः / समं जन्म च रूपं च प्रीयंते चैव ताः समाः
于彼众中,唯凭意愿,不假男女交合,子嗣便得出生。其生与形皆同等,彼此亦以平等之爱相悦。
Verse 53
तदा सत्यमलोभश्च संतुष्टिश्च च सुखं दमः / निर्विशेषाश्च ताः सर्वा रूपायुःशिल्पचेष्टितैः
彼时真诚、无贪、知足、安乐与自制(达摩)并行。于容貌、寿命、技艺与行止,众皆无差别而平等。
Verse 54
अबुद्धिपूर्विका पृत्तिः प्रजानां भवति स्वयम् / अप्रवृत्तिः कृतद्वारे कर्मणः शुभपापयोः
众生自然而起无明之趋向;即使善业与恶业之门已开,对诸业仍现不趋不作之态。
Verse 55
वर्णाश्रमव्यवस्थाश्च न तदासन्न तत्कराः / अनिच्छाद्वेषयुक्तास्ता वर्त्तयन्ति परस्परम्
彼时尚无种姓与住期之制,亦无奉行者;众生怀不愿与憎恶,彼此相待如是。
Verse 56
तुल्यरूपायुषः सर्वा अधमोत्तमवर्जिताः / सुखप्राया विशोकाश्च उत्पद्यंते कृते युगे
在克利多时代,众生形貌寿命皆同,无卑无尊;多得安乐,且无忧悲而生。
Verse 57
लाभालाभौ न वा स्यातां मित्रामित्रौ प्रियाप्रियौ / मनसा विषयस्तासां निरीहाणां प्रवर्तते
无得无失,无友无敌,无爱无憎;于无欲者,诸境唯在心中起行。
Verse 58
नाति हिंसति वान्योन्यं नानुगृङ्णंति वै तदा
彼时众生不甚相害,亦不相互施以特别恩惠。
Verse 59
ज्ञानं परं कृतयुगे त्रेतायां यज्ञ उच्यते / पवृत्तं द्वापरे युद्धं स्तेयमेव कलौ युगे
在克利达瑜伽(Kṛtayuga),至上的圣智最为尊崇;在特雷塔瑜伽(Tretāyuga),祭祀(yajña)被称为根本。到兜婆罗瑜伽(Dvāpara),战争兴起;至迦梨瑜伽(Kali),盗取之风反而盛行。
Verse 60
सत्त्वं कृतं रजस्त्रेता द्वापरं तु रजस्तमः / कलिस्तमस्तु विज्ञेयं गुणवृत्तं गुमेषु तत्
克利达瑜伽以萨埵(sattva)为主;特雷塔瑜伽具罗阇(rajas)之性。兜婆罗瑜伽为罗阇与惰性(tamas)相杂;迦梨瑜伽当知以惰性为盛——此即诸“古那”(guṇa)在诸瑜伽中的运行。
Verse 61
कालः कृतयुगे त्वेष तस्य सन्ध्यां निबोधत / चत्वारि तु सहस्राणि वर्षाणां तत्कृतं युगम्
这便是克利达瑜伽的时量;也当知其“桑迪亚”(sandhyā,交界期)。克利达瑜伽为四千年之期。
Verse 62
साध्यांशौ तस्य दिव्यानि शतान्यष्टौ तु संख्यया / चत्वार्यैव सहस्राणि वर्षाणां मोनुषाणि तु
其交界分(sandhyā-aṃśa)以天年计为八百;以人间年计,则相当于四千年。
Verse 63
तदा तासु भवंत्याशु नोत्क्रोशाच्च विपर्ययाः / ततः कृत्युगे तस्मिन् ससंध्यांशे गते तदा
在那时,于那些时段中,并不会因所谓“高声呼号”(utkrośa)而迅速发生颠倒变异(viparyaya)。随后,当那克利达瑜伽连同其交界分一并过去之时,便……
Verse 64
पादावशिष्टो भवति युगधर्मस्तु सर्वशः / सन्ध्यायास्तु व्यतीतायाः सांध्यः कालो युगस्य सः
一切处的劫法仅余一分;当“沙恩提亚”(sandhyā)已逝之时,那便是该劫的“桑提亚”(sāṃdhya)暮时。
Verse 65
पादमिश्रावशिष्टेन संध्याधर्मे पुनः पुनः / एवं कृतयुगे तस्मिन्निश्शेषेंतर्दधे तदा
由于诸分混杂的余存,沙恩提亚之法屡屡显现。如此,当那克利塔劫彻底穷尽之时,它便于彼时隐没。
Verse 66
तस्यां च सन्धौ नष्टायां मानसी चाभवत्प्रजा / सिद्धिरन्ययुगे तस्मिंस्त्रेताख्ये ऽनंतरे कृतात्
当那交接期(sandhi)消失时,众生成为“意生”(mānasī),由心念而生。于克利塔之后紧接的特雷塔(Tretā)之劫中,成就(siddhi)显现。
Verse 67
सर्गादौ या मयाष्टौ तु मानस्यो वै प्रकीर्तिताः / अष्टौ ताः क्रमयोगेन सिद्धयो यांति संक्षयम्
在创世之初,我所宣说的八种意生成就(mānasī siddhi),这八者依次而趋于衰减。
Verse 68
कल्पादौ मानसी ह्येका सिद्धिर्भवति सा कृते / मन्वंतरेषु सर्वेषु चतुर्युगविभागशः
在一劫(kalpa)之初,于克利塔劫中唯有一种意生成就(mānasī siddhi)。在一切摩奴期(manvantara)中,皆依四劫分段而如是。
Verse 69
वर्णाश्रमाचारकृतः कर्मसिद्ध्युद्भवः कृतः / संध्या कृतस्य पादेन संक्षेपेण वशात्ततः
依循种姓与住期(梵行、家居等)之正行而修诸业,遂生圆满成就(悉地)。至克利多纪之暮时,此成就仅存一分之一,略而受制于时势。
Verse 70
कृतसंध्यांशका ह्येते त्रीनादाय परस्परम् / हीयंते युगधर्मास्ते तपःश्रुतबलायुषः
此三者相互承接克利多纪之暮分。诸纪之法渐次衰减:苦行、圣闻(śruti)、力量与寿命皆日益减损。
