
Sāttvata–Vṛṣṇi–Andhaka Vamśa (Genealogical Enumeration of the Yādava Clans)
本章呈现出《往世书》谱系(vamśa)常见的编目体例:苏多叙述萨特瓦塔(Sāttvata)一系中强盛诸子的兴起,点名与弗利什尼—安达迦(Vṛṣṇi–Andhaka)群体及其相关支系相连的人物。经文提示以“四色伽”(此处指四段分部的列举)有序展开,继而铺陈家族纽带:配偶、兄弟关系与子嗣名录。其中特别的一段围绕天弗利陀(Devāvṛdha)王:他以苦行(tapas)祈求理想之子;河中少女立志不移,与王结合,诞生巴卜鲁(Babhru),并由传统守护者所传诵的伽陀(gāthā)加以赞颂。总体而言,第71章是一份密集的族谱登记,通过姓名、分支与典范性的诞生保存宗族记忆,并将与夜陀婆(Yādava)相关的诸系安置于《往世书》的史传框架之中。
Verse 1
[वेर्सेस् २,७०।३ - ४९ नोत् अवैलब्ले अत् प्रेसेन्त्] सूत उवाच सात्त्वताज्जज्ञिरे पुत्राः कौशल्यायां महाबलाः / भजमानो भजिर्द्दिव्यो वृष्णिर्देवावृधो ऽन्धकः
[2.70.3–49 诸颂今未得] 苏多曰:在考沙利娅(Kauśalyā)中,由萨特瓦塔(Sāttvata)诞生了大力之子:婆阇摩那(Bhajamāna)、婆阇(Bhaji)、天妙者(Divya)、弗利什尼(Vṛṣṇi)、提婆阿弗利陀(Devāvṛdha)与安陀迦(Andhaka)。
Verse 2
महाभोजश्च विख्यातो ब्रह्मण्यस्सत्यसंगरः / तेषां हि सर्गाश्चत्वारः शृणुध्वं विस्तरेण वै
摩诃婆阇声名远播,敬奉婆罗门,于真实之战中坚定不移。关于他们有四段篇章——请细听其详。
Verse 3
भजमानस्य सृंजय्यो बाह्यका चोपवाह्यका / सृंज यस्य सुते द्वे तु बाह्यके ते उदावहत्
婆阇摩那的妻子为斯林阇耶雅、巴希迦与优婆婆希迦。斯林阇耶的两位女儿由巴希迦出嫁相配。
Verse 4
तस्य भार्ये भगिन्यौ ते प्रसूते तु सुतान्बहून् / निम्लोचिः किङ्कणश्चैव धृष्टिः पर पुरञ्जयः
他的两位妻子乃姊妹,生下许多儿子:尼姆罗祇、金迦那、德里什提与帕拉·普兰阇耶。
Verse 5
ते बाह्यकाया सृंजय्या भजमानाद्विजज्ञिरे / अयुताजित्सहस्राजिच्छताजिदिति नामतः
他们由巴希迦与斯林阇耶雅为婆阇摩那所生;其名为阿由塔吉特、萨哈斯拉吉特与舍塔吉特。
Verse 6
बाह्यकायां भगिन्यां ते भजमानाद्विजज्ञिरे / तेषां देवावृधो राजा चचार परमं तपः / पुत्रः सर्वगुणोपेतो मम भूयादिति स्म ह
他们也由名为巴希迦的姊妹为婆阇摩那所生。其中,国王提婆阿弗陀行最上苦行,心念道:“愿我得一具足诸德之子。”
Verse 7
संयोज्या त्मानमेवं स पर्णाशजलमस्पृशत्
他如此摄持自身,遂触及帕尔纳沙河的圣水。
Verse 8
सा चोपस्पर्शनात्तस्य चकार प्रियमापगा / कल्याणत्वान्नरपतेस्तस्य सा निम्नगोत्तमा
因他触水,阿帕伽河心生欢喜,为国王成就所喜之善;那最胜之河遂为君王带来吉祥。
Verse 9
चिन्तयाभिपरीताङ्गी जगामाथ विनिश्चयम् / नाभिगच्छामि तां नारीं यस्यामेवंविधः सुतः
她因忧思而心神不宁,遂下定决心:“有如此之子的女子,我决不前往。”
Verse 10
भवेत्सर्वगुणोपेतो राज्ञो देवावृधस्य हि / तस्मादस्य स्वयं चाहं भवाम्यद्य सहव्रता
愿提婆弗陀罗王具足一切德行;因此今日我将亲自成为他的“同誓之侣”(sahavratā),与他共守法度。
Verse 11
जज्ञे तस्याः स्वयं हृत्स्थो भावस्तस्य यथेरितः / अथ भूत्वा कुमारी तु सा चिन्तापरमेव च
她心中自然而然生起如先前所言之情;随后虽仍为处女之身,却沉入极深的忧思之中。
Verse 12
वरयामास राजानं तामियेष स पार्थिवः / तस्यामाधत्त गर्भे स तेजस्विनमुदा रधीः
国王迎娶了她,她也亲近那位人间君主。她欢喜地在胎中怀上了一位光辉威德的王子。
Verse 13
अथ सा नवमे मासि सुषुवे सरिता वरा / पुत्रं सर्वगुणोपेतं बभ्रुं देवावृधत्तदा
随后在第九个月,尊贵的萨丽塔诞下一子,名巴布鲁,具足诸德;其时诸天使德瓦弗里达的威名更盛。
Verse 14
तत्र वंशे पुराणज्ञा गाथां गायन्ति वै द्विजाः / गुणान्देवावृधस्यापि कीर्तयन्तो महात्मनः
在那一支系中,通晓《往世书》的婆罗门吟唱颂歌,并称扬大魂德瓦弗里达的诸般德行。
Verse 15
यथैव शृणुमो दूरात्सपंश्यामस्तथान्तिकात् / बभ्रुः श्रेष्ठो मनुष्याणां देवैर्देवावृथः समः
正如我们远闻其名,也同样近见其实:巴布鲁为人中最胜,在诸天之中亦与德瓦弗里达等同。
