Adhyaya 72
Anushanga PadaAdhyaya 72195 Verses

Adhyaya 72

Vṛṣṇivaṃśa–Anukīrtana (Enumeration of the Vṛṣṇi Lineage) — Questions on Viṣṇu’s Human Descent

本章以编目式叙述开篇:苏多(Sūta)列举与弗利什尼(Vṛṣṇi)族系相关、以人形示现的神圣人物——桑迦尔沙那(Saṃkarṣaṇa)、瓦苏提婆(Vāsudeva)、普拉丢摩那(Pradyumna)、三婆(Sāṃba)与阿尼卢陀(Aniruddha),并明言他们是vaṃśa-vīra(族系英雄)。随后又点名诸位受敬的见证者与参与者(七圣仙Saptarṣi、俱毗罗Kubera、那罗陀Nārada、檀梵多利Dhanvantari、大自在天Mahādeva,以及毗湿奴Viṣṇu与随侍诸神),显示宣说谱系的神圣集会背景。继而转入神学发问:诸仙询问毗湿奴为何屡次在人间示现,为何选择婆罗门—刹帝利的环境,宇宙主宰如何能担任牧牛者(gopatva)、入于胎藏,却仍为建立世界秩序者(以三步神/侏儒化身Trivikrama/Vāmana为范式)。因此,本章将有序的谱系列举与关于化身(avatāra)的诘问结合,用以阐释至上神在普拉那历史中可亲可近的人间显现。

Shlokas

Verse 1

इति श्रीब्रह्माण्डे महापुराणे वायुप्रोक्ते मध्यमभागे तृतीय उपोद्धातपदे वृष्णिवंशानुकीर्त्तनं नामैकसप्ततितमो ऽध्यायः // ७१// सूत उवाच मनुष्यप्रकृतीन्देवान्कीर्त्यमानान्निबोधत / संकर्षणो वासुदेवः प्रद्युम्नः सांब एव च

如是,在《圣梵卵大摩诃往世书》中,由风神所宣说的中篇第三序章,名为“颂述弗利什尼族系”的第七十一章。苏多说道:当谛听所称颂之具人性之诸神——桑迦尔沙那、婆苏提婆、普拉丢姆那与三婆。

Verse 2

अनिरुद्धश्च पञ्चैते वंशवीराः प्रकीर्त्तिताः / सप्तर्ष्यः कुबेरश्च यज्ञे मणिवरस्तथा

与阿尼鲁陀同在,这五位被称颂为宗族英杰;又有七圣仙、财宝神俱毗罗,以及祭祀(yajña)中的摩尼瓦罗。

Verse 3

शालूकिर्नारदश्चैव विद्वान्धन्वन्तरिश्तथा / नन्दिनश्च महादेवः सालकायन एव च / आदिदेव स्तदा विष्णुरेभिश्च सह दैवतैः

沙卢奇、那罗陀与智者檀梵多利;难丁、摩诃提婆与萨拉迦耶那;并有原初之神毗湿奴与诸天同在。

Verse 4

ऋषय ऊचुः विष्णुः किमर्थं संभूतः स्मृताः संभूतयः कति / भविष्याः कति चान्ये च प्रादुर्भावा महात्मनः

诸仙人说道:“毗湿奴为何而示现?经传所忆之化身共有多少?未来还将有多少,又有哪些大圣者的其他显现?”

Verse 5

ब्रह्मक्षत्रेषु शस्तेषु किमर्थमिह जायते / पुनः पुनर्मनुष्येषु तन्नः प्रब्रूहि पृच्छताम्

在尊贵的婆罗门与刹帝利之中,他为何在此降生?又为何屡屡来到人间?请为我们这些发问者开示。

Verse 6

विस्तरेणैव सर्वाणि कर्माणि रिपुघातिनः

请详尽叙述那位诛灭仇敌者的一切行迹。

Verse 7

श्रोतुमिच्छामहे सम्यग्वद कृष्णस्य धीमतः / कर्मणामानुपूर्वीं च प्रादुर्भावाश्च ये प्रभो

主啊!我们愿如实聆听智者圣克里希纳诸业行的次第,以及他一切显现(降现)之事;愿你详说。

Verse 8

या वास्य प्रकृतिस्तात तां चास्मान्वक्तुमर्हसि / कथं स भगवान्विष्णुः सुरेष्वरिनिषूदनः

慈父般的尊者,请也为我们宣说他的本性(自性之力);那位薄伽梵毗湿奴、摧灭天众之敌者,是如何(降世)的?

Verse 9

वसुदेवकुले धीमान्वासुदेवत्वमागतः / अमरैरावृतं पुण्यं पुण्यकृद्भिरलङ्कृतम्

那位智者在婆苏提婆家族中显现,成就“婆苏提婆”之身;那清净福地为不死天众所环绕,并由行善积德者所庄严。

Verse 10

देवलोकं किमुत्सृज्य मर्त्यलोकमिहागतः / देवमानुषयोर्नेता धातुर्यः प्रसवो हरिः

他为何舍离天界而来到此人间?须知哈利乃天人与人类之导师,亦是达塔(造化主)之生起因由。

Verse 11

किमर्थं दिव्यमात्मानं मानुष्ये समवेशयत् / यश्चक्रं वर्त्तयत्येको मनुष्याणां मनोमयम्

他为何将神圣自我融入人身?唯有他独自转动众人由心意所成之轮。

Verse 12

मानुष्ये स कथं बुद्धिं चक्रे चक्रभृतां वरः / गोपायन यः कुरुते जगतः सर्वकालिकम्

以人身示现时,持轮之最胜者如何起此智慧?彼恒常护持世间于一切时。

Verse 13

स कथं गां गतो विष्णुर्गोपत्वमकरोत्प्रभुः / महाभूतानि भूतात्मा यो दधार चकार ह

毗湿奴大主如何降至大地而行牧者之职?彼为众生之灵,承持诸大元素。

Verse 14

श्रीगर्भः स कथं गर्भे स्त्रिया भूचरया वृतः / येन लोकान्क्रमैर्जित्वा सश्रीकास्त्रिदशाः कृताः

名为“吉祥在胎”者,如何为行于地上的女子之胎所覆?彼循序征服诸界,使天众具足吉祥。

Verse 15

स्थापिता जगतो मार्गास्त्रिक्रमं वपुराहृतम् / ददौ जितां वसुमतीं सुराणां सुरसत्तमः

世间之道得以安立;三步尊之神圣身相显现。诸天中最胜者将所征服的大地赐与天众。

Verse 16

येन सैंहं वपुः कृत्वा द्विधाकृत्वा च तत्पुनः / पूर्वदैत्यो महावीर्यो हिरण्यकशिपुर्हतः

彼化现狮身,复将其撕裂为二;昔日勇猛的阿修罗希兰尼亚迦希布遂被诛灭。

Verse 17

यः पुरा ह्यनलो भूत्वा त्वौर्वः संवर्त्तको विभुः / पातालस्थोर्ऽणवगतः पपौ तोयमयं हविः

彼昔化为烈火,成就威能的奥尔瓦、劫末焚世者;入于地下界波涛之海,饮受以水为供的圣供。

Verse 18

सहस्रचरणं देवं सहस्रांशुं सहस्रशः / सहस्रशिरसं देवं यमाहुर्वै युगे युगे

那位具千足、千光、千首的神明,人们在每一劫每一劫都如此称颂。

Verse 19

नाभ्यरण्यां समुद्भूतं यस्य पैतामहं गृहम् / एकार्णवगते लोके तत्पङ्कजमपङ्कजम्

其祖父神(梵天)之居所自其脐之林中出生;当世界沉没于唯一的大海时,那朵莲华仍清净无泥,真莲而不染。

Verse 20

येन ते निहता दैत्याः संग्रामे तारकामये / सर्वदेवमयं कृत्वा सर्वायुधधरं वपुः

在塔拉卡摩耶之战中,他化现为含摄诸天、执持一切兵器之身,诛灭彼等阿修罗。

Verse 21

महाबलेन वोत्सिक्तः कालनेमिर्निपातितः / उत्तरांशे समुद्रस्य क्षीरोदस्यामृतोदधेः / यः शेतेशश्वतं योगमाच्छाद्य तिमिरं महत्