Verse 71
कृते कृताशे ऽतीते तु वभूव तदनन्तरम् / त्रेतायुगसमुत्पत्तिः सांशा च ऋषिसत्तमाः
当克利多纪之分已逝,随即其后,特雷塔纪便生起;诸位最胜仙人啊,那一纪亦是“有分”的,并非圆满。
Verse 72
तस्मिन् क्षीणे कृतांशे वै तासु शिष्टासु सप्तसु / कल्पादौ संप्रवृत्तायास्त्रेतायाः प्रसुखे तदा
当克利多纪之分已衰尽,而仅存于那余留的七种状态之中时,于劫初开始运行的特雷塔纪,在那时乃为安乐之世。
Verse 73
प्रणश्यति तदा सिद्धिः कालयोगेन नान्यथा / तस्यां सिद्धौ प्रनष्टायामन्या सिद्धिरजायत
彼时成就(悉地)唯因时之合(kāla-yoga)而消亡,别无他因。此成就既灭,复有另一成就生起。
Verse 74
अपांशौ तौ प्रतिगतौ तदा मेघात्माना तु वै / मेघेभ्यः स्तनयितृभ्यः प्रवृत्तं पृष्टिसर्जनम्
当那两分水气回归之时,便化为云体;从轰鸣的云中,背面般的雨水倾泻开始涌出。
Verse 75
सकृदेव तया वृष्ट्या संसिद्धे पृषिवीतले / प्रजा आसंस्ततस्तासां वृक्षश्च गृह संज्ञिताः
仅凭那一次降雨,大地表面便得以成就;随后众生出现,而对他们而言,树木便被称作“居所”。
Verse 76
सर्वः प्रत्युपभोगस्तु तासां तेभ्यो व्यजायत / वर्त्तयंतेस्म तेभ्यस्तास्त्रेतायुगमुखे प्रजाः
他们的一切受用皆由此而生;在特雷塔纪元之初,众生依凭这些而延续生计。
Verse 77
ततः कालेन महता तासामेव विपर्ययात् / संगलोलात्मको भावस्तदा ह्याकस्मिको ऽभवत्
随后经由漫长岁月,由于他们自身的变异,那时忽然生起一种动荡不安的状态。
Verse 78
यत्तद्भवति नारीणां जीवितांते तदार्तवम् / तदा तद्वै न भवति पुनर्युगबलेन तु
女子在生命终末所现的“ārtava(经血之相)”,彼时并不发生;然而因劫力(时代之力),此事后来又转变。
Verse 79
तासां पुनः प्रवृत्तं तन्मासिमासि तदार्तवम् / ततस्तेनैव योगेन वर्त्तते मैथुनं तदा
于是她们的经期又月复一月地出现;并因同样的因缘,在那时便发生了男女交合(maithuna)。
Verse 80
तेषां तत्का लभावित्वान्मासिमास्युपगच्छताम् / अकाले चार्तवोत्पत्त्या गर्भोत्पत्तिस्तदाभवत्
由于那时间的规律在她们身上月月临至;又因经期甚至在非时而起,于是当时便有了受胎。
Verse 81
विपर्ययेण तेषां तु तेन तत्काल भाविता / प्रणश्यंति ततः सर्वे वृक्षास्ते गृहसंज्ञिताः
然而因次序颠倒,受同一时势之力,那些名为“gṛha(屋)”的树木当时尽皆毁灭。
Verse 82
ततस्तेषु प्रनष्टेषु विभ्रांता व्याकुलेन्द्रियाः / अभिध्यायंति ताः सिद्धिं सत्याभिध्यायिनस्तदा
当那些尽皆毁灭时,常念真谛者迷惘不安、诸根扰动;于是他们便观想那种成就(悉地)。
Verse 83
प्रादुर्बभूवुस्तेषां तु वृक्षास्ते गृहसंज्ञिताः / वस्त्राणि च प्रसूयंते फलान्याभरणानि च
随后,那些名为“gṛha(屋)”的树又为他们显现;并且从中生出衣服、果实以及种种饰物。
Verse 84
तथैव जायते तेषां गन्धर्वाणां रसान्वितम् / आन्वीक्षिकं महावीर्यं पुटके पुटके मधु
同样地,诸乾闼婆得生具妙味之蜜;于一一小囊之中,显现大威力与“安维克希迦”之力。
Verse 85
तेन ता वर्त्तयन्ति स्ममुखे त्रेतायुगस्य वै / त्दृष्टपुष्टास्तया सिद्ध्या प्रजास्ता विगतज्वराः
凭此,他们在特雷塔纪之初得以维生;由此成就滋养,众生强健,诸热病皆息。
Verse 86
ततः कालांतरेप्येवं पुनर्लोभावृताः प्रजाः / वृक्षांस्ताः पर्यगृह्णंत मधु वा माक्षिकं बलात्
其后经时,众生复为贪欲所覆;他们强行围取诸树,夺取蜜汁,乃至蜂蜜。
Verse 87
तासां तेनापचारेण पुनर्लोभकृतेन वै / प्रनष्टा प्रभुणा सार्द्धं कल्पवृक्षाः क्वचित्क्वचित्
由于他们那般冒犯与再起贪欲,某些地方的如意树竟与主宰一同隐没消失。
Verse 88
तस्यामेवाल्पशिष्टायां सिद्ध्यां कालवशात्तदा / वर्त्तंते चानया तासां द्वंद्वान्यत्युत्थितानि तु
受时势所制,那时此成就仅余少分;由此,他们之间强烈的对立与冲突骤然兴起。
Verse 89
शीतवातातपास्तीव्रास्ततस्ता दुःखिता भृशम् / द्वंद्वैस्तैः पीड्यमानास्तु चुक्रुशुरावृणानि वा
他们被严酷的寒冷、狂风与烈日这等对待之苦所逼迫,痛苦至极;在煎熬中发出哀号,甚至把自身的创伤也显露出来。
Verse 90
कृत्वा द्वन्द्वप्रतीयातं निकेतानि विचेतसः / पूर्व निकामचारास्ते ह्यनिकेता यथाभवन्