Verse 16
पुरुषाः पञ्चषष्टिश्च सहस्राणि च सप्ततिः / येमृतत्वमनुप्राप्ता बब्रोर्देवावृधादपि
共有六万五千零七十位男子——他们因巴布鲁,亦因德瓦弗里达,而得至不死之境。
Verse 17
यज्वा दानपतिर्धीरो ब्रह्मण्यः सत्यवाग्बुधः / कीर्त्तिमांश्च महाभोजः सात्त्वतानां महारथः
他是行祭祀者、施舍之主,沉稳坚毅,敬奉婆罗门,言语真实而有智慧;名声远播的摩诃婆阇,为萨特瓦塔族中的大车战勇士。
Verse 18
तस्यान्ववायः सुमहान्भोजा ये भुवि विश्रुताः / गान्धारी चैव माद्री च धृष्टैर्भार्ये बभूवतुः
他的世系极其伟大,世间闻名的婆阇诸王出于其族。对德里什塔而言,犍陀罗女与摩德丽二人同为其妻。
Verse 19
गान्धारी जनयामास सुमित्रं मित्रनन्दनम् / साद्री युधाजितं पुत्रं ततो मीढ्वांसमेव च
犍陀罗女生下苏密特罗——友人之喜。摩德丽生下名为尤达吉特的儿子,继而又生米德梵萨。
Verse 20
अनमित्रं शिनं चैव ताबुभौ पुरुषोत्तमौ / अनमित्रसुतो निघ्नो निघ्नस्य द्वौ बभूवतुः
阿那密特罗与尸那二人皆为卓越之士。阿那密特罗之子名尼格那;尼格那又有二子。
Verse 21
प्रसेनश्च महाभागः सत्राजिच्च सुताबुभौ / तस्य सत्राजितः सूर्यः सखा प्राणसमो ऽभवत्
福德深厚的普拉塞那与萨特拉吉特为其二子。对萨特拉吉特而言,太阳神苏利耶是如同生命般亲爱的挚友。
Verse 22
स कदाचिन्निशापाये रथेन रथिनां वरः / तोयं कूलात्समुद्धर्तुमुपस्थातुं ययौरविम्
有一次在夜尽之时,那位车战勇士中的佼佼者乘车前往,从岸边取水,去礼敬太阳神罗毗。
Verse 23
तस्योपतिष्ठतः सूर्यं विवस्वानग्रतः स्थितः / सुस्पष्टमूर्त्तिर्भगवांस्तेजोमण्डलवान्विभुः
当他礼拜之时,太阳神毗婆斯梵立于其前——形相分明的薄伽梵,周身光轮炽盛,威德遍满。
Verse 24
अथ राजा विवस्वन्तमुवाच स्थितमग्रतः / यथैव व्योम्नि पश्यामि त्वामहं ज्योतिषां पते
于是国王对立于面前的毗婆斯梵说道:“光明之主啊,我在苍穹中如何见你,如今在此亦如是见你。”
Verse 25
तेजोमण्डलिनं चैव तथैवाप्यग्रतः स्थितम् / को विशेषो विवस्वंस्ते सख्येनोपगतस्य वै
我也见你同样光轮环绕,立于我前;毗婆斯梵啊,你以友谊而来时,与你平常有何差别?
Verse 26
एतच्छ्रुत्वा स भगवान्मणिरत्नं स्यमन्तकम् / स्वकण्ठादवमुच्याथ बबन्ध नृपतेस्तदा
听罢此言,薄伽梵太阳神便将“斯耶曼塔迦”摩尼宝从自身颈上解下,当即系于国王颈间。
Verse 27
ततो विग्रहवन्तं तं ददर्श नृपतिस्तदा / प्रीतिमानथ तं दृष्ट्वा मुहूर्त्तं कृतवान्कथाम्
于是国王看见那位具足形相者。见之心生欢喜,便与他片刻交谈。
Verse 28
तमभिप्रस्थितं भूयो विवस्वन्तं स सत्रजित् / प्रोवाचाग्निसवर्णं त्वां येन लोकः प्रपश्यति
当毗婆斯梵再次欲行之时,娑多罗阇特说道:“汝光色如火,世间凭汝而得见。”
Verse 29
तदेतन्मणिरत्नं मे भगवन्दातुमर्हसि / स्यमं तकं नाममणिं दत्तवांस्तस्य भास्करः
世尊啊,愿赐我此摩尼宝。此名“善曼多迦”的宝珠,乃由婆斯迦罗赐予彼者。
Verse 30
स तमामुच्य नगरीं प्रविवेश महीपतिः / विस्मापयित्वाथ ततः पुरीमन्तःपुरं ययौ
辞别那人后,国王入城。令众人惊异,随后前往王城内的内宫。
Verse 31
स प्रसेनाय तद्दिव्यं मणिरत्नं स्यमन्तकम् / ददौ भ्रात्रे नरपतिः प्रेम्णा सत्राजिदुत्तमम्
那位君王娑多罗阇特怀着慈爱,将那神圣的“善曼多迦”摩尼宝赐予其弟普罗塞那。
Verse 32
स्यमन्तको नाम मणिर्यस्मिन्राष्ट्रे स्थितो भवेत् / कामवर्षी च पर्जन्यो न च व्याधिभयं तथा
凡有名为“善曼多迦”(Syamantaka)之宝珠安住之国,雨神帕尔迦尼亚随愿降雨,亦无疾病之惧。
Verse 33
लिप्सां चक्रे प्रसेनात्तु मणिरत्नं स्यमन्तकम् / गोविन्दो न च तं लेभे शक्तो ऽपि न जहार च
普罗塞那起贪欲欲得“善曼多迦”宝珠;然戈文达既未得之,纵有能力亦不夺取。
Verse 34
कधाचिन्मृगयां यातः प्रसेनस्तेन भूषितः / स्यमन्तककृते सिंहाद्वधं प्राप सुदारुणम्
一时,佩戴此宝的普罗塞那出猎;因“善曼多迦”之故,竟为狮所杀,遭受极其惨烈之死。
Verse 35