因大力而骄矜的迦罗内弥被击倒;在甘露之海——乳海(Kṣīroda)之北方,他覆蔽广大幽暗,安卧于永恒瑜伽之中。

Verse 22

सुरारणीगर्भमधत्त दिव्यं तपःप्रकर्षाददितिः पुरायम् / शक्रं च यो दैत्यगणं च रूद्धं गर्भावमानेन भृशं चकार ह

在远古,阿底提以极盛苦行之力怀持天妙的“苏罗阿罗尼之胎”;因对胎孕的侮慢,他严厉地制止了释迦罗(因陀罗)与一众阿修罗。

Verse 23

पदानि यो लोकपदानि कृत्वा चकार दैत्यान्सलिलेशयांस्तान् / कृत्वा च देवांस्त्रिदिवस्य देवांश्चक्रे सुरेशं पुरुहूतमेव

他奠定世间秩序之步阶,使彼等阿修罗卧伏于水;又令诸天成为三天界之神,并立“多呼唤者”因陀罗为天众之主。

Verse 24

गार्हपत्येन विधिना अन्वाहार्येण कर्मणा

依伽尔哈帕提耶圣火之仪轨,并依“安瓦哈里耶”之行法而作。

Verse 25

अग्निमाहवनीयं च वेदीं चैव कुशं स्रुवम् / प्रोक्षणीयं श्रुतं चैव आवभृथ्यं तथैव च

又备置阿呼婆尼耶圣火、祭坛、库沙草与酌勺;并备洒净之水、诵读之声(施鲁塔)以及终礼沐浴(阿瓦布里特亚)。

Verse 26

अथर्षींश्चैव यश्चक्रे हव्यभागप्रदान्मखे / हव्यादांश्च सुरांश्चक्रे कव्यादांश्च पितॄनपि / भोगार्थं यज्ञविधिना यो यज्ञो यज्ञकर्मणि

他在祭祀中以分授供献之份(哈维亚)而安立诸仙;使诸天为受哈维亚者,使祖灵为受卡维亚者;依祭法而行、为得享供献之果的祭祀,于祭业之中即是他。

Verse 27

यूपान्समित्स्रुवं सोमं पवित्रं परिधीनपि / यज्ञियानि च द्रव्याणि यज्ञियांश्च तथानलान्

祭柱(yūpa)、祭柴、酌勺、苏摩、净具与坛围木;以及一切适于祭祀的供物与祭火。

Verse 28

सदस्यान्यजमानांश्च ह्यश्वमेधान्क्रतुत्तमान् / विचित्रान्राजसूयदीन्पारमेष्ठ्येन कर्मणा

诸祭会之士(sadasya)、诸祭主(yajamāna)、最上等的马祭(Aśvamedha);以及种种王祭(Rājasūya)等——皆由“至上主宰之业”(pārameṣṭhya karma)而成。

Verse 29

उद्गात्रादींश्च यः कृत्वा यज्ञांल्लोकाननुक्रमम् / क्षणा निमेषाः काष्ठाश्च कलास्त्रैकाल्यमेव च

那位设立诵歌祭司等(Udgātā等祭官),并依次安置诸祭与诸世界者;又制定刹那、眨瞬(nimeṣa)、时段(kāṣṭhā)、分刻(kalā)以及三时(trikāla)。

Verse 30

मुहूर्त्तास्तिथयो मासा दिनं संवत्सरं तथा / ऋतवः कालयोगाश्च प्रमाणं त्रिविधं त्रिषु

须臾(muhūrta)、月日(tithi)、月、日与年;以及季节与时之合(kāla-yoga)——在三界之中,度量之法为三种。

Verse 31

आयुः क्षेत्राण्यथ बलं क्षणं यद्रूपसौष्ठवम् / मेधावित्वं च शौर्यं च शास्त्रस्येव च पारणम्

寿命、田域、力量,以及形貌圆满之刹那;聪慧与勇武,并且对圣典(śāstra)的虔诵。

Verse 32

त्रयो वर्णास्त्रयो लोकास्त्रैविद्यं पावकास्त्रयः / त्रैकाल्यं त्रीणि कर्माणि तिस्रो मात्रा गुणास्त्रयः

三种种姓、三界、三重圣智与三种圣火;三时、三业、三种音量与三德(古那)。

Verse 33

सृष्टा लोकेश्वराश्चैव येन येन च कर्मणा / सर्वभूतगणाः सृष्टाः सर्वभूतगणात्मना

以种种业行,诸世界之主得以造化;由那作为一切众生群体之自性的主宰,万类众生群亦被创造。

Verse 34

क्षणं संधाय पूर्वेण योगेन रमते च यः / गतागतानां यो नेता सर्वत्र विविधेश्वरः

以先前所说之瑜伽,刹那相应而安乐者;引领往来生死者,遍一切处、现多种主宰之神。

Verse 35

यो गतिर्द्धर्मयुक्तानामगतिः पापकर्मणाम् / चातुर्वर्ण्यस्य प्रभवश्चातुर्वर्ण्यस्य रक्षिता

他是持守正法者之归趣,也是作恶业者之无归;他是四姓制度之本源,亦是四姓秩序之守护者。

Verse 36

चातुर्विद्यस्य यो वेत्ता चातुराशम्यसंश्रयः / दिगन्तरं नभो भूमिरापो वायुर्विभावसुः

他通达四种圣学,亦为四住期(四阿湿罗摩)之依止;他即诸方之极、虚空、大地、水、风与毗婆婆苏——光辉之火。

Verse 37

चन्द्रसूर्यद्वयं ज्योतिर्युगेशाः क्षणदाचराः / यः परं श्रुयते देवो यः परं श्रूयते तपः

月与日之双光,诸劫之主,刹那行游者;彼被圣闻称为至上天神,亦被圣闻称为至上苦行。

Verse 38

यः परं तमसः प्राहुर्यः परं परमात्मवान् / आदित्यादिस्तु यो देवो यश्च दैत्यान्तको विभुः

彼被称为超越黑暗(tamas)者,具至上我(Paramātman)之性;彼为阿底提耶众神之始神,亦为灭除代底耶之大能主。

Verse 39

युगान्तेष्वन्तको यश्च यश्च लोकान्तकान्तकः / सेतुर्यो लोकसेतूनां मेधो यो मध्यकर्मणाम्

彼于劫末为终结者(Antaka),亦为灭尽世界毁灭者之终结者;彼为诸界之桥梁的桥梁,亦为诸中道行事之慧(medhā)。

Verse 40

वेद्यो यो वेदविदुषां प्रभुर्यः प्रभवात्मनाम् / सोमभूतस्तु भूतानामग्निभूतो ऽग्निवर्चसाम्

彼为通晓吠陀者所可证知者,亦为具生发之性者之主;对众生彼为苏摩(Soma),对具火焰光辉者彼为阿耆尼(Agni)。

Verse 41

मनुष्याणां मनुर्भूतस्तपोभूतस्तपस्विनाम् / विनयो नयतृप्तानां तेजस्तेजस्विनामपि

对人类而言,彼为摩奴(Manu);对苦行者而言,彼为苦行(tapas)。对满足于正道者,彼为谦恭;对具光辉者,彼亦为威光(tejas)。

Verse 42

विग्रहो विग्रहाणां यो गतिर्गतिमतामपि / आकाशप्रभवो वायुर्वायुप्राणो हुताशनः

彼为诸形之形,亦为一切行者之至上归趣;由虚空(ākāśa)生风(vāyu),由风生气(prāṇa),由气显现火神胡塔沙那(Agni)。

Verse 43

देवा हुताशनप्राणाः प्राणो ऽग्नेर्मधुसूदनः / रसाच्छोणितसंभूतिः शोणितान्मासमुच्यते

诸天为胡塔沙那(阿耆尼)之气(prāṇa),而阿耆尼之气即为摩度苏达那(毗湿奴)。由“味液”(rasa)生血(śoṇita),由血称为肉(māṃsa)。

Verse 44

मांसात्त मेदसो जन्म मेदसो ऽस्थि निरुच्यते / अस्य्नो मज्जा समभवन्मज्जातः शुक्रसंभवः