为抵御这些对待之苦,他们建起居所,然而心神仍旧惶乱。那些从前随意游行的人,终究仍如无家可归者一般。
Verse 91
यथायोगं यथाप्रीति निकेतेष्ववसन्पुरा / मधुधुन्वत्सु निष्ठेषु पर्वतेषु नदीषु च
往昔他们随其所宜、随其所喜而居——在蜜香丰饶之地,在群山之中,也在江河之畔。
Verse 92
संश्रयंति च दुर्गाणि धन्वपावर्तमौदकम् / यथाजोषं यथाकामं समेषु विषमेषु च
他们也投依于难以攻入的险固之地——旷野沙地、水之回旋处与依水而成的堡垒;随其所安、随其所欲,无论平地或险地皆然。
Verse 93
आरब्धास्तान्निकेतान्वै कर्तुं शीतोष्णवारणात् / ततस्तान्निर्मयामासुः खेटानि च पुराणि च
为遮御寒热,他们开始建造那些居所;继而又营建村落,并兴起古老的城邑。
Verse 94
ग्रामांश्चैव यथाभागं तथैव नगराणि च / तेषामायामविष्कंभाः सन्निवेशांतराणि च
他们依其应得之分安置诸村与诸城;并规定其长度、宽度以及聚落布局的种种差别。
Verse 95
चक्रुस्तदा यथाज्ञानं मीत्वामीत्वात्मनोगुलैः / मानार्थानि प्रमाणानि तदा प्रभृति चक्रिरे
当时他们依其所知,用自己的手指反复丈量,制定了度量的标准;自那时起这些尺度便流行于世。
Verse 96
ययांगुलप्रदेशांस्त्रीन्हस्तः किष्कुं धनूंषि च / दश त्वंगुलपर्वाणि प्रादेश इति संज्ञितः
由此,以三段指量(aṅgula-pradeśa)制定了如“哈斯塔”(hasta)、“基什库”(kiṣku)与“达努什”(dhanuṣ)等度量;十个指节之数称为“普拉德沙”(prādeśa)。
Verse 97
अंगुष्ठस्य प्रदेशिन्या व्यासप्रादेश उच्यते / तालः स्मृतो मध्यमया गोकर्णश्चाप्यनामया
以拇指与食指所成之量称为“维亚萨-普拉德沙”(vyāsa-prādeśa);以中指为“塔拉”(tāla),以无名指亦称“戈卡尔纳”(gokarṇa)。
Verse 98
कनिष्ठया वितस्तिस्तु द्वादशांगुल उच्यते / रत्निरंगुलपर्वाणि संख्यया त्वेकविशतिः
以小指所量之“维塔斯提”(vitasti)称为十二指量(aṅgula);而“拉特尼”(ratni)按指节计数为二十一。
Verse 99
चत्वारि विंशतिश्चैव हस्तः स्यादंगुलानि तु / किष्कुः स्मृतो द्विरत्निस्तु द्विचत्वारिंशदंगुलः
经论记载:一“手”(hasta)为二十四指(angula);“基什库”(kiṣku,亦称双肘 dviratni)为四十二指。
Verse 100
चतुर्हस्तो धनुर्द्दंडो नालिका युगमेव च / धनुःसहस्त्रे द्वे तत्र गव्यूतिस्तौः कृता तदा
“弓杖”(dhanurdaṇḍa)为四肘长;“那利迦”(nālikā)与“瑜伽”(yuga)亦为度量。每一千弓计为两“牛行程”(gavyūti)。
Verse 101
अष्टौ धनुःसहस्राणि योजनं तैर्विभावितम् / एतेन योजनेनेह सन्निवेशास्ततः कृताः
以八千弓为一由旬(yojana)。依此由旬之度,此处诸聚落与营建遂得安置。
Verse 102
चतुर्णामथ दुर्गाणां स्वयमुत्थानि त्रीणि च / चतुर्थ कृतिमं दुग तस्य वक्ष्यामि निर्णयम्
城堡(durga)有四类:其中三类为自然自成;第四类为人造之城堡,其判别我将宣说。
Verse 103
सोत्सेधरंध्रप्राकारं सर्वतः खातकावृतम् / रुचकः प्रतिकद्वारं कुमारीपुरमेव च
其城垣高低起伏、设有孔隙,四面又为壕堑所环绕者,名为“鲁恰迦”(Rucaka);“普拉提迦门”(Pratikadvāra)与“童女城”(Kumārīpura)亦为其类。
Verse 104
द्विहस्तः स्रोतसां श्रेष्ठं कुमारीपुरमञ्चतान् / हस्तस्रोतो दशश्रेष्ठो नवहस्तोष्ट एव च
诸水流之中,“二肘流”最为殊胜,流经拘摩梨城附近;“肘流”之中,以十肘为最上,亦说九肘与八肘。
Verse 105
खेटानां च पुराणां च ग्रामाणां चैव सर्वशः / त्रिविधानां च दुर्गाणां पर्वतोदकधन्विनाम्
又论及诸聚落、古城与村邑的一切情形;并说三类堡垒:山堡、水堡与旷野(林野/荒漠)之堡。
Verse 106
कृत्रिमाणां च दुर्गाणां विष्कम्भायाममेव च / योजनादर्द्धविष्कम्भमष्टभागाधिकायतम्
即便是人工营垒,其宽与长亦依此法:宽为半由旬,长则在其上增八分之一。
Verse 107
परमार्द्धार्द्धमायामं प्रागुदक्प्लवनं पुरम् / छिन्नकर्णविकर्णं च व्यजनाकृतिसंस्थितम्
其城之长当依“最上半之半”的尺度,地势向东与向北微倾;其角或削或展,整体布置如扇形。
Verse 108
वृत्तं वज्रं च दीर्घ च नगरं न प्रशस्यते / चतुरस्रयुतं दिव्यं प्रशस्तं तैः पुरं कृतम्
圆形、金刚形或狭长形之城不被称许;他们建成四方之城,庄严如天,吉祥可赞。
Verse 109