जांबवानृक्षराजस्तु तं सिंहं निजघान वै / आदाय च मणिं दिव्यं स्वबिलं प्रविवेश ह
其后,熊王阇婆梵确实杀死了那狮子;取了那天赐宝珠,便入自家洞穴。
Verse 36
तत्कर्म कृष्णस्य ततो वृष्ण्यन्धकमहत्तराः / मणिं गृध्नोस्तु मन्वानास्तमेव विशशङ्किरे
此事之后,弗利什尼与安陀迦族的长老们,以为克里希纳贪恋宝珠,便将此事的罪责疑到他身上。
Verse 37
मिथ्यापवादं तेभ्यस्तं बलवानरिसूदनः / अमृष्यमाणो भगवान्वनं स विचचार ह
那位强大的除敌者、世尊不堪他们的虚妄诽谤,便在林野中徘徊行走。
Verse 38
स तु प्रोसेनो मृगयामचरद्यत्र चाप्यथ / प्रसेनस्य पदं ग्राह्यं पुरं पौराप्तकारिभिः
那时普罗塞那四处行猎;而普罗塞那的足迹,城中百姓皆可循迹追寻。
Verse 39
ऋक्षवन्तं गिरिवरं विन्ध्यं च नगमुत्तमम् / अन्वेषयत्परिश्रान्तः स ददर्श महामनाः
他寻觅那名为“ऋक्षवंत”的胜山与至上的温提耶山,虽已疲惫,仍以宏大之心终得目睹。
Verse 40
साश्वं हतं प्रसेनं तं नाविन्दत्तत्र वै मणिम् / अथ सिंहः प्रसेनस्य शरीरस्याविदूरतः
他在那里见到普罗塞那与马一同被杀,却未寻得那宝珠;而在普罗塞那尸身不远处有一头狮子。
Verse 41
ऋक्षेण निहतो दृष्टः पदैरृक्षस्य सूचितः / पदैरन्वेषयामास गुहामृक्षस्य यादवः
可见他为熊所杀,熊的足迹作了明证;于是那位雅达婆循着足迹,寻觅熊的洞穴。
Verse 42
महत्यन्तर्बिले वाणीं शश्राव प्रमदेरिताम् / धात्र्या कुमारमादाय सुतं जांबवतो द्विजाः / क्रीडयन्त्याथ मणिना मारोदीरित्युदीरितम्
在巨大的洞穴深处,他听见一位女子所催发的声音。乳母抱起阇姆婆梵之子幼童,拿着宝珠嬉戏,呼喊道:“打呀,给呀!”诸位二生者啊。
Verse 43
धात्र्युवाच प्रसेनमवधीत्सिंहः सिंहो जांबवता हतः
乳母说道:“狮子杀了普罗塞那;而那狮子又被阇姆婆梵所杀。”
Verse 44
सुकुमारक मारो दीस्तव ह्यें स्यमन्तकः / व्यक्तीकृतश्च शब्दः स तूर्णं चापि ययौ बिलम्
“柔嫩的孩子啊,打吧——给我;这颗萨曼塔卡本是你的。”话音分明,他便立刻奔向洞穴。
Verse 45
अपश्यच्च बिलाभ्याशे प्रसेन मवदारितम् / प्रविश्य चापि भगवान्स ऋक्षबिलमञ्जसा
在洞口附近,他看见普罗塞那已被撕裂残破。随后,世尊从容进入那熊王之穴。
Verse 46
ददर्श ऋक्षराजानं जांबवन्तमुदारधीः / युयुधे वासुदेवस्तु बिले जांबवता सह
他以宏阔之智见到熊族之王阇姆婆梵。于是,婆苏提婆在洞穴中与阇姆婆梵交战。
Verse 47
बाहुभ्यामेव गोविन्दो दिवसानेकविंशतिम् / प्रविष्टे च बिलं कृष्णे वसुदेवापुरस्सराः
戈文达仅凭双臂之力鏖战二十一日;当克里希纳进入洞穴时,瓦苏德瓦等人走在前面随之而入。
Verse 48
पुनर्द्वारवतीं चैत्य हतं कृष्णं न्यवेदयन् / वासुदेवस्तु निर्जित्य जांबवन्तं महाबलम्
他们又回到德瓦拉瓦蒂,在圣祠中禀告“克里希纳已被杀”;然而瓦苏德瓦战胜了大力的贾姆巴梵。
Verse 49
लेभे जांबवन्तीं कन्यामृक्षराजस्य सम्मनाम् / भगवत्तेजसा ग्रस्तो जांबवांन्प्रसभं मणिम्
他迎得熊王所珍爱的女儿贾姆巴瓦蒂;贾姆巴梵为至尊之神辉所摄,亦交出先前强夺的宝珠。
Verse 50
सुतां जांबवतीमाशु विष्वक्सेनाय दत्तवान् / मणिं स्यमन्तकं चैव जग्रहात्मविशुद्धये
他迅速将女儿贾姆巴瓦蒂许配给毗湿瓦克塞那;并为自证清白而收取了西曼塔卡宝珠。
Verse 51
अनुनीयर्क्षराजं तं निर्ययौ च तदा बिलात् / एवं स मणिमाहृत्य विशोध्यात्मानमात्मना
他安抚了那位熊王,遂从洞穴中出来;如此取回宝珠,便以自身之行自证清净无瑕。
Verse 52
ददौ सत्राजिते रत्नं मणिं सात्त्वतसन्निधौ / कन्यां पुनर्जांबवतीमुवाह मधुसूदनः
在萨特瓦塔族众面前,萨特拉吉特献上那颗珍宝神珠;随后,灭魔者摩杜苏达那——圣克里希纳迎娶了少女贾姆巴瓦蒂。
Verse 53
तस्मान्मिथ्याभिशापात्तु व्यशुध्यन्मधुसूदनः / इमां मिथ्याभिशप्तिं यः कृष्णस्येह व्यपोहिताम्
由于那虚妄的诅咒,灭魔者圣克里希纳显明无垢清净;凡知晓此处加于克里希纳的虚假诅咒已被消除者。
Verse 54
वेद मिथ्याभिशप्तिं स नाभिस्पृशति कर्हिचित् / दश त्वासन्सत्रजितो भार्यास्तस्यायुतं सुताः