由肉(māṃsa)生脂(medas),由脂称为骨(asthi)。由骨生髓(majjā),由髓生精(śukra)。

Verse 45

शुक्राद्गर्भः समाभव द्रसमूलेन कर्मणा / तत्रापां प्रथमावापः स सौम्यो राशिरुच्यते

由精(śukra)因以味液(rasa)为根的业力而成胎(garbha)。其中先有水大之初合;此称为“娑乌弥耶之聚”(saumya rāśi,属苏摩/月性)。

Verse 46

गर्भो ऽश्मसंभवो ज्ञेयो द्वितीयो राशिरुच्यते / शुक्रं सोमात्मकं विद्यादार्त्तवं पावकात्मकम्

当知胎(garbha)由“阿湿摩”(aśma,坚实如石之性)而生;此称第二聚(rāśi)。当知精(śukra)具苏摩(月性),而经血(ārtava)具火神帕瓦卡(Agni)之性。

Verse 47

भावौ रसानुगावेतौ वीर्ये च शशिपावकौ / कफवर्गे भवेच्छुक्रं पित्तवर्गे च शोणितम्

情与味相随而行;精力之中具月与火之性。属痰(kapha)者生精(śukra),属胆火(pitta)者生血(śoṇita)。

Verse 48

कफस्य त्दृदयं स्थानं नाभ्यां पित्तं प्रतिष्ठितम् / देहस्य मध्ये त्दृदयं स्थानं तु मनसः स्मृतम्

痰(kapha)之处在心;胆火(pitta)安住于脐。身之中央的心,也被忆为意(manas)之所。

Verse 49

नाभिश्चोदर संस्था तु तत्र देवो हुताशनः / मनः प्रजापतिर्ज्ञेयः कफः सोमो विभाव्यते

脐居于腹中;彼处有神“呼陀舍那”(Hutāśana,阿耆尼)安住。意(manas)当知为生主(Prajāpati),痰(kapha)当观为苏摩(Soma)。

Verse 50

पित्तमग्निः स्मृतो ह्येतदग्नीषोमात्मकं जगत् / एवं प्रवर्त्तिते गर्भे वृत्ते कर्कन्धुसंनिभे

胆火(pitta)被记为火;此世界本为阿耆尼与苏摩之体。如此胎藏运转,渐成圆团,如枣果(karkandhu)一般。

Verse 51

वायुः प्रवेशनं चक्रे संगतः परमात्मना / स पञ्चधा शरीरस्थो विद्यते वर्द्धयेत्पुनः

风气(vāyu)与至我(Paramātman)相应而入(胎)。彼风在身中分为五种而住,复又令其增长。

Verse 52

प्राणापानौ समानश्च ह्युदानो व्यान एव च / प्राणो ऽस्य परमात्मानं वर्द्धयन्परिवर्त्तते

普拉那、阿帕那、萨玛那、乌达那与维亚那——皆如是;其中普拉那增长其内的至上我(Paramātman)之德,而不断运转流行。

Verse 53

अपानः पश्चिमं कायमु दानो ऽर्द्धं शरीरिणः / व्यानो व्यानीयते येन समानः सर्वसंधिषु

阿帕那居于身之西方(后部);乌达那在有身者之半身;维亚那凭此而使运行遍及四方;萨玛那则住于一切关节与接合处。

Verse 54

भूतावाप्तिस्ततस्तस्य जायतेन्द्रियगोचरा / पृथिवी वायुराकाशमापो ज्योतिश्च पञ्चमम्

于是,他得以获得为诸根所缘的诸大:地、风、空(以太)、水,以及第五的光明之火(tejas)。

Verse 55

सर्वेद्रियनिविष्टास्ते स्वस्वयोगं प्रचक्रिरे / पार्थिवं देहमाहुस्तु प्राणात्मानं च मारुतम्

它们皆入于诸根,各行其自有之瑜伽作用;身体被称为属地(pārthiva),而“以普拉那为我者”被称为属风(māruta)。

Verse 56

छिद्राण्याकाशयोनीनि जलात्स्रावः प्रवर्त्तते / ज्योतिश्चक्षुषि कोष्ठो ऽस्मात्तेषां यन्नामतः स्मृतम्

诸孔窍以虚空为胎;诸液之流出由水而起;而眼中具火光(tejas)。因此,诸者之名号在传承中如是被记念。

Verse 57

संग्राह्य विषयांश्चैव यस्य वीर्यात्प्रवर्तिताः / इत्येतान्पुरुषः सर्वान्सृजत्येकः सनातनः

凭借祂的威力,诸可摄受之境亦得发动;唯有那一位永恒的普鲁沙,创造这一切众有。

Verse 58

नैधने ऽस्मिन्कथं लोके नरत्वं विष्णुरागतः / एष नः संशयो धीमन्नेष वै विस्मयो महान्

智者啊,在这无常世间,毗湿奴如何降至人身?此乃我等疑惑,实为大奇迹。

Verse 59

कथं गतिर्गतिमतामापन्नो मानुषीं तनुम् / श्रोतुमिच्छामहे विष्णोः कर्माणि च यथाक्रमम्

作为众行者之至上归趣的毗湿奴,如何取了人身?我等愿按次第聆听毗湿奴的诸般事业。

Verse 60

आश्चर्यं परमं विष्णुर्वेदैर्देवश्चै कथ्यते / विष्णोरुत्पत्तिमाश्चय कथयस्व महामते

吠陀称毗湿奴为至上奇迹,亦为天神。大智者啊,请宣说毗湿奴那奇妙的出现。

Verse 61

एतदाश्चर्यमाख्यातं कथ्यतां वै सुखावहम् / प्रख्यातबलवीर्यस्य प्रादुर्भावन्महात्मनः / कर्मणाश्चर्यभूतस्य विष्णोः सत्त्वमिहोच्यते

愿宣说此奇事,确能带来安乐:此处讲述那以力与勇闻名之大我之显现,并阐明以事业成奇的毗湿奴之清净本性。

Verse 62

सूत उवाच अहं वः कीर्त्तयिष्यामि प्रादुर्भावं महात्मनः

苏多说道:我将为诸位称述那位大圣者的显现降生。

Verse 63

यथा बभूव भगवान्मानुषेषु महातपाः / भृगुस्त्रीवधदोषेण भृगुशापेन मानुषे

那位具大神苦行的世尊如何在人间出现——因犯下杀害婆利古之妻的罪过,又因婆利古的诅咒,而取人身。

Verse 64

जायते च युगान्तेषु देवकार्यार्थसिद्धये / तस्य दिव्यां तनुं विष्णोर्गदतो मे निबोधत

在诸劫末期,为成就天神之事,他便降生;请听我讲述毗湿奴那神圣之身。

Verse 65

युगधर्मे परावृत्ते काले च शिथिले प्रभुः / कर्त्तुं धर्मव्यवस्थानं जायते मानुषेष्विह / भृगोः शापनिमित्तेन देवासुरकृतेन च

当劫法颠倒、时世松弛之际,主为建立正法之秩序而在人间降生——既因婆利古之诅咒为缘,也因天神与阿修罗所造之事。

Verse 66

ऋषय ऊचुः कथं देवासुरकृते तद्व्याहारमवाप्तवान् / एतद्वेदितुमिच्छामो वृत्तं देवासुरं कथम्

诸仙人说道:因天神与阿修罗所为,那番缘由是如何发生的?我们愿知那天神与阿修罗的经过究竟如何。

Verse 67

सूत उवाच देवासुरं यथावृत्तं ब्रुवतस्तन्निबोधत

苏多说道:请从我口中谛听天神与阿修罗之间如实发生的经过。

Verse 68

हिरण्यकशिपुर्दैत्यस्त्रैलोक्यं प्राक्प्रशासति / बलिनाधिष्ठितं राज्यं पुनर्लोकत्रये क्रमात्

往昔,魔王希兰尼亚迦湿布统治三界;其后循序而变,三界之中复由婆利执掌王权。

Verse 69

सख्यमासीत्परं तेषां देवानामसुरैः सह / युगाख्या दश संपूर्णा ह्यासीदव्याहतं जगत्

当时诸天与阿修罗之间结下至深友谊;名为“劫”的十个时期圆满,世界亦安然无碍。

Verse 70

निदेशस्थायिनश्चैव तयोर्देवासुराभवन् / बद्धे बलौ विवादो ऽथ संप्रवृत्तः सुदारुणः

诸天与阿修罗皆依二者之命而行;及至婆利被缚,遂爆发极其惨烈的争端。

Verse 71

देवासुराणां च तदा घोरः क्षयकरो महान् / तेषां द्वीपनिमित्तं वै संग्रामा बहवो ऽभवेन्