चतुर्विंशत्परं ह्रस्वं वास्तु वाष्टशतं परम् / अत्र मध्यं प्रशंसंति ह्रस्वं काष्ठविवर्ज्जितम्
尺度少于二十四的住宅称为“短小(hrasva)”,而至八百者被视为上等“宅地(vāstu)”。此处称赞其中部——小巧而不以木材为构。
Verse 110
अथ किष्कुशतान्यष्टौ प्राहुर्मुख्यं निवेशनम् / नगरादर्द्धविषकंभः खेटं पानं तदूर्द्धतः
其次说,八百“kiṣku”的尺度为主要居处。“kheṭa”的规模相当于城邑直径的一半;其上更高一等称为“pāna”。
Verse 111
नगराद्योजनं खेटं खेटाद्गामोर्द्धयोजनम् / द्विक्रोशः परमा सीमा क्षेत्रसीमा चतुर्द्धनुः
从城邑起一由旬之内称为“kheṭa”;从kheṭa起半由旬之内称为“gāma”(村落)。两拘罗舍为最高界限,而田地之界为四“dhanu”。
Verse 112
विंशद्धनूंषि विस्तीर्णो दिशां मार्गस्तु तैः कृतः / विंशद्धनुर्ग्राममार्गः सीमामार्गो दशैव तु
他们所建的四方道路宽二十“dhanu”。村道亦宽二十“dhanu”,而界道仅宽十“dhanu”。
Verse 113
धनूंषि दश विस्तीर्णः श्रीमान् राजपथः कृतः / नृवाजिरथनागानामसंबाधस्तु संचरः
修建了宽十“dhanu”的华美王道,使人、马、车与象皆可无阻通行,不致拥塞。
Verse 114
धनूंषि चापि चत्वारि शाखारथ्याश्च तैर्मिताः / त्रिका रथ्योपरथ्याः स्युर्द्विका श्चाप्युपरत्यकाः
以四弓之量来定支路(śākhā-rathyā);上层大道(rathyoparathyā)为三弓之宽,上层小巷(uparatyakā)为二弓之宽。
Verse 115
जंघापथश्चतुष्पादस्त्रिपदं च गृहांतरम् / धृतिमार्गस्तूर्द्धषष्ठं क्रमशः पदिकः स्मृतः
“腿道”(jaṃghāpatha) 为四“足”(pāda)之宽,屋舍之间的间距为三“足”。“持道”(dhṛtimārga) 视为“上六分”(ūrdhva-ṣaṣṭha),即按六分之一而抬高;依次称为 padika。
Verse 116
अवस्कारपरीवारः पादमात्रं समंततः / कृतेषु तेषु स्थानेषु पुनर्गेहगृहाणि वै
在四周仅留一“足”(pāda)之宽作为 avaskāra(庭域/环绕之地)。诸处既成,便又重新建起屋舍与居所。
Verse 117
यथा ते पूर्वमासंश्च वृक्षास्तु गृह संस्थिताः / तथा कर्तुं समारब्धाश्चिंतयित्वा पुनः पुनः
正如从前树木安立于屋舍之中,他们反复思量之后,也开始照样再行营造。
Verse 118
वृक्षस्यार्वाग्गताः शाखा इतश्चैवापरा गताः / अत ऊर्द्ध गताश्चान्या एवं तिर्यग्गताः परा
树的枝条有的向下垂,有的向此处与彼处伸展;有的向上挺起,也有的斜向横展而开。
Verse 119
बुद्ध्यान्विष्य यथान्यायं वृक्षशाखा गता यथा / यथा कृतास्तु तैः शाखास्त स्माच्छालास्तु ताः स्मृताः
以智慧如法考察,正如树枝伸展;同样,他们所造的枝状构件因此被称念为“舍罗(śālā)”。
Verse 120
एवं प्रसिद्धाः शाखाभ्यः शालोश्चैव गृहाणि च / तस्मात्ताश्च स्मृताः शालाः शालात्वं तासु तत्स्मृतम्
由此,“舍罗(śālā)”之名从枝条而广为人知,“舍罗”亦指诸屋舍;因此它们被称为“舍罗”,其中具足“舍罗之性”。
Verse 121
प्रसीदंति यतस्तेषु ततः प्रासादसंज्ञितः / तस्माद् गृहाणि शालाश्च प्रासादाश्चैव संज्ञिता
因为在其中人心安悦、喜乐生起,所以称为“普罗萨达(prāsāda,宫殿)”;因此屋舍、舍罗与宫殿皆以此名而称。
Verse 122
कृत्वा द्वंद्वाभिघातास्तान्त्वार्तोपायमचिंतयान् / नष्टेषु मधुना सार्द्धं कल्पवृक्षेषु वै तदा
当时,具足甘蜜的如意树尽皆毁失;他们承受对立冲击,思惟解除苦厄之法。
Verse 123
विषादव्याकुलास्ता वै प्रजाः सृष्टास्तु दर्शिताः / ततः प्रादुर्बभौ तासां सिद्धिस्त्रेतायुगे तदा
那些众生在忧愁扰乱中被造而显现;随后就在彼时,于特雷塔纪元,他们的成就(悉地)便现起。
Verse 124
सर्वार्थसाधका ह्यन्या वृष्टिस्तासां निकामतः / तासां वृष्ट्युदकानीह यानि मिष्टगतानि च
在它们之中,另有一种降雨能成就一切所求,随其意愿而降。此处显现了那雨水,以及化为甘美之味的诸物。
Verse 125
एवं नयः प्रवृत्तस्तु द्वितीये वृष्टिसर्जने / ये परस्तादपां स्तोकाः संपाताः पुथिवीतले
如是,在第二次降雨的创造中,此法则开始运行;其后水之滴点降落于大地之上。
Verse 126
अपां भूमेस्तु संयोगादोषध्यस्तास्तदाभवन् / पुष्पमूलफलिन्यस्तु ओषध्यस्ता हि जज्ञिरे
由于水与大地的结合,当时诸药草便生起;这些药草确实具足花、根与果而诞生。