知晓此虚妄诅咒者,永不为其所染;萨特拉吉特有十位妻子,并有一万名儿子。
Verse 55
ख्यातिमन्तस्त्रयस्तेषां भङ्गकारस्तु पूर्वजः / वीरो वातपतिश्चैव तपस्वी च बहुप्रियः
他们之中有三位尤为著名;长子名为班伽迦罗——英勇无畏,号“瓦塔帕提”,又是苦行者,深受众人爱戴。
Verse 56
अथ वीरमती नाम भङ्गकारस्य तु प्रसूः / सुषुवे सा कुमारीस्तु तिस्रो रूपगुणान्विताः
随后,班伽迦罗之妻名为毗罗摩提;她诞下三位兼具容貌与德行的少女。
Verse 57
सत्यभामोत्तमा स्त्रीणां व्रतिनी च दृढव्रता / तथा तपस्विनी चैव पिता कृष्णय तां ददौ
萨蒂亚巴玛为众女之最,持戒坚固,亦为苦行者;其父遂将她奉与圣主克里希纳。
Verse 58
न च सत्राजितः कृष्णो मणिरत्नं स्यमन्तकम् / आदत्त तदुपश्रुत्य भोजेन शतधन्वना
萨特拉吉特并未将“善曼达迦”宝珠交予圣主克里希纳;闻此,波阇族的沙塔丹瓦遂起嗔怒。
Verse 59
तदा हि प्रार्थयामास सत्यभामामनिन्दिताम् / अक्रूरो धनमन्विच्छन्मणिं चैव स्यमन्तकम्
其时,阿克鲁拉贪求财宝与“善曼达迦”宝珠,遂向无瑕的萨蒂亚巴玛求婚。
Verse 60
सत्राजितं ततो इत्वा शतधन्वा महाबलः / रात्रौ तं मणिमादाय ततो ऽक्रूराय दत्तवान्
随后,大力的沙塔丹瓦前往萨特拉吉特处;夜间夺取那宝珠,继而交与阿克鲁拉。
Verse 61
अक्रूरस्तु तदा रत्नमादाय स नरर्षभः / समयं कारयाञ्चक्रे बोध्यो नान्यस्य चेत्युत
其时,人中雄者阿克鲁拉受取宝物,并立下约定:“此事不可告知他人。”
Verse 62
वयमभ्युपयोत्स्यामः कृष्णेन त्वां प्रधर्षितम् / मम वै द्वारका सर्वा वेशे तिष्ठत्य संशयम्
我们必将庇护你——你曾被克里希纳凌辱;我整个都城德瓦拉卡,毫无疑问皆着哀服而立。
Verse 63
हते पितरि दुःखार्त्ता सत्यभामा यशस्विनी / प्रययौ रथमारुह्य नगरं वारणावतम्
父亲被杀后,声名卓著的萨蒂雅婆摩悲痛欲绝,登上战车,前往瓦拉那瓦塔城。
Verse 64
सत्यभामा तु तद्वृत्तं भोजस्य शतधन्वनः / भर्तुर्निवेद्य दुःखार्त्ता पार्श्वस्थाश्रूण्यवर्त्तयत्
萨蒂雅婆摩将波阇族的沙塔丹瓦之事禀告夫君;她悲恸不已,也令身旁侍从潸然落泪。
Verse 65
पाण्डवानां तु दग्धानां हरिः कृत्वोदकक्रियाम् / कल्यार्थे चैव भ्रातॄणां न्ययोजयत सात्यकिम्
为被焚的般度族人,诃利行了奠水之礼;又为诸兄弟的安泰,委任萨提亚基承担要务。
Verse 66
ततस्त्वरितमागत्य द्वारकां मधुसूदनः / पूर्वजं हलिनं श्रीमानिदं वचनमब्रवीत्
随后,摩度苏陀那急速回到德瓦拉卡;这位光辉者对其兄“持犁者”(婆罗罗摩)说了这番话。
Verse 67
हतः प्रसेनः सिंहेन सत्राजिच्छतधन्वना / स्यमन्तको मार्गणीयस्तस्य प्रभुरहं प्रभो
普拉塞那为狮所杀,沙塔丹瓦又杀了萨特拉吉特。须寻回“夏曼塔迦”宝珠;至尊啊,那宝珠之主正是我。
Verse 68
तहारोह रथं शीघ्रं भोजं हत्वा महाबलम् / स्यमन्तकं महाबाहो सामान्यं वो भविष्यति
那就速登战车,诛杀那力大无比的菩阇。大臂者啊,“夏曼塔迦”宝珠将轻易归于你。
Verse 69
ततः प्रवृत्ते युद्धे तु तुमुले भोजकृष्णयोः / शतधन्वा तमक्रूरमवैक्षत्सर्वतो दिशम्
随后菩阇与黑天之间爆发了喧腾激烈的战斗。沙塔丹瓦环顾四方,看见了阿克鲁罗。
Verse 70
अनालब्धावहारौ तु कृत्वा भोजजनार्द्दनौ / शक्तो ऽपि शाठ्याद्धार्दिक्यो नाक्रूरो ऽभ्युपपद्यत
他使菩阇与阇那尔达那都无法得到(宝珠);哈尔迪迦族的阿克鲁罗虽有能力,却因狡诈而不肯出面。
Verse 71
अपयोते ततो बुद्धिं भूयश्चक्रे भयान्वितः / योजनानां शतं साग्रं हृदया प्रत्यपद्यत
随后他因恐惧而再起逃遁之念;心中盘算要远遁一百余由旬之外。
Verse 72
विख्याता हृदया नाम शतयोजनगामिनी / भोजस्य वडवा दिव्या यया कृष्णमयोधयत्
有一匹属于菩阇的天赐母马,名为“赫利达雅”,能驰行百由旬;克里希纳曾凭此与人交战。
Verse 73
क्षीणां जवेन त्दृदयामध्वनः शतयोजने / दृष्ट्वा रथस्य तां वृद्धिं शतधन्वा समुद्रवत्
在百由旬的路程中,“赫利达雅”因疾驰而力竭;见战车如此迅猛推进,沙塔丹瓦如大海般翻涌不安。
Verse 74