其时天神与阿修罗之间爆发了可怖而巨大的毁灭性冲突;因诸岛之故,他们发生了许多战争。

Verse 72

वराहे ऽस्मिन्दश द्वौ च षण्डामर्कान्तगाः स्मृताः / नामतस्तु समासेन शृणुध्वं तान्विवक्षतः

在此婆罗诃劫中,传说有十二种称为“善陀摩尔迦安多”。请听我将要简略宣说的诸名。

Verse 73

प्रथमो नारसिंहस्तु द्वितीयश्चापि वामनः / तृतीयः स तु वाराहश्चतुर्थो ऽमृतमन्थनः

第一为那罗辛诃,第二亦为婆摩那;第三为婆罗诃,第四为“搅拌甘露”(阿蜜哩多曼陀那)。

Verse 74

संग्रामः पञ्चमश्चैव सुघोरस्तारकामयः / षष्ठो ह्याडीबकस्तेषां सप्तमस्त्रैपुरः स्मृतः

第五为“战征”(桑格罗摩),极其可怖,与塔罗迦相关;第六为“阿底婆迦”,第七称为“三城”(特莱普罗)。

Verse 75

अन्धकारो ऽष्टमस्तेषां ध्वजश्च नवमः स्मृतः / वार्त्रश्च दशमो घोरस्ततो हालाहलः स्मृतः

第八为“黑暗”(安陀迦罗),第九为“旗幡”(德瓦阇)。第十为“瓦尔特罗”,极其可怖;其后记为“哈拉哈拉”。

Verse 76

स्मृतो द्वादशकस्तेषां घोरः कोलाहलो ऽपरः / हिरण्यकशिपुर्दैत्यो नरसिंहेन सूदितः

此即其十二之组,另有一“喧嚣”(拘罗诃罗)亦甚可怖。魔王希兰尼耶迦湿布为那罗辛诃所诛。

Verse 77

वामनेन बलिर्बद्धस्त्रैलोक्याक्रमणे कृते / हिरण्याक्षो हतो द्वन्द्वे प्रतिवादे च दैवते

毗湿奴化身侏儒婆摩那踏遍三界而缚缚婆利;希兰尼亚克沙在与诸天对抗的决斗中被诛。

Verse 78

महाबलो महासत्त्वः संग्रामेष्वपराजितः / दंष्ट्रया तु वराहेण स दैत्यस्तु द्विधाकृतः

那大力大勇、战场不败的阿修罗,被野猪化身婆罗诃以獠牙撕裂,断为两段。

Verse 79

प्रह्लादो निर्जितो युद्धे इन्द्रेणामृतमन्थने / विरोचनस्तु प्राह्लादिर्नित्यमिन्द्रवधोद्यतः

在搅拌甘露之际的战斗中,因陀罗战胜了普罗诃罗陀;而其子毗罗遮那常怀弑因陀罗之志。

Verse 80

इन्द्रेणैव स विक्रम्य निहतस्तारकामये / भवादवध्यतां प्राप्य विशेषास्त्रादिभिस्तु यः

在塔罗迦摩耶之战中,因陀罗亲自奋勇将其诛杀;那人虽从婆婆(湿婆)得“不死不杀”之赐,终仍败于诸般殊胜神兵。

Verse 81

स जंभो निहतः षष्ठे शक्राविष्टेन विष्णुना / अशक्नुवत्सु देवेषु परं सोढुमदैवतम्

在第六次交战中,阎婆被入于释迦(因陀罗)之身的毗湿奴所诛;诸天已无力承受那极盛的阿修罗之势。

Verse 82

निहता दानवाः सर्वे त्रिपुरे त्र्यंबकेण तु / अथ दैत्याः सुराश्चैव राक्षसास्त्वन्धकारिके

在特里普拉,三目神特里扬巴卡(湿婆)诛灭了一切达那婆。随后在幽暗之战中,代提耶、天神与罗刹也一同参战。

Verse 83

जिता देवमनुष्येस्ते पितृभिश्चैव संगताः / सवृत्रान्दानवांश्चैव संगतान्कृत्स्नशश्च तान्

天神与人类同祖灵(Pitṛ)结盟而取胜;连同弗栗陀罗在内,凡聚集的达那婆尽皆被彻底征服。

Verse 84

जघ्ने विष्णुसहायेन महेन्द्रस्तेन वर्द्धितः / हतो ध्वजे महेन्द्रेण मयाछत्रश्च योगवित्

在毗湿奴的助力下,得其增威的摩诃因陀罗将他们诛杀;又被摩诃因陀罗的旗幡一击,精通瑜伽的摩耶伞盖亦被杀。

Verse 85

ध्वजलक्षं समाविश्य विप्रचित्तिः महानुजः / दैत्यांश्च दानवांश्चैव संहतान्कृत्स्नशश्च तान्

大勇者毗普罗支提闯入旗幡所指之处,将聚集的诸代提耶与达那婆尽数击败。

Verse 86

जयद्धालाहले सर्वैर्देवैः परिवृतो वृषा / रजिः कोलाहले सर्वान्दैत्यान्परिवृतो ऽजयत्

在胜利的呼声与如哈拉哈拉般的喧嚣中,被众天神环绕的弗利沙得胜;而在那片混战喧腾里,被代提耶围绕的罗阇亦战胜众敌。

Verse 87

यज्ञस्यावभृथे जित्वा षण्डामकारै तु दैवतैः / एते देवासुरा वृत्ताः संग्रामा द्वादशैव तु

在祭祀的阿婆毗利他(avabhṛtha)沐浴仪式中,由名为“Ṣaṇḍāmākāra”的诸神得胜之后,天神与阿修罗之间便发生了这十二场战争。

Verse 88

सुरासुरक्षयकराः प्रजाना मशिवश्च ह / हिरण्यकशिपू राजा वर्षाणामर्बुदं बभौ

那些战争使天神与阿修罗同遭损灭,也给众生带来不祥;国王希兰尼亚迦希布(Hiraṇyakaśipu)威势显赫,历时一阿尔布达年。

Verse 89

तथा शतसहस्राणि ह्यधिकानि द्विसफतिः / अशीतिश्च सहस्राणि त्रैलोक्यस्येश्वरो ऽभवत्

同样地,又加上七十二与八万年之久,他成为三界之主。

Verse 90

पारंपर्येण राजा तु बलिर्वर्षार्बुधं पुनः / षष्टिश्चैव सहस्राणि त्रिंशच्च नियुतानि च

按传承次第,国王婆利(Bali)又统治了一阿尔布达年,并加上六万年与三十尼由他(niyuta,计数单位)。

Verse 91

बले राज्याधिकारस्तु यावत्कालं बभूव ह / प्रह्लादो निर्जितो ऽभूच्च तावत्कालं सहासुरैः

婆利掌握王权多久,普罗诃罗陀(Prahlāda)也就与诸阿修罗一同被制服多久。

Verse 92

इन्द्रास्त्रयस्ते विख्याता ह्यसुराणां महौ जसः / दैत्यसंस्थमिदं सर्वमासीद्दशयुगं किल

你的因陀罗神兵(Indrāstra)闻名于世,足以制伏大力阿修罗。相传此一切世界曾在十个瑜伽之久归于代提耶(Daitya)统治。

Verse 93

अशपत्तु ततः शुक्रो राष्ट्रं दशयुगं पुनः / त्रैलोक्यमिदमव्यग्रं महेन्द्रो ह्यभ्ययाद्बलेः

随后,舒克罗(Śukra)又诅咒其国度再历十个瑜伽。大因陀罗以威力进逼婆利(Bali);彼时三界安然无扰。

Verse 94

प्रह्लादस्य हृते तस्मिंस्त्रैलोक्ये कालपर्ययात् / पर्यायेणैव संप्राप्तं त्रैलोक्यं पाकशासनम्

为普罗诃罗陀(Prahlāda)之利益,因时轮更替,三界之主权依次流转,终归于“制酒者”(Pākaśāsana,即因陀罗)。

Verse 95

ततो ऽसुरान्परित्यज्य यज्ञो देवानुपागमत् / यज्ञे देवानथ गते काव्यं ते ह्यसुरां ब्रुवन्