Verse 127
अफालकृष्टाश्चानुप्ता ग्राभ्यारम्याश्चतुर्द्दश / ऋतुपुष्पफलाश्चैव वृक्षा गुल्माश्च जज्ञिरे
它们不经犁耕、不经播种,自然成就为十四类,质朴而可爱;并且随季节开花结果的树木与灌木也一并诞生。
Verse 128
प्रादुर्भूतास्तु त्रेतायां मायायामौषधस्य वा / तदौषधेन वर्तंते प्रजास्त्रेता मुखे तदा
在特雷塔纪元中,它们凭借药草之幻力而显现;那时在特雷塔之初,众生以这些药草为生而得以存续。
Verse 129
ततः पुनरभूत्तासां रागो लोभस्तु सर्वदा / अवश्यभाविनार्थेन त्रेतायुगवशेन च
于是她们之中又恒常生起贪爱与贪欲;由于不可避免的因缘,也由于特雷塔纪元(Tretā-yuga)的支配。
Verse 130
ततस्ते पर्यगृह्णंस्तु नदीक्षेत्राणि पर्वतान् / वृक्षगुल्मौषधीश्चैव प्रसह्य तु यथाबलम्
随后他们围取并占有河流、田地与山岳;又依其力强行夺取树木、灌丛与诸般药草。
Verse 131
सिद्धात्मानस्तु ये पूर्वं व्याख्याता वः कृते मया / ब्रह्मणो मानसास्ते वै उत्पन्ना ये जनादिह
我先前为你们所阐明的那些成就之灵(悉达),确是梵天(Brahmā)的意生子,乃在此处于太初之时出生者。
Verse 132
शांता ये शुष्मिणश्चैव कर्मिणो दुःखितास्तथा / तत आवर्त्तमानास्ते त्रेतायां जज्ञिरे पुनः
那些安寂者、刚健者、勤于业行者以及受苦者,从彼处轮回回转,于特雷塔纪元再度出生。
Verse 133
ब्राह्मणाः क्षत्रिया वैश्याःशूद्रा द्रोहजनास्तथा / भाविताः पूर्वजातीषु ख्यात्या ते शुभपापयोः
婆罗门、刹帝利、吠舍、首陀罗,以及生性悖逆作恶之人——他们在前世已依善与恶的名声而受熏习成形。
Verse 134
ततस्ते प्रबला ये तु सत्यशीला अहिंसकाः / वीतलोभा जितात्मानो निवसंति स्मृतेषु वै
于是那些强健者,持守真实、奉行不害,离贪而自制,依诸《斯摩利提》之法而居。
Verse 135
परिग्रहं न कुर्वंति वदंतस्तु उपस्थिताः / तेषां कर्माणि कुर्वंति तेभ्यश्चैवाबलाश्च ये
他们在旁宣说教诲,却不作占有与积聚;而那些弱者则为他们代行诸事。
Verse 136
परिचर्यासु वर्त्तन्ते तेभ्यश्चान्ये ऽल्पतेजसः / एवं विप्रतिपन्नेषु प्रपन्नेषु परस्परम्
另有光威微薄者从事侍奉;如是彼此依附,便在相互之间陷入乖违与迷乱。
Verse 137
तेन दोषेण वै शांता ओषध्यो नितरां तदा / प्रनष्टा गृह्यमाणा वै मुष्टिभ्यां सिकता यथा
由于那过失,当时本已安和的药草大为衰微,几近消失;如同双拳所握之沙,终究从指缝流散。
Verse 138
अथास्य तु युगबलाद्गाम्यारण्याश्चतुर्द्दश / फलैर्गृह्णंति पुष्पैश्च तथा मूलैश्च ताः पुनः
随后因该劫世之力,乡野与林野的十四类(草木)又可凭其果、其花以及其根而采取。
Verse 139
ततस्तासु प्रनष्टासु विभ्रांतास्ताः प्रजास्तदा / क्षुधाविष्टास्तदा सर्वा जग्मुस्ता वै स्वयम्भुवम्
当那些都消失之后,众生迷惘彷徨;饥饿所迫,皆前往自生的梵天(斯瓦扬布)处求依。
Verse 140
वृत्त्यर्थमभिलिप्संत्यो ह्यादौ त्रेतायुगस्य ताः / ब्रह्मा स्वयंभूर्भगवान् ज्ञात्वा तासां मनीषितम्
在特雷塔纪元之初,他们为求生计而来;自生的至尊梵天洞悉了他们的心愿。
Verse 141
पुष्टिप्रत्यक्षदृष्टेन दर्शनेन विचार्य सः / ग्रस्ताः पृथिव्या त्वोषध्यो ज्ञात्वा प्रत्यरूहत्पुनः
他以能赐养分的直观之见加以审察,得知大地吞没了诸药草;于是药草又再度萌生。
Verse 142
कृत्वा वत्सं समेरुं तु दुदोह पृथिवीमिमाम् / दुग्धेयं गौस्तदा तेन बीजानि वसुधातले
他以须弥山为犊,汲取此大地之乳;当牛形的大地被他挤乳时,种子便显现在地面之上。
Verse 143
जज्ञिरे तानि बीजानि ग्रामारण्यास्तु ताः प्रभुः / ओषध्यः फलपाकाताः क्षणसप्तवशास्तु ताः
那些种子由此生起;主宰令村落与林野间诸药草显现——直至果实成熟而存续,却受七刹那之短暂所制。
Verse 144
व्रीहयश्च यवाश्चैव गोधूमाश्चणकास्तिलाः / प्रियंगव उदारास्ते कोरदुष्टाः सवामकाः
谷物之中有稻、麦(大麦)、小麦、鹰嘴豆与芝麻;又有名为priyangu、udāra、koraduṣṭa、savāmaka者——皆为所说之种类。
Verse 145
माषा मुद्गा मसूरास्तु नीवाराः सकुलत्थकाः / हरिकाश्चरकाश्चैव गमः सप्तदश स्मृताः
又有māṣa、mudga、masūr、nīvāra、kulattha;并有harikā与carakā——此等合称为“gama”十七类。
Verse 146