ततस्तस्या हयायास्तु श्रमात्खेदाच्च वै द्विजाः / खमुत्पेतुरथ प्राणाः कृष्णो राममथाब्रवीत्
于是,诸位婆罗门啊,那匹马因劳顿与困苦,气息飞升于空;随后克里希纳对罗摩说道。
Verse 75
तिष्ठस्वेह महाबाहो दृष्टदोषा मया हयी / पद्भ्यां गत्वा हरिष्यामि मणिरत्नं स्यमन्तकम्
大臂者啊,你且留在此处;我已见此马有失。我要徒步前往,取回“善曼达迦”宝珠。
Verse 76
पद्भ्यामेव ततो गत्वा शतधन्वानमच्युतः / मिथिलोपवने तं वै जघान परमास्त्रवित्
随后不动者阿周陀徒步前往,身为至上兵器之通晓者,于弥提罗园林中诛杀沙塔丹瓦。
Verse 77
स्यमन्तकं न चापश्यद्धत्वा भोजं महाबलम् / निवृत्तं चाब्र वीत्कृष्णं रत्नं देहीति लाङ्गली
却不见善曼多迦宝珠。见克里希纳杀死强力的菩阇而归,持犁者(巴拉罗摩)说道:“把宝珠交出。”
Verse 78
नास्तीति कृष्णश्चोवाच ततो रामो रुषान्वितः / धिक्छब्दपूर्वमसकृत्प्रत्युवाच जनार्द्दनम्
克里希纳说:“没有。”于是罗摩怒气上涌,先喝一声“可耻!”,又屡屡回斥阇那尔达那。
Verse 79
भातृत्वान्मर्षयाम्वेष स्वस्ति ते ऽस्तु व्रजाम्यहम् / कृत्यं न मे द्वारकया न त्वया न च वृष्णिभिः
念在兄弟之情我且容忍;愿你安吉,我这就离去。我与都城德瓦拉卡无事,与汝无事,与弗利什尼族亦无事。
Verse 80
प्रविवेश ततो रामो मिथिलामरिमर्द्दनः / सर्वकामैरुपहृतैर्मैथिलेनैव पूजितः
随后,摧敌的罗摩进入弥提罗。弥提罗王亲自以诸般供品礼敬供养。
Verse 81
एतस्मिन्नेव काले तु बभ्रुर्मतिमतां वरः / नानारूपान्क्रतून्सर्वा नाजहार निरर्गलान्
正当此时,智者中最卓越的巴布鲁无碍无阻地举行了种种形态的一切祭祀(克罗图)。
Verse 82
दीक्षामयं सकवचं रक्षार्थं प्रविवेश ह / स्यमन्तककृते प्राज्ञो कान्दिनीजो महामनाः
为护持“善曼陀迦”(Syamantaka),智者、心怀广大之坎迪尼迦进入由灌顶誓戒所成的神圣护甲。
Verse 83
अकूर यज्ञा इति ते ख्यातास्तस्य महात्मनः / बह्वन्नदक्षिणाः सर्वे सर्वकामप्रदायिनः
那位大士所行诸祭,名闻为“阿库罗祭”;皆具丰盛供食与布施,能赐一切所愿。
Verse 84
अथ दुर्योधनो राजा गत्वाथ मिथिलां प्रभुः / गदाशिक्षां ततो दिव्यां बलभद्रादवाप्तवान्
于是,君王都利约陀那前往弥提罗,从巴拉婆陀罗处获得神圣的钉锤(伽陀)技艺教导。
Verse 85
प्रसाद्य तु ततो रामो वृष्ण्यन्धकमहारथैः / आनीतो द्वारकामेव कृष्णेन च महात्मना
随后,弗利什尼与安陀迦诸大车战士安抚了罗摩;大心的奎师那又将他迎回都瓦罗迦。
Verse 86
अक्रूरश्चान्धकैः सार्द्धमथायात्पुरुषर्षभः / युद्धे हत्वा तु शत्रुघ्नं सह बन्धुमता बली
其后,人中雄者阿库罗与安陀迦众同来;那位勇力之士与班度摩塔并肩,于战阵中诛杀了沙特鲁格那。
Verse 87
सुयज्ञतनयायां तु नरायां नरसत्तमौ / भङ्गकारस्य तनयौ विश्रुतौ सुमहाबलौ
在苏耶祭之女那罗的胎中,诞生了两位最上之人;他们是梵伽迦罗之子,声名远播,力大无比。
Verse 88
जज्ञातेंऽधकमुख्यस्य शक्रघ्नो बन्धुमांश्च तौ / वधे च भङ्गकारस्य कृष्णो न प्रीतिमानभूत्
二人于安陀迦族长之家诞生,名为释迦罗诃那与班度曼;而在诛杀梵伽迦罗之事上,黑天并不欢喜。
Verse 89
ज्ञातिभेदभयाद्भीतस्तमुबेक्षितवानथ / अपयाते ततो ऽक्रूरे नावर्षत्पाकशासनः
因惧宗族分裂而心生恐惧,他便冷落了那人;待阿克鲁罗离去后,帕迦沙萨那(因陀罗)不再降雨。
Verse 90
अनावृष्ट्या हतं राष्ट्रमभवद्बहुधा यतः / ततः प्रसादयामासुरक्रूरं कुकुरान्धकाः
因久旱无雨,国土多方受创;于是鸠库罗与安陀迦众人设法安抚阿克鲁罗,使其息怒。
Verse 91
पुनर्द्वारवतीं प्राप्ते तदा दानपतौ तथा / प्रववर्ष सहस्राक्षः कुक्षौ जलनिधेस्ततः
当施主阿克鲁罗再度抵达堕罗伐底时,千眼者(因陀罗)便在大海的怀抱中倾降甘霖。
Verse 92
कन्यां वै वासुदेवाय स्वसारं शीलसंमताम् / अक्रूरः प्रददौ श्रीमान्प्रीत्यर्थं मुनिपुङ्गवाः
圣贤之冠阿克鲁罗为取悦瓦苏提婆,将自己品行端正的妹妹之女献与之。
Verse 93