于是祭祀之力(Yajña)舍离阿修罗而归向诸天。祭祀既至天众一方,迦毗耶(Kāvya,即舒克罗)便对阿修罗说道。

Verse 96

किं तन्नो मिषतां राष्ट्रं त्यक्त्वा यज्ञः सुरान्गतः / स्थातुं न शक्रुमो ह्यद्य प्रविशाम रसातलम्

就在我们眼前,祭祀之力舍弃了我们的国度而归于诸天。如今我们已无法立足;让我们进入罗娑多罗(Rasātala)吧。

Verse 97

एवमुक्तो ऽब्रवीदेतान्विषण्णः सांत्वयन्गिरा / माभैष्ट धारयिष्यामि तेजसा स्वेन वः सुराः

听了这话,他虽然沮丧,却用言语安慰他们说:“诸神(Suras)啊,不要害怕,我将用我自己的光辉(Tejas)支持你们。”

Verse 98

वृष्टिरोषधयश्चैव रसा वस्तु च यत्परम् / कृत्स्नानि ह्यपि तिष्ठन्तु पापस्तेषां सुरेषु वै

愿雨水、药草、精华以及任何至高无上的物质——愿这一切都留存下来;愿他们的罪恶降临在修罗(Suras)身上。

Verse 99

युष्मदर्थं प्रदास्यामि तत्सर्व धार्यते मया / ततो देवासुरान्दृष्ट्वा धृतान्काव्येन धीमता

“为了你们的缘故,我将赐予我所持有的一切。”然后,看到天神和阿修罗都被智慧的卡维亚(Kavya,即Shukra)所支持……

Verse 100

अमन्त्रयंस्तदा ते वै संविघ्ना विजिगीषया / एष काव्य इदं सर्वं व्यावर्त्तयति नो बलात्

那时,他们(天神)受到阻碍,怀着征服的渴望,商议道:“这个卡维亚正用武力扭转这一切(我们的努力)。”

Verse 101

साधु गच्छामहे तूर्णं यावन्नाप्याययेत्तु तान् / प्रसह्य हत्वा शिष्टांस्तु पातालं प्रापयामहे

“好吧,在他恢复他们之前,我们要赶快去。用武力杀死剩下的人之后,让我们把他们送到帕塔拉(Patala,地下世界)去。”

Verse 102

ततो देवास्तु संरब्धा दानवानभिसृत्य वै / जघ्नुस्तैर्वध्यमानास्ते काव्यमेवाभिदुद्रुवुः

于是诸天神忿然奋起,冲向檀那婆众而加以诛戮;那些被击杀逼迫的檀那婆,唯有奔向迦毗耶(即舒克罗阿阇梨)。

Verse 103

ततः काव्यस्तु तान्दृष्ट्वा तूर्णं देवैरभिद्रुतान् / समारक्षत संत्रस्तान्देवेभ्यस्तान्दितेः सुतान्

随后迦毗耶见他们被诸天急追,便迅速护佑惊惶的底提之子,使其免遭天神之害。

Verse 104

काव्यो दृष्ट्वा स्थितान्देवांस्तत्र दैवमचिन्तयत् / तानुवाच ततो ध्यात्वा पूर्ववृत्तमनुस्मरन्

迦毗耶见诸天立于其处,便思惟天命之所趋;继而入定,追忆往事,然后对他们开口说道。

Verse 105

त्रैलोक्यं विजितं सर्वं वामनेन त्रिभिःक्रमैः / बलिर्बद्धो हतो जंभो निहतश्च विरोचनः

毗摩那以三步遍量而征服三界;婆利被缚,阇婆被杀,毗卢遮那亦被诛灭。

Verse 106

महासुरा द्वादशसु संग्रामेषु सुरैर्हताः / तैस्तैरुपायैर्भूयिष्ठा निहता ये प्रधानतः

在十二场战役中,诸大阿修罗为天神所杀;其中尤以首领为甚,多数以种种计策被歼灭。

Verse 107

किञ्चिच्छिष्टास्तु वै यूयं युद्धे स्वल्पे तु वै स्वयम् / नीतिं वो हि विधास्यामि कालः कश्चित्प्रतीक्ष्यताम्

你们在小小的战斗中仅余少数。我将为你们制定正道之策(nīti);且再等待片刻时日。

Verse 108

यास्याम्यहं महादेवं मन्त्रार्थे विजयाय च / अग्निमाप्याययेद्धोता मेत्रैरेष दहिष्यति

我将为成就咒义并求得胜利而前往大自在天(摩诃提婆)处。愿祭司(hota)滋养圣火;此火将因我之咒而炽燃焚烧。

Verse 109

ततो यास्याम्यहं देवं मन्त्रार्थे नीललोहितम् / युष्माननुग्रहीष्यामि पुनः पश्चादिहागतः

随后我将为成就咒义而前往尼罗罗希多(Nīlalohita)神前。待我后来回到此处,必赐予你们加被与恩泽。

Verse 110

यूयं तपश्चरध्वं वै संवृता वल्कलैर्वने / न वै देवा वाधिष्यन्ति यावदागमनं मम

你们当在林中披树皮衣而修苦行。直到我归来之前,诸天不会加以阻挠。

Verse 111

अप्रतीपांस्ततो मन्त्रान्देवात्प्राप्य महेश्वरात् / योत्स्यामहे पुनर्देवांस्ततः प्राप्स्यथ वै जयम्

随后从大自在天(摩诃伊湿伐罗)处得获不可阻挡的真言,我们将再与诸天交战;那时你们必定获得胜利。

Verse 112

ततस्ते कृतसंवादा देवानूचुस्ततो ऽसुराः / न्यस्तशस्त्रा वयं सर्वे लोकान्यूयं क्रमन्तु वै

随后,对话既毕,阿修罗对诸天说道:“我们众皆已弃置兵刃;愿诸位确然巡行诸世界。”

Verse 113

वयं तपश्चरिष्यामः संवृत्ता वल्कलैर्वने / प्रह्लादस्य वचः श्रुत्वा सत्यानुव्यात्दृतं तु तत्

我们将披树皮衣住于林中修苦行;听闻普罗诃罗陀之言,我们坚定奉行真实之道。

Verse 114

ततो देवा न्यवर्त्तन्त विज्वरा मुदिताश्च ह / न्यस्तशस्त्रेषु दैत्येषु स्वान्वै जग्मुर्यथागतान्

于是诸天无忧无惧、欢喜而返;见诸代提耶已弃兵刃,便如来时一般回归各自天宫。

Verse 115

ततस्तानब्रवीत्काव्यः कञ्चित्कालं प्रतीक्ष्यताम् / निरुत्सुकास्तपोयुक्ताः कालः कार्यार्थसाधकः

于是迦毗耶(舒克罗阿阇黎)对他们说:“且待片时;无所躁急,安住苦行,因为时间能成就所求之事。”

Verse 116

पितुर्ममाश्रमस्था वै संप्रतीक्षत दानवाः / स संदिश्यसुरान्काव्यो महोदेवं प्रपद्य च

诸丹那婆啊,且住我父之道场而等待;迦毗耶向诸天传言后,便归依大天(摩诃提婆)。

Verse 117

प्रणम्यैवमुवाचायं जगत्प्रभवमीश्वरम् / मन्त्रानिच्छामि हे देव ये न संति बृहस्पतौ

他顶礼后对那位世界之源的自在主说道:“天神啊,我愿求连布里哈斯帕提也不具备的真言。”

Verse 118

पराभवाय देवानामसुरेष्वभयावहान् / एवमुक्तो ऽब्रवीद्देवो मन्त्रानिच्छसि वै द्विज

为使诸天得胜、令阿修罗心生畏惧——神被如此请求后说道:“婆罗门啊,你确实想要真言吗?”