इत्येता ओषधीनां तु ग्राम्याणां जातयः स्मृताः / श्यामाकाश्चैव नीवारा जर्तिलाः सगवेधुकाः
如是,诸“乡野所生”的食用草木之种类被记述:śyāmāka、nīvāra、jartilā,并及gavedhuka等。
Verse 147
कुरुविंदो वेणुयवास्ता मातीर्काटकाः स्मृताः / ग्रामारण्याः स्मृता ह्येता ओषध्यस्तु चतुर्दश
又说到kuruviṃda、veṇuyava与mātīrkāṭaka;此等兼属村落与林野之食用草木,共为十四种。
Verse 148
उत्पन्नाः प्रथमस्यैता आदौ त्रेतायुगस्य ह / अफालकृष्टास्ताः सर्वा ग्राम्यारण्यश्चतुर्द्दश
此十四种村野与林野之谷物,初生于特雷塔纪之始;皆不待犁耕,自然萌生。
Verse 149
वृक्षगुल्मलतावल्ल्यो वीरुधस्तृणजातयः / मूलैः फलैश्च रोहैश्चगृह्णन्पुष्टाश्च यत्फलम्
树木、灌木、藤蔓、蔓生草木与诸草类,摄取根、果与新芽而得滋养,遂各自结成其果。
Verse 150
पृथ्वी दुग्धा तु बीजानि यानि पूर्वं स्वयंभुवा / ऋतुपुष्पफलास्ता वै ओषध्यो जज्ञिरे त्विह
往昔自生者为取诸种子而“乳取”大地;由那些种子,此处诞生了随时令开花结果的药草。
Verse 151
यदा प्रसृष्टा ओषध्यो न प्रथंतीह याः पुनः / ततस्तासां च पृत्त्यर्थै वार्तोपायं चकार ह
当已被造出的药草在此仍不兴盛繁衍时,为了养护它们,他便制定了名为“瓦尔塔”(生计之道)的办法。
Verse 152
तासां स्वयंभूर्भगवान् हस्तसिद्धिं स्वकर्मजाम् / ततः प्रभृति चौषध्यः कृष्टपच्यास्तु जज्ञिरे
为它们,至圣自生者显现由自身业行所成的“手成之巧”(hastasiddhi);自此药草成为可耕种、可烹煮之物而生。
Verse 153
संसिद्धकायो वार्तायां ततस्तासां प्रजापतिः / मर्यादां स्थापयामास ययारक्षत्परस्परम्
当在“瓦尔塔”之道中身形已臻成就时,生主便为他们立下“界限法度”(maryādā),使其彼此守护相保。
Verse 154
ये वै परिग्रहीतारस्तासामासन्बलीयसः / इतरेषां कृतत्राणान् स्थापयामास क्षत्रियान्
凡收摄并护持他们者,皆为强者;他又庇护其余众人,遂建立刹帝利之族。
Verse 155
उपतिष्ठंति तावंतो यावन्तो निर्मितास्तथा / सत्यं बूत यथाभूतं ध्रुवं वो ब्रह्मणास्तु ताः
凡如是所造者有多少,便有多少前来侍立;当如实道出真相——愿由梵天使此于汝等成为定然。
Verse 156
ये चान्ये ह्यबलास्तेषां संरक्षाकर्म्मणि स्थिताः / क्रीतानि नाशयंति स्म पृथिव्यां ते व्यवस्थिताः
其余羸弱者,则安置于护卫之业;他们立于大地之上,毁除那以金钱买来的奴役。
Verse 157
वैश्यानित्येव तानाहुः कीनाशान्वृत्तिसाधकान् / सेवंतश्च द्रवंतश्च परिचर्यासु ये रताः
此等恒称为吠舍:农耕之人,成就生计者;或服事奔走,乐于侍奉诸务。
Verse 158
निस्तेजसो ऽल्पवीर्याश्च शूद्रांस्तानब्रवीच्च सः / तेषां कर्माणि धर्मांश्च ब्रह्मा तु व्यदधात्प्रभुः
至于无光少力者,他称之为首陀罗;其业与其法,则由主宰梵天所制定。
Verse 159
संस्थित्यां तु कृतायां हि यातुर्वर्ण्यस्य तेन वै / पुनः प्रजास्तु ता मोहाद्धर्म्मं तं नान्वपालयन्
纵然已建立了应有的秩序,那些众生仍因迷惑而不再遵守那神圣的达摩。
Verse 160
वर्णधर्मैश्च जीवंत्यो व्यरुद्ध्यंत परस्परम् / ब्रह्मा बुद्धा तु तत्सर्वं याथातथ्येन स प्रभुः
他们虽依诸种姓之法而活,却彼此相争;主宰梵天如实洞悉这一切。
Verse 161
क्षत्रियाणां बलं दंडं युद्धमाजीव्यमादिशत् / याजनाध्यापने ब्रह्मा तथा दानप्रतिग्रहम्
梵天为刹帝利规定:以力量、刑杖与征战为生业;并又制定主持祭祀、教授经典与受纳布施之法。
Verse 162
ब्राह्मणानां विभुस्तेषां कर्माण्येता न्यथादिशत् / पाशुपाल्यं च वाणिज्यं कृषिं चैव विशां ददौ
主宰为婆罗门如是规定诸业;并赐予吠舍以畜牧、贸易与农耕之职。
Verse 163
शिल्पाजीवभृतां चैव शूद्राणां व्यदधात्पुनः / सामान्यानि च कर्माणि ब्रह्मक्षत्रविशां पुनः
随后又为首陀罗安排以工艺技业为生;并再次规定婆罗门、刹帝利与吠舍亦有若干共同之业。
Verse 164
यजनाध्यापने दानं सामान्यानीतरेषु च / कर्माजीवं तु वै दत्त्वा तेषामिह परस्परम्
举行祭祀、教授吠陀与行布施,皆为共同之法;并以各自之业供给生计,于此世彼此扶持。
Verse 165