अथ विज्ञाय योगेन कृष्णो बभ्रुगतं मणिम् / सभामध्ये तदा प्राह तमक्रूरं जनार्द्दनः
随后,克里希纳以瑜伽之力得知宝珠已至巴卜鲁处,便在会众之中,贾那尔达那对阿克鲁罗说道。
Verse 94
यत्तद्रत्नं मणिवरं तव हस्तगतं प्रभो / तत्प्रयच्छ स्वमानार्ह मयि मानार्यकं कृथाः
主啊,那上妙宝珠既在你手中,愿你赐与;你本应受敬,莫使我蒙受不名誉。
Verse 95
षष्टिवर्षगते काले यद्रोषो ऽभूत्तदा मम / सुसंरूढो ऽसकृत्प्राप्तस्तदा कालात्ययो महान्
六十年过去后,我当时的忿怒屡屡再起,深深扎根;那时便发生了重大的时序失常。
Verse 96
ततः कृष्णस्य वचनात्सर्वसात्त्वतसंसदि / प्रददौ तं मणिं बभ्रुरक्लेशेन महामतिः
于是依克里希纳之言,在众萨特瓦塔的会中,大智的巴卜鲁毫不费力地交出了那颗宝珠。
Verse 97
ततस्तमार्जवप्राप्तं बभ्रोर्हस्तादरिन्दमः / ददौ हृष्टमनास्तुष्टस्तं मणिं बभ्रवे पुनः
于是那位降伏仇敌者从巴布鲁手中接过以正直所得的宝珠,心怀欢喜满足,又将那颗宝珠再度归还给巴布鲁。
Verse 98
स कृष्णहस्तात्संप्राप्य मणिरत्नं स्यमन्तकम् / आबध्य गान्दिनीपुत्रो विरराजांशुमानिव
他从克里希纳手中得到了名为“善曼达迦”的宝石,甘底尼之子将其系佩在身,便如光辉的太阳般熠熠生辉。
Verse 99
इमां मिथ्याभिशाप्तिं यो विशुद्धिमपि चोत्तमाम् / वेद मिथ्याभिशप्तिं स न लभेत कथञ्चन
凡知晓此虚妄诅咒并明了至上清净者,即使被人妄加诅咒,也绝不会以任何方式遭受损害。
Verse 100
अनमित्राच्छिनिर्जज्ञे कनिष्ठाद्वृष्णिनन्दनात् / सत्यवान्सत्यसंपन्नः सत्यकस्तस्य चात्मजः
从弗里什尼之喜(Vṛṣṇinandana)最幼的儿子阿那密特罗生出尸尼;而尸尼之子名为萨提亚迦,诚实具足,圆满于真理。
Verse 101
सात्यकिर्युयुधानश्च तस्य भूतिः सुतो ऽभवत् / भूतेर्युगन्धरः पुत्र इति भौत्यः प्रकीर्त्तितः
萨提亚迦亦名“尤尤陀那”;其子为“布提”。布提之子名“瑜甘陀罗”,因此被称颂为“鲍提亚”。
Verse 102
माड्याः सुतस्य जज्ञे तु सुतो वृष्णिर्युधाजितः / जज्ञाते तनयौ वृष्णेः श्वफल्कश्चित्रकश्च यः
玛底耶之子生下了弗利什尼族的儿子,名为尤达吉特;而弗利什尼又生了两子:室婆法尔迦与质多罗迦。
Verse 103
श्वफल्कस्तु महाराजो धर्मात्मा यत्र वर्तते / नास्ति व्याधिभयं तत्र न चावृष्टिभयं तथा
室婆法尔迦乃具法之大王;他所在之处,无疾病之惧,亦无久旱无雨之忧。
Verse 104
कादाचित्काशिराजस्य विभोस्तु द्विजसत्तमाः / त्रीणि वर्षाणि विषये नावर्षत्पाकशासनः
诸位最胜的婆罗门啊!曾有一次,在迦尸王的国土中,掌惩者因陀罗三年不降甘雨。
Verse 105
स तत्रवासयामास श्वफल्कं परमार्चितम् / श्वफल्कपरिवासेन प्रावर्षत्पाकशासनः
于是他令最受敬奉的室婆法尔迦居于彼处;因室婆法尔迦的驻留,惩罚者因陀罗便降下雨露。
Verse 106
श्वफल्कः काशिराजस्य सुतां भार्यामविन्दत / गान्दिनींनाम गां सा हि ददौ विप्राय नित्यशः
室婆法尔迦迎娶迦尸王之女为妻;她名甘底尼,常以每日施与婆罗门一头母牛为恒常之布施。
Verse 107
सा मातुरुदरस्था वै बहून्वर्षशातान्किल / निवसंती न वै जज्ञे गर्भस्थां तां पिताब्रवीत्
她确实在母亲腹中住了数百年,却仍未出生;于是父亲对仍在胎中的女儿说道。
Verse 108
जायस्व शीघ्रं भद्रं ते किमर्थं वापि तिष्ठसि / प्रोवाच चैनं गर्भस्था सा कन्या गां दिने दिने
“快快出生吧,愿你吉祥;你为何还停留?”他这样说时,胎中的少女日日回应他。
Verse 109
यदि दद्यास्ततो गर्भाद्बहिः स्यां हायनैस्त्रिभिः / तथेत्युवाच तां तस्याः पिता काममपूरयत्
少女说:“若你允准,我将在三年后从胎中出来。”父亲答道:“如是。”并成全了她的心愿。
Verse 110
दाता यज्वा च शुरश्च श्रुतवानतिथिप्रियः / तस्याः पुत्रः स्मृतो ऽक्रूरः श्वाफल्को भूरिदक्षिणः
他是施主、行祭者、勇士,通晓圣闻并喜爱待客;她的儿子被称为阿克鲁拉,出自施瓦法尔迦一系,常以丰厚祭礼酬谢(达克希那)施予。
Verse 111
उपमङ्गुस्तथा मङ्गुर्मृदुरश्चारिमेजयः / गिरिरक्षस्ततो यक्षः शत्रुघ्नो ऽथारिमर्दनः