Verse 119

व्रतं चर मयोद्दिष्टं ब्रह्मचारी समाहितः / पूर्मं वर्षसहस्रं वै कुण्डधूममवाक्शिराः

遵行我所指示的誓戒,作梵行者,摄心专注。先当一千年,在圣火坛(昆达)之烟中俯首而住。

Verse 120

यदि पास्यति भद्रं ते मत्तो मन्त्रमवाप्स्यसि / तथोक्तो देवदेवेन स शुक्रस्तु महातपाः

若你能守持此行——愿你吉祥——便可从我处得此真言。天中之天如此告诫后,大苦行者舒克罗…

Verse 121

पादौ संस्पृश्य देवस्य बाढमित्यभाषत / व्रतं चराम्यहं देव यथोद्दिष्टो ऽस्मि वैप्रभो

他触礼神足而答道:“必当如此。天神、主宰啊,我将依你所示而行持誓戒。”

Verse 122

ततो नियुक्तो देवेन कुण्डधारो ऽस्य धूमकृत् / असुराणां हितार्थाय तस्मिञ्छुक्रे गते तदा

于是奉天神之命,能起烟雾的昆陀陀罗,为了阿修罗的利益,在那时室拘罗离去之后开始行事。

Verse 123

मन्त्रार्थं तत्र वसति ब्रह्म चर्यं महेश्वरे / तद्बुद्ध्वा नीतिपूर्वं तु राष्ट्रं न्यस्तं तदासुरैः

为成就咒义,他在那里于大自在天前守持梵行;明白此事后,阿修罗便依治国之道在那时交托了国政。

Verse 124

तस्मिञ्छिद्रे तदामर्षाद्देवास्तान्समभिद्रवन् / प्रगृहीतायुधाः सर्वे बृहस्पतिपुरोगमाः

正逢其隙,诸天因忿怒而奔袭他们;众皆执持兵刃,由布里哈斯帕提领前。

Verse 125

दृष्ट्वासुरगणा देवान्प्रगृहीतायुधान्पुनः / उत्पेतुः सहसा सर्वे संत्रस्तास्ते ततो ऽभवन्

阿修罗众见诸天再度执兵,顿时惊起奔窜;于是他们全都陷入恐惧。

Verse 126

न्यस्ते शस्त्रे ऽभये दत्ते ह्याचार्ये व्रतमास्थिते / संत्यज्य समयं देवास्ते सपत्नजिघांसवः

当兵刃已放下、无畏已赐予、师尊正安住于誓戒之时,诸天仍因欲诛敌对者而背弃了盟约。

Verse 127

अनाचार्यास्तु भद्रं वो विश्वस्तास्तपसे स्थिताः / चीरवल्काजिनधरा निष्क्रिया निष्परिग्रहाः

愿你们吉祥;我们虽无师长,却怀信而安住苦行。身披粗布、树皮与兽皮,远离世务,不蓄财物。

Verse 128

रणे विजेतुं देवान्वै न शक्ष्यामः कथञ्चन / अयुद्धेन प्रपद्यामः शरणं काव्यमातरम्

在战场上我们无论如何都不能战胜诸天。因此不以兵戈相争,我们归依“诗之母”——萨拉斯瓦蒂为庇护。

Verse 129

प्रापद्यन्त ततो भीतास्तया चैव तदाभयम् / दत्तं तेषां तु भीतानां दैत्यानामभयार्थिनाम्

于是他们惊惧之下投奔于她;当时她便赐予那些求免恐惧的代提耶“无畏”的庇护。

Verse 130

तया चाभ्युपपन्नांस्तान्दृष्ट्वा देवास्तदासुरान् / अभिजघ्नुः प्रसह्यैतान्विचार्य च बलाबलम्

诸天见那些阿修罗已投于她的庇护之下,便权衡强弱,强行出手击杀了他们。

Verse 131

तत स्तान्वध्यमानांस्तु देवैर्दृष्ट्वासुरांस्तदा / देवी क्रुद्धाब्रवीदेनाननिन्द्रत्वं करोम्यहम्

当她看见那些阿修罗被诸天所杀,女神震怒说道:“我将使他们失去因陀罗之位与威权(失其因陀罗性)。”

Verse 132

संस्तभ्य शीघ्रं संरंभादिन्द्रं साभ्यचरत्ततः / ततः संस्तंभितं दृष्ट्वा शक्रं देवास्तु मूढवत्

于是她在怒势中迅疾逼近因陀罗。见帝释天被制而僵立,诸天如痴如愚般惊惶失措。

Verse 133

व्यद्रवन्त ततो भीता दृष्ट्वा शक्रं वशीकृतम् / गतेषु सुरसंघेषु विष्मुरिन्द्रमभाषत

众天见帝释天已被制伏,惊惧奔散。诸神离去之后,毗湿摩对因陀罗说道。

Verse 134

मां त्वं प्रविश भद्रं ते नेष्यामि त्वां सुरेश्वर / एवमुक्तस्ततो विष्णुः प्रविवेश पुरन्दरः

他说:“愿你吉祥;天主啊,进入我身中,我将带你离去。”言毕,破罗陀罗便入于毗湿奴之内。

Verse 135

विष्मुना रक्षितं दृष्ट्वा देवी क्रुद्धा वचो ऽवदत् / एषा त्वां विष्णुना सार्द्ध दहामि मघवन्बलात्

见他受毗湿摩护持,女神震怒而言:“摩伽梵啊,我将以威力把你与毗湿奴一并焚尽!”

Verse 136

मिषता सर्वभूतानां दृश्यतां मे तपोबलम् / तयाभिभूतौ तौ देवाविन्द्राविष्णू जजल्पतुः

在一切众生注视之下,她说:“且看我苦行之力!”言罢便压制了二神;于是因陀罗与毗湿奴相互商议。

Verse 137

कथं मुच्येव सहितौ विष्णुरिन्द्रमभाषत / इन्द्रो ऽब्रवीज्जहि ह्येनां यावन्नो न दहे द्विभो

毗湿奴问因陀罗:“我们要如何一起获救?”因陀罗回答:“主啊,在她烧毁我们之前杀了她。”

Verse 138

विशेषेणाभिभूतो ऽहमिमां तज्जहि माचिरम् / ततः समीक्ष्य तां विष्णुः स्त्रीवधं कर्त्तुमास्थितः

“我完全被她压制住了,所以请毫不迟疑地杀了她。”于是,看着她,毗湿奴决定犯下杀害女人的罪行。

Verse 139

अभिध्याय ततश्शक्रमापन्नं सत्वरं प्रभुः / तस्याः संत्वरमाणायाः शीघ्रङ्कारी मुरारिहा

想到身处险境的因陀罗,主迅速采取了行动。当她正在急冲时,穆拉的杀手(毗湿奴)行动得更快。

Verse 140

त्रिधा विष्णुस्ततो देवः क्रूरं बुद्ध्वा चिकीर्षितम् / क्रुद्धस्तदस्त्रमाविध्य शिरश्चिच्छेद माधवः

这时,毗湿奴神意识到她的残忍意图,勃然大怒。马达瓦(毗湿奴)掷出武器,斩断了她的头颅。

Verse 141

तं दृष्ट्वा स्त्रीवधं घोरं चुकोप भृगुरीश्वरः / ततो ऽभिशप्तो भृगुणा विष्णुर्भार्यावधे तदा

看到这可怕的杀害妇女的行径,强大的敝衣仙人愤怒了。于是,因为杀妻之仇,敝衣仙人诅咒了毗湿奴。

Verse 142

यस्मात्ते जानता धर्ममवध्या स्त्री निषूदिता / तस्मात्त्वं सप्तकृत्वो वै मनुष्येषु प्रपद्यसे

因为你明知法(达摩)却杀害了不应被杀的女子;因此你必将七次投生于人间。

Verse 143

ततस्तेनाभिशापेन नष्टे धर्मे पुनः पुनः / सर्वलोक हितार्थाय जायते मानुषेष्विह

由于那道诅咒,正法屡屡湮没;然而为利益一切世界,他仍在此投生为人。

Verse 144

अनुव्याहृत्य विष्मुं स तदादाय शिरः स्वयम् / समानीय ततः काये समायोज्येदमब्रवीत्

他复诵毗湿奴之名,亲自取起那头颅;继而移至躯身,安接合一,并说道。

Verse 145

एतां त्वां विष्णुना सत्यं हतां संजीवयाम्यहम् / यदि कृत्स्नो मया धर्मश्चरितो ज्ञायते ऽपि वा