तेषां लोकांतरे मूर्ध्नि स्थानानि विदधे पुनः / प्राजापत्यं द्विजातीनां स्मृतं स्थानं क्रियावताम्
他又为他们在后世之境的顶端安立诸处所;勤修仪轨的二生者,其所居称为“般若钵底耶(Prajāpatya)”。
Verse 166
स्थानमैद्रं क्षत्रियाणां संग्रामेष्वपलायिनाम् / वैश्यानां मारुतं स्थानं स्वस्वकर्मोपजीविनाम्
战阵中不退避的刹帝利,其位为“因陀罗界(Aindra)”;各以本业自养的吠舍,其位为“风神界(Māruta)”。
Verse 167
गांधर्वं शूद्रजातीनां परिचर्ये च तिष्ठताम् / स्थानान्येतानि वर्णानां योग्याचारवतां सताम्
安住于侍奉之业的首陀罗,其位为“乾闼婆界(Gāndharva)”;此等处所属于行持相应、品行端正之诸种姓。
Verse 168
संस्थित्यां सुकृतायां वै चातुर्वर्ण्यस्य तस्य तत् / वर्णास्तु दंडभयतः स्वेस्वे वर्ण्ये व्यवस्थिताः / ततः स्थितेषु वर्णेषु स्थापयामास ह्याश्रमान्
当四姓之制安立稳固之时,诸姓因惧刑罚而各守其本分;诸姓既定,他便建立诸阿湿罗摩(āśrama)。
Verse 169
गृहस्थो ब्रह्मचारी च वानप्रस्थो यतिस्तथा / आश्रमाश्चतुरो ह्येतान्पूर्ववत्स्थापयन्प्रभुः
居家者、梵行者、林栖者与遁世行者(yati)——此为四种住期(āśrama);主宰如昔建立之。
Verse 170
वर्णकर्माणि ये केचित्तेषामिह चतुर्भवः / कृतकर्म्म कृतावासा आश्रमादुपभुञ्जते
凡属种姓本分之业,于此皆有四类果报;既成其业、安住于住期(āśrama)者,便从住期中受用其果。
Verse 171
ब्रह्मा तान्स्थापयामास आश्रमान् भ्रामतामतः / निर्द्दिदेश ततस्तेषां ब्रह्मा धर्मान्प्रभा षते
梵天(Brahmā)建立诸住期(āśrama),如为迷惘漂泊之心作指引;继而梵天宣说并制定他们应行之法(dharma)。
Verse 172
प्रस्थानानि तु तेषां च यमान्सनियमांस्तथा / चतुर्वर्णात्मकः पूर्वं गृहस्थस्याश्रमः स्थितः
他们的行持道路(prasthāna),以及诸“制”(yama)与“律”(niyama)亦被规定;而最初,居家住期(gṛhastha-āśrama)涵摄四姓。
Verse 173
त्रयाणा माश्रमाणां च वृत्तियोनीति चैव हि / यथाक्रमं च वक्ष्यामि व्रतैश्च नियमैस्तथा
至于三种住期的生活方式与行持法则,我也将依次宣说,并连同诸誓戒(vrata)与律仪(niyama)。
Verse 174
दाराग्नयश्चातिथय इष्टाः श्राद्धक्रियाः प्रजाः / इत्येष वै गृहस्थस्य समासाद्धर्मसंग्रहः
妻室、奉事圣火、款待宾客、举行祭祀、行施罗达祭祖仪与护养民众——此即居家者(家住期)的简要法义总摄。
Verse 175
ढंडी च मेखली चैव अधःशायी तथाजिनी / गुरुशुश्रूषणं भैक्ष्यंविद्यार्थी ब्रह्मचारिणः
执杖、系腰带(mekhalā)、卧地而眠、披兽皮;侍奉师长、以乞食自给、勤求学问——此为梵行者之法。
Verse 176
चीरपत्राजिनानि स्युर्वनमूलफलौषधैः / उभे संध्ये वगाहश्च होमश्चारण्यवासिनाम्
或着粗布、叶衣与兽皮,以林中根、果与药草为食;于晨昏两次行沐浴并作护摩(homa)——此乃林居者之仪轨。
Verse 177
विपन्नमुसले भैक्ष्यमास्तेयं शौचमेव च / अप्रमादो ऽव्यवायश्च दया भूतेषु च क्षमा
即使困厄亦以乞食自持,不偷盗,守清净;不放逸,持禁欲,怜悯众生,并修忍辱宽恕。
Verse 178
श्रवणं गुरुशुश्रूषा सत्यं च दशमं स्मृतम् / दशलक्षणको ह्येष धर्मः प्रोक्तः स्वयंभूवा
闻法、侍奉师长与真实(satya)——此被记为第十相;具十相之法,由自生者(Svayambhū)所宣说。
Verse 179
भिक्षोर्व्रतानि पंचात्र भैक्ष्यवेदव्रतानि च / तेषां स्थानान्यशुष्मिं च संस्थिताना मचष्ट सः
此处宣说比丘的五种誓戒,以及乞食与吠陀之誓;他又讲述这些誓行的住处,并叙及安住于“阿舒什敏”境地者。
Verse 180
अष्टाशीतिसहस्राणि ऋषीणामूर्ध्वरेतसाम् / स्मृतं तेषां तु यत् स्थानं तदेव गुरुवासिनाम्
据传,守持上行精气的圣仙(ūrdhvaretas)有八万八千;为他们所记念的住处,也正是依止上师而居者的住处。
Verse 181
सप्तर्षीणा तु यत्स्थानं स्मृतं तद्वै वनौकसाम् / प्राजापत्यं गृहस्थानां न्यासिनां ब्रह्मणःक्षयम्
斯摩利提所记的七圣(Saptarṣi)之住处,确为林居修行者之所;居家者归于生主界(Prajāpatya),出离者(nyāsin)则融没于梵(Brahman)之中。
Verse 182
योगिनामकृतं स्थानं तानाजित्बा न विद्यते / स्थानान्याश्रमिणस्तानि ब्रह्मस्थानस्थितानि तु