乌帕曼古、曼古、姆里杜拉、查里梅贾亚;继而是吉里拉克沙、夜叉、沙特鲁格纳与阿里马尔达那——这些被称为(其他)诸子。
Verse 112
धर्मवृद्धः सुकर्मा च गन्धमादस्तथापरः / आवाहप्रतिवाहौ च वसुदेवा वराङ्गना
有达摩弗利达、苏迦尔摩、甘达摩达以及另一位;又有阿瓦诃与普拉提瓦诃;并有名为婆苏提婆的绝美女子。
Verse 113
अक्रूरादौग्रसेन्यां तु सुतौ द्वौ कुलनन्दिनौ / देववानुपदेवश्च जज्ञाते देवसंनिभौ
阿克鲁罗与乌格拉塞尼之妻生下两位令家族欢喜的儿子:提婆梵与优波提婆,威仪如天神。
Verse 114
चित्रकस्याभवन्पुत्राः पृथुर्विपृथुरेव च / अश्वग्रीवो ऽश्ववाहश्च सुपार्श्वकगवेषणौ
奇特拉迦之子为:普利图与毗普利图;阿湿婆格利瓦与阿湿婆瓦诃;以及苏帕尔湿瓦迦与伽韦沙那。
Verse 115
अरिष्टनेमिरश्वास्यः सुवार्मा वर्मभृत्तथा / अभूमिर्बहुभूमिश्च श्रविष्ठाश्रवणे स्त्रियौ
有阿利什塔内弥、阿湿瓦斯亚、苏瓦尔玛与瓦尔玛布利特;阿布弥与巴胡布弥;并有两位女子:室罗毗什塔与室罗伐那。
Verse 116
सत्यकात्काशिदुहिता लेभे या चतुरः सुतान् / कुकुरं भजमानं च शुचिं कंबल बर्हिषम्
迦尸之女由萨提迦得四子:库库罗、婆阇摩那、输支、甘婆罗与婆尔希沙。
Verse 117
कुकुरस्य सुतो वृष्णिर्वृष्णेस्तु तनयो ऽभवत् / कपोतरोमा तस्याथ विलोमाभवदात्मजः
库库罗之子为弗里什尼;弗里什尼亦生一子。其子名“鸽毛”(迦波多罗摩),其后又生子名“逆毛”(毗罗摩)。
Verse 118
तस्यासीत्तुंबुरुसखा विद्वान्पुत्रोंऽधकः किल / ख्यायते यस्य नामान्यच्चन्दनोदकदुन्दुभिः
他有一位博学之子,名“图姆布鲁之友”(Tumburusakhā);而其子确名“安陀迦”(Andhaka)。其名号常伴以檀香水与圣鼓(dundubhi)之声而传扬。
Verse 119
तस्याभिजित्ततः पुत्र उत्पन्नस्तु पुनर्वसुः / अश्वमेधं तु पुत्रार्थमाजहार नरोत्तमः
他有一子名“阿毗吉特”(Abhijit);由此又生“普那尔瓦苏”(Punarvasu)。这位至善之人为了求子而举行马祭(Aśvamedha)。
Verse 120
तस्य मध्ये ऽतिरात्रस्य सदोमध्यात्ससुच्छ्रितः / ततस्तु विद्वान्धर्मज्ञो दाता यज्वा पुनर्वसुः
在那阿提罗夜祭(Atirātra)的中段,他从祭堂(sado)中央吉祥显现。于是普那尔瓦苏成为博学者、通达法(dharma)者、施主与行祭者。
Verse 121
तस्याथ पुत्रमिथुनं बभूवाभिजितः किल / आहुकश्चाहुकी चैव ख्यातौ मतिमतां वरौ
随后,阿毗吉特得一对双生子:阿胡迦(Āhuka)与阿胡姬(Āhukī),二者皆以智者中之翘楚而闻名。
Verse 122
इमांश्चोदा हरन्त्यत्र श्लोकान्प्रति तमाहुकम् / सोपासांगानुकर्षाणां सध्वजानां वरूथिनाम्
在此,乔达对塔摩胡迦诵出这些偈颂:述说那列阵之军,具备诸部属、随从与旌旗的营阵。
Verse 123
रथानां मेघघोषाणां महस्राणि दशैव तु / नासत्यवादी चासीत्तु नायज्ञो नासहस्रदः
那如云雷轰鸣的战车共有一万;他并非妄语之人,不弃祭祀(yajña),亦非不施千金之吝者。
Verse 124
नाशुचिर्नाप्यधर्मात्मा नाविद्वान्न कृशो ऽभवत् / आर्द्रकस्य धृतिः पुत्र इत्येवमनुशुश्रुम्
他不污秽,亦非怀不义之心;不愚昧,也未曾羸弱。我们如是听闻:德利提(Dhṛti)乃阿尔德拉迦(Ārdraka)之子。
Verse 125
स तेन परिवारेण किशोरप्रतिमान्हयान् / अशीतिमश्वनियुतान्याहुको ऽप्रतिमो व्रजन्
他携其随从,率领如少年般矫健的骏马——八十“尼由多”之数——无比的阿胡迦遂启程前行。
Verse 126
पूर्वस्यां दिशि नागानां भोजस्य त्वतिभावयन् / रूप्यकाञ्चनकक्षाणां स्रहस्राण्येकविंशतिः
在东方,为增盛那伽族中菩阇之威仪,有二万一千条银与金的腰带饰具。
Verse 127
तावन्त्येव सहस्राणि उत्तरस्यां तथादिशि / भूमिपालस्य भोजस्य उत्तिष्टेत्किङ्कणी किल
在北方亦有同样多的千数;相传大地之王博阇的“金吉尼”(足铃)忽然起动而作响。
Verse 128
आहुकश्चाप्यवन्तीषु स्वसारं त्वाहुकीं ददौ / आहुकात्काश्यदुहितुर्द्वै पुत्रौ संबभूवतुः
在阿槃提,阿呼迦将其妹阿呼姬出嫁;由阿呼迦与迦施耶之女,诞生了两位儿子。
Verse 129
देवकश्चोग्रसेनश्च देवगर्भसमावुभौ / देवकस्य सुता वीरा जज्ञिरे त्रिदशोपमाः