女神啊,以毗湿奴为证,我以真实之言令你这被杀者复生;若我确已圆满奉行达摩,且此为人所知。

Verse 146

तेन सत्येन जीवस्व यदि सत्यं ब्रवीम्यहम् / सत्याभिव्यहृतात्तस्य देवी संजीविता तदा

若我所言为真,便凭此真谛而复生;他宣说真实之语时,女神当即复活。

Verse 147

तदा तां प्रोक्ष्य शीताभिरद्भिर्जीवेति सो ऽब्रवीत् / ततस्तां सर्वभूतानां दृष्ट्वा सुप्तोत्थितामिव

于是他以清凉之水洒之,言曰:“复生吧。”随后一切众生见她如从睡梦中醒起,皆惊异不已。

Verse 148

साधुसाध्वित्यदृश्यानां वाचस्ताः सस्वनुर्दिशः / दृष्ट्वा संजीवितामेवं देवीं तां भृगुणा तदा

不可见者齐声称善曰:“善哉,善哉!”四方回响。此时婆利古见那女神如是复苏。

Verse 149

मिषतां सर्वभूतानां तदद्भुतमिवाभवत् / असंभ्रान्तेन भृगुणा पत्नी संजीवितां ततः

在一切众生注视之下,此事宛如奇迹。于是婆利古从容不乱,使其妻复得生命。

Verse 150

दृष्ट्वा शक्रो न लेभे ऽथ शर्म काव्यभयात्ततः / प्रजागरे ततश्चेन्द्रो जयन्तीमात्मनः सुताम्

见此,释迦(因陀罗)因惧迦维耶而不得安宁。于是因陀罗为其女阇延蒂而彻夜警醒。

Verse 151

प्रोवाच मतिमान्वाक्यं स्वां कन्यां पाकशासनः / एष काव्यो ह्यनिन्द्राय चरते दारुणं तपः

烹杀娑那(因陀罗)以智告其女曰:“此迦维耶正为毁灭因陀罗而修行严酷苦行。”

Verse 152

तेनाहं व्याकुलः पुत्रि कृतो धृतिमना दृढम् / गच्छ संभावयस्वैनं श्रमापनयनैः शुभे

女儿啊,因此我心中烦乱,虽仍坚守定力。吉祥的你,去吧,以能消除疲劳的侍奉礼敬他。

Verse 153

तैस्तैर्मनो ऽनुकूलैश्च ह्युपचारैरतद्रिता / देवी सारीन्द्रदुहिता जयन्ती शुभचारिणी

她以种种合乎心意的侍奉礼仪,毫不懈怠;那位女神——萨林陀罗之女——吉祥行持的胜生(Jayantī),专心服侍。

Verse 154

सुस्वरूपधरागात्तं दुर्वहं व्रतमास्थितम् / पित्रा यथोक्तं वाक्यं सा काव्ये कृतवती तदा

她具足端严妙相,安住于那难以承受的誓戒;并且父亲所说之言,她当时也以诗颂之体加以成就。

Verse 155

गीर्भिश्चैवानुकूलाभिः स्तुवन्ती वल्गुभाषिणी / गात्रसंवाहनैः काले सेवमाना त्वचासुखैः

她以顺心的言辞赞颂,言语柔美;又在适时为其按摩肢体,以令肌肤安乐的抚触之侍奉而奉事。

Verse 156

शुश्रूषन्त्यनुकूला च उवास बहुलाः समाः / पूर्णं धूमव्रते चापि घोरे वर्षसहस्रके

她以顺从之心勤于侍奉,居住多年;即便在可怖的“烟誓”(Dhūma-vrata)中,也圆满了整整一千年的期限。

Verse 157

वरेण च्छन्दयामास काव्यं प्रीतो ऽभवस्तदा / एवं व्रतं त्वयैकेन चीर्णं नान्येन केन चित्

他以赐福使迦毗耶(Kāvya)心满意足,当时亦大为欢喜。如此誓戒唯你一人奉行,别无他人能及。

Verse 158

तस्मात्त्वं तपसा बुद्ध्या श्रुतेन च बलेन च / तेजसा वापि विबुधान्सर्वानभिभविष्यसि

因此,凭借苦行、智慧、闻典之学、力量与光威(tejas),你将胜过一切天神。

Verse 159

यच्च किञ्चिन्ममब्रह्म विद्यते भृगुनन्दन / सांग च सरहस्यं च यज्ञोपनिषदस्तथा

噢,婆利古之爱子!我所具的一切梵智(Brahma-vidyā)——具足诸支分、含藏奥秘,并且还有关于祭祀的奥义书之教——

Verse 160

प्रतिभाति ते सर्वं तद्वाच्यं तु न कस्यचित् / सर्वाभिभावी तेन त्वं द्विजश्रेष्ठो भविष्यसि

这一切都在你心中分明显现,但不可对任何人宣说。凭此你将压伏一切,成为婆罗门中最胜者。

Verse 161

एवं दत्त्वा वरं तस्यै भार्गवाय भवः पुनः / प्रजेशत्वं धनेशत्वमवध्यत्वं च वै ददौ

如此赐下恩许之后,婆婆(湿婆)又赐予婆伽婆(Bhārgava)主宰众生之权、主宰财富之权,以及不为所杀之身。

Verse 162

एतांल्लब्ध्वा वरान्काव्यः संप्रहृष्टतनूरुहः / हर्षात्प्रादुर्बभौ तस्य दिव्यं स्तोत्रं महेशितुः

得此诸般恩赐后,迦毗耶欢喜至极,周身毛发皆竖。因大悦而从他口中涌现赞颂大自在天的神圣颂歌。

Verse 163

तदा तिर्यक्स्थितस्त्वेवं तुष्टुवे नीललोहितम् / नमो ऽस्तु शितिकण्ठाय सुराद्याय सुवर्चसे

于是他侧身而立,赞颂尼罗罗希多:“敬礼于白喉者,诸天之始,光辉灿然者!”

Verse 164

लेलिहानाय लेह्याय वत्सराय जगत्पते / कपर्दिने ह्यूर्द्ध्वरोम्णे हर्यक्षवरदाय च

敬礼于“舔舐者”与“可被品尝者”,化身为岁时之主、世界之主;敬礼于结髻者、毛发上竖者,以及赐福于哈里亚克沙者。

Verse 165

संस्तुताय सुतीर्थाय देवदेवाय रंहसे / उष्णीषिणे सुवक्त्राय सहस्राक्षाय मीढुषे

敬礼于当受赞颂者、至圣渡口之体、诸神之神、迅疾者;敬礼于戴冠者、善颜者、千眼者,以及赐雨者。

Verse 166

वसुरेताय रुद्राय तपसे चीरवाससे / निस्वाय मुक्तकेशाय सेनान्ये रोहिताय च

敬礼于具瓦苏之光种的鲁陀罗,敬礼于苦行者、披树皮衣者;敬礼于尼斯瓦、散发者、军旅统帅,以及罗希多。

Verse 167

कवये राजवृद्धाय तक्षकक्रीडनाय च / गिरिशायार्कनेत्राय यतये चाज्यपाय च

顶礼那位圣诗之贤者、令王权增盛者、与塔克沙迦嬉游者;顶礼山主吉利沙、日轮之眼者、苦行者与受饮酥油供献者。

Verse 168

सुवृत्ताय सुहस्ताय धन्विने भार्गवाय च / सहस्रबाहवे चैव सहस्रामलचक्षुषे

顶礼行仪圆满、善手巧作的持弓者婆尔伽瓦;顶礼千臂者与千净眼者。

Verse 169

सहस्रकुक्षये चैव सहस्रचरणाय च / सहस्रशिरसे चैव बहुरूपाय वेधसे

顶礼维达斯:千腹、千足、千首,并现无量形相者。

Verse 170

भवाय विश्वरूपाय श्वेताय पुरुषाय च / निषङ्गिणे कवचिने सूक्ष्माय क्षपणाय च

顶礼婆伐,具宇宙之形者、白净之普鲁沙;佩兵刃者、披甲者、至微至妙者、能灭暗夜者。

Verse 171

ताम्राय चैव भीमाय उग्राय च शिवाय च / महादेवाय सर्वाय विश्वरूपशिवाय च

顶礼铜赤色者、可畏者、威猛者、吉祥的湿婆;顶礼大天、万有之主,以及具宇宙形相的湿婆。

Verse 172

हिरण्याय वसिष्ठाय वर्षाय मध्यमाय च / धाम्ने चैव पिशङ्गाय पिङ्गलायारुणाय च

礼敬金辉之尊、瓦西什塔、瓦尔沙与中位者;亦礼敬为圣居者、褐金者、黄褐者与赤辉者。

Verse 173

पिनाकिने चेषुमते चित्राय रोहिताय च / दुन्दुभ्यायैकपादाय अर्हाय बुद्धये तथा / मृगव्याधाय सर्वाय स्थाणवे भीषणाय च