瑜伽行者的“无作之境”(akṛta)不经修持征服便不可得;诸住于四住期者的境位,实皆安立于梵之住处(Brahma-sthāna)。
Verse 183
चत्वार एव पंथानो देवयानानि निर्मिताः / पंथानः पितृयानास्तु समृताश्चत्वार एव ते
通往天界之道(Devayāna)唯有四途所立;通往祖灵之道(Pitṛyāna)亦在传承中记为四途。
Verse 184
ब्रह्मणां लोकतन्त्रेण आद्ये मन्वन्तरे पुरा / पंथानो देवयाना ये तेषां द्वारं रंविः स्मृतः / तथैव पितृयानानां चन्द्रमा द्वारमुच्यते
依梵天所立的世界法度,在远古最初的摩奴劫中,通往天道(Devayāna)的诸路之门被忆为日神罗毗(太阳);同样,通往祖道(Pitṛyāna)的诸路之门则称为月神旃陀罗摩(月亮)。
Verse 185
एवं वर्णाश्रमाणां च प्रविभागे कृते तदा / यदा प्रजा ना वर्द्धंत वर्णधर्मसमासिकाः
如此虽已制定种姓与住期(varṇa-āśrama)的分判,却有一段时期,众生虽依其种姓之法而住,仍不见增长兴盛。
Verse 186
ततो ऽन्यां मानसीं स्वां वै त्रेतामध्ये ऽसृजत्प्रजाः / आत्मनस्तु शरीरेभ्यस्तुल्याश्चैवात्मना तु ताः
随后在特雷塔纪(Tretāyuga)中期,他又以自身意念化生另一类众生;他们从他的诸身而出,在本性上亦与他相似。
Verse 187
तस्मिस्त्रेतायुगे त्वाद्ये मध्यं प्राप्ते क्रमेण तु / ततो ऽन्यां मानसीं सो ऽथ प्रजाः स्रष्टुं प्रचक्रमे
在那最初的特雷塔纪中,时序渐次至其中段之时,他便又开始创造另一类意生众生,以繁衍万类。
Verse 188
ततः सत्त्वरजोद्रिक्ताः प्रजाः सह्यसृजत्प्रभुः / धर्मार्थकाममोक्षाणां वार्त्तानां साधकाश्च याः
于是主宰创造了以萨埵与罗阇为盛的众生;他们能修持法、利、欲、解脱四种人生目标,并能成就世间诸业与生计之道。
Verse 189
देवाश्च पितरश्चैव ऋषयो मनवस्तथा / युगानुरूपा धर्मेण यैरिमा वर्द्धिताः प्रजाः
诸天、祖灵(Pitṛ)、圣仙(ṛṣi)与诸摩奴(Manu),以契合各劫之正法,使此诸众生得以增长兴盛。
Verse 190
उपस्थिते तदा तस्मिन् सृष्टिवर्गे स्वयंभुवः / अभिध्याय प्रजा ब्रह्मा नानावीर्याः स्वमानसीः
当那一类受造之众现前时,自生的梵天(Svayambhū)观想诸生,从自心中化生出具种种威力的意生众。
Verse 191
पूर्वोक्ता या मया तुभ्यं जनानीकं समाश्रिताः / कल्पे ऽतीते पुराण्यासीद्देवाद्यास्तु प्रजा इह
我先前对你所说的那些众生,依止于诸族群;在过去的劫中他们属古旧之类,而在此劫中则以诸天等为众生之属。
Verse 192
ध्यायतस्तस्य तानीह संभूत्यर्थमुपस्तिताः / मन्वंतरक्रमेणेह कनिष्ठाः प्रथमेन ताः
当他观想之时,他们为成就出生而在此现前;依诸摩奴期(manvantara)的次第,在最初的摩奴期中,他们属“最末/最幼”(kaniṣṭha)之列。
Verse 193
ख्यातास्तु वंश्यैरेतैस्तु पूर्वं यैरिह भाविताः / कुशलाकुशलैः कंदैरक्षीणैस्तैस्तदा युताः
这些族裔早先即因在此培育他们的诸者而闻名;当时他们与不竭之根相系——善业与不善业的业种。
Verse 194
तत्कर्मफलदोषेण ह्युपबाधाः प्रजज्ञिरे / देवासुरपितॄंश्चैव यक्षैर्गन्धर्वमानुषैः
由于那业果之过失,种种扰害便生起;在天神、阿修罗、祖灵(Pitṛ)、夜叉、乾闼婆以及人类之中亦然。
Verse 195
राक्षसैस्तु पिशाचैस्तैः पशुपक्षिसरीसृपैः / वृक्षनारककीटाद्यैस्तैस्तैः सर्वैरुपस्थिताः / आहारार्थं प्रजानां वै विदात्मानो विनिर्ममे
罗刹、毗舍遮,以及兽类、鸟类、爬行类、树木、地狱众生、虫类等一切都前来聚集;为众生之食,造物主(维达塔)安立了它们。
Srishti dominates: the chapter focuses on post-pralaya re-creation, especially the retrieval and stabilization of Earth and the reallocation of oceans, rivers, and mountains.
Varaha is the mechanism of terrestrial restoration: the boar-form enters the cosmic waters, raises the submerged earth, and enables the re-ordering of geography into a habitable, structured world.
Yes. It explicitly points to the re-formation of mountains and the arrangement of waters, culminating in the saptadvipa-and-oceans schema that underlies later detailed geographic catalogues.