礼敬持皮那迦者、具箭者、奇妙者与赤辉者;礼敬鼓音者、独足者、应受供养者与智慧者;礼敬猎鹿者、万有者、常住者与可畏者。

Verse 174

बहुरूपाय चोग्राय त्रिनेत्रायेश्वराय च / कपिलोयैकवीराय मृत्यवे त्र्यंबकाय च

礼敬多形之尊、威猛之尊、三眼之尊与自在主;礼敬迦毗罗、独勇者、死神之相与三目主。

Verse 175

वास्तोष्पते पिनाकाय शङ्कराय शिवाय च / आरण्याय गृहस्थाय यतिने बह्मचारिणे

礼敬居宅之主、持皮那迦者、善作吉祥者与吉祥天尊;亦礼敬林居者、家住者、出家行者与梵行者。

Verse 176

सांख्याय चैव योगाय ध्यानिने दीक्षिताय च / अन्तर्हिताय सर्वाय तप्याय व्यापिने तथा

礼敬数论与瑜伽之尊、禅定者与受灌顶者;礼敬内隐者、万有者、苦行之相与遍满者。

Verse 177

बुद्धाय चैव शुद्धाय मुक्ताय केवलाय च / रोधसे चैकितानाय ब्रह्मिष्ठाय महार्षये

礼敬具智慧之相、清净、解脱、独一者;亦礼敬罗陀萨,心一境性、安住梵的伟大仙人。

Verse 178

चतुष्पादाय मेध्याय वर्मिणे शीघ्रगाय च / शिखण्डिने कपालाय दण्डिने विश्वमेधसे

礼敬四足者、净洁者、披甲者、疾行者;礼敬有髻者、持颅者、执杖者、具遍世智慧者。

Verse 179

अप्रतीताय दीप्ताय भास्कराय सुमेधसे / क्रूराय विकृतायैव बीभत्साय शिवाय च

礼敬不可测者、炽明者、如日者、具善慧者;亦礼敬凶猛者、异相者、可怖者,以及吉祥的湿婆。

Verse 180

शुचये परिधानाय सद्योजाताय मृत्यवे / पिशिताशाय शर्वाय मेघाय वैद्युताय च

礼敬清净者、披衣者、骤然显生者、死神之相;礼敬食肉者(毗湿陀舍)、舍尔瓦,亦如云如电者。

Verse 181

दक्षाय च जघन्याय लोकानामीश्वराय च / अनामयाय चेध्माय हिरण्यायैकचक्षुषे

礼敬善巧者、处于最下者、诸世间之主;礼敬无病者、为祭薪者、金色者,以及独眼者。

Verse 182

श्रेष्ठाय वामदेवाय ईशानाय च धीमते / महाकल्पाय दीप्ताय रोदनाय हसाय च

礼敬至上之瓦摩提婆、伊沙那与具慧之主;礼敬光耀者、具大劫之体者,亦为啼哭与欢笑之相。

Verse 183

दृढधन्विने कवचिने रथिने च वरूथिने / भृगुनाथाय शुक्राय गह्वरिष्ठाय धीमते

礼敬持坚弓者、披甲者、乘战车者与护军者;礼敬婆利古之主舒克罗,安住幽深处之具慧者。

Verse 184

अमोघाय प्रशान्ताय सदा विप्रप्रियाय च / दिग्वासः कृत्तिवासाय भगघ्नाय नमो ऽस्तु ते

礼敬无失者、寂静者、恒为婆罗门所爱者;礼敬披方为衣者、披皮衣者、摧灭“bhaga”者,愿受我礼。

Verse 185

पशूनां पतये चैव भूतानां पतये नमः / प्रभवे ऋग्यजुःसाम्ने स्वाहायै च सुधाय च

礼敬群兽之主、诸“bhūta”之主;礼敬《梨俱》《夜柔》《娑摩》之源,亦为“svāhā”与“sudhā”之相者。

Verse 186

वषट्कारतमायैव तुभ्यं मन्त्रात्मने नमः / स्रष्ट्रे धात्रे तथा कर्त्रे हर्त्रे च क्षपणाय च

礼敬汝为“vaṣaṭ”祭呼之体、为咒语之魂;礼敬创造者、维持者、作者、夺取者与消融者。

Verse 187

भूतभव्यभवेशाय तुभ्यं कर्मात्मने नमः / वसवे चैव साध्याय रुद्रादित्याश्विनाय च

礼敬您,统御过去、未来与现在之主,具业之本体者;亦礼敬诸婆苏、萨提耶、鲁陀罗、阿底提耶与阿湿毗尼。

Verse 188

विश्वाय मरुते चैव तुभ्यं देवात्मने नमः / अग्नीषोमविधिज्ञाय पशुमन्त्रौ षधाय च

礼敬您,具诸神之体者,与毗湿瓦诸天及马鲁特同在;礼敬您,通晓阿耆尼与苏摩仪轨者,亦为祭牲真言与灵药本性者。

Verse 189

दक्षिणावभृथायैव तुभ्यं यज्ञात्मने नमः / तपसे चैव सत्याय त्यागाय च शमाय च

礼敬您,作为祭祀本体者,亦含供施与阿婆婆利他沐浴之仪;并礼敬苦行、真实、舍离与寂静。

Verse 190

अहिंसायाथ लोभाय सुवेषायानिशाय च / सर्वभूतात्प्रभूताय तुभ्यं योगात्मने नमः

礼敬您,显现为不害、亦为贪欲、亦为华美衣饰、亦为长夜者;超越一切众生、为瑜伽本体者,向您致敬。

Verse 191

पृथिव्यै चान्तरिक्षाय महासे त्रिदिवाय च / जनस्तपाय सत्याय तुभ्यं लोकात्मने नमः

礼敬大地界、空界、摩诃界与三天界;礼敬您,诸界之灵,安住为阇那界、苦行界与真实界者。

Verse 192

अव्यक्तायाथ महते भूतायैवेन्द्रियाय च / तन्मात्रायाथ महते तुभ्यं तत्त्वात्मने नमः

礼敬于汝:为未显(Avyakta)、大(Mahat)、诸元素、诸根与诸微境(Tanmātra)之大者;汝为真理之自性,谨致敬礼。

Verse 193

नित्याय चाप्यलिङ्गाय सूक्ष्माय चेतराय च / शुद्धाय विभवे चैव तुभ्यं नित्यात्मने नमः

礼敬于汝:常住、无相、微细而超越;清净而具威德。礼敬于汝,永恒之我性(Ātman)。

Verse 194

नमस्ते त्रिषु लोकेषु स्वरन्तेषु भुवादिषु / सत्यान्तमहराद्येषु चतुर्षु च नमो ऽस्तु ते

于三界之中,于诸天界等诸世界之中;于自真界(Satya)至摩诃界(Maharloka)四层之中——愿向汝致敬礼。

Verse 195

नामस्तोत्रे मया ह्यस्मिन्यदसद्व्याहृतं प्रभो / मद्भक्त इतिब्रह्मण्य सर्वं तत्क्षन्तुमर्हसि

主啊,若我在此名号赞颂中有不当之言,护持婆罗门之尊者啊,愿以我为汝 भक्त而悉皆宽恕。

Frequently Asked Questions

The Vṛṣṇi/Yādava-associated lineage is foregrounded through the named vaṃśa-vīras—Saṃkarṣaṇa, Vāsudeva, Pradyumna, Sāṃba, and Aniruddha—serving as a structured entry into the Kṛṣṇa-centered clan register.

The ṛṣis ask why the supreme Viṣṇu repeatedly assumes human birth—entering a womb, adopting social roles (including cowherd life), and appearing among praised brahmin-kṣatriya contexts—despite being the cosmic regulator.

It supplies a doctrinal contrast: the same deity who establishes cosmic pathways as Trivikrama is also capable of intimate human embodiment, thereby legitimizing Kṛṣṇa’s historical-līlā as continuous with universal sovereignty.