提婆迦与乌格罗塞那二人,皆为提婆伽尔婆之子;提婆迦的英勇女儿们诞生,宛如诸天。
Verse 130
देववानुपदेवश्च सुदेवो देवरक्षितः / तेषां स्वसारः सप्तासन्वसुदेवाय ता ददौ
有提婆梵、优波提婆、苏提婆与提婆罗克希多;他们的七位姊妹,被他嫁与婆苏提婆。
Verse 131
धृतदेवोपदेवा च तथान्या देवरक्षिता / श्रीदेवा शान्तिदेवा च सहदेवा तथापरा
她们是:持提婆、优波提婆,以及另一位名为提婆罗克希塔;还有室利提婆、寂静提婆与另一位萨诃提婆。
Verse 132
सप्तमी देवकी तासां सानुजा चारुदर्शना / नवोग्रसेनस्य सुताः कंसस्तेषां तु पूर्वजः
她们之中第七位是提婆姬(Devakī),与幼妹同在,容貌端丽。众人皆为那婆乌格罗塞那(Navograsena)之子,而甘萨(Kaṃsa)为其长兄。
Verse 133
न्यग्रो दश्च सुनामा च कङ्कशङ्कुसुभूमयः / सुतनू राष्ट्रपालश्च युद्धतुष्टश्च तुष्टिमान्
尼耶格罗(Nyagro)、达沙(Daśa)、苏那摩(Sunāmā)、甘迦(Kaṅka)、商拘(Śaṅku)、苏布弥(Subhūmi);又有苏檀奴(Sutanu)、罗湿特罗波罗(Rāṣṭrapāla)、尤达图什塔(Yuddhatuṣṭa)与图什提曼(Tuṣṭimān)。
Verse 134
तेषां स्वसारः पञ्चैव कंसा कंसवती तथा / सुतनू राष्ट्रपाली च कङ्का चैव वराङ्गना
他们有五位姊妹:甘萨(Kamsā)、甘萨伐蒂(Kamsavatī)、苏檀奴(Sutanu)、罗湿特罗波梨(Rāṣṭrapālī)与甘迦(Kaṅkā),皆为体态端美的佳丽。
Verse 135
उग्रसेनो महापत्यो व्याख्यातः कुकुरोद्भवः / कुकुराणामिमं वंशं धारयन्नमितौजसाम्
此处阐述了大威德的乌格罗塞那(Ugrasena),出自库库罗(Kukura)族系;他承续并维系了这支光辉无量的库库罗王族血脉。
Verse 136
आत्मनोविपुलं वंशं प्रजावांश्च भवेन्नरः / भजमानस्य पुत्रस्तु रथिमुख्यो विदूरथः
人得以成就自身广大的宗族与子嗣繁盛。礼敬者婆阇摩那(Bhajamāna)之子为毗度罗他(Vidūratha),乃车战勇士之冠。
Verse 137
राजाधिदेवः शूरश्च विदूरथसुतो ऽभवत् / तस्य शूरस्य तु सुता जज्ञिरे बलवत्तराः
毗度罗他之子为罗阇阿提提婆,亦名修罗。修罗之裔诞生,皆具更胜之力。
Verse 138
वातश्चैव निवातश्च शोणितः श्वेतवाहनः / शमी च गदवर्मा च निदान्तः खलु शत्रुजित्
又有伐多与尼伐多,朔尼多与白乘者;并有舍弥、伽陀跋摩、尼檀多,实为敌胜者。
Verse 139
शमीपुत्रः प्रतिक्षत्रः प्रतिक्षत्रस्य चात्मजः / स्वयंभोजः स्वयंभोजाद्धृदिकः संबभूव ह
舍弥之子为普拉提克沙特罗,普拉提克沙特罗之子为自生波阇;自生波阇又生出赫利迪迦。
Verse 140
हृदिकस्य सुतास्त्वासन्दश भीमपराक्रमाः / कृतवर्माग्रजस्तेषां शतधन्वा तु मध्यमः
赫利迪迦有十子,皆具如毗摩般可畏之勇。其间克利多跋摩为长,沙多檀婆为中。
Verse 141
देवबाहुस्सुबाहुश्च भिषक्श्वेतरथश्च यः / सुदान्तश्चाधिदान्तश्च कनकः कनकोद्भवः
又有天臂、善臂、医者、白车;善齿、胜齿、金者与金生者。
Verse 142
देवबाहोस्सुतो विद्वाञ्जज्ञे कंबलबर्हिषः / असमौजाः सुतस्तस्य सुसमौजाश्च विश्रुतः
天臂(Devabāhu)之子、智者甘婆罗婆尔希沙(Kambalabarhiṣ)诞生;其子为阿萨牟迦(Asamaujā),又有闻名的苏萨牟迦(Susamaujā)。
Verse 143
अजातपुत्राय ततः प्रददावसमौजसे / सुचन्द्रं वसुरूपं च कृष्ण इत्यन्धकाः स्मृताः
随后,将苏旃陀(Sucandra)与婆苏卢帕(Vasurūpa)赐予尚无子嗣的阿萨牟迦(Asamaujā);而安陀迦族亦被称念为“黑天(Kṛṣṇa)”。
Verse 144
अन्धकानामिमं वंशं कीर्त्तयेद्यस्तु नित्यशः / आत्मनो विपुलं वंशं लभते नात्र संशयः
凡恒常称诵此安陀迦族系者,必得自身家族广大昌盛;对此毫无疑惑。
Verse 145
अश्मक्यां जनयामास शूरं वै देव मीढुषम् / मारिष्यां जज्ञिरे शूराद्भोजायां पुरुषा दश
天赐者德瓦弥度什(Deva Mīḍhuṣ)由阿什玛姬(Aśmakī)生下舒罗(Śūra);其后,舒罗与名为摩利什雅(Māriṣyā)的婆阇女(Bhojā)生了十位儿子。
Verse 146
वसुदेवो महाबाहुः पूर्वमानकदुन्दुभिः / जज्ञे तस्य प्रसूतस्य दुन्दुभिः प्राणदद्दिवि
大臂的婆苏提婆(Vasudeva)先前名为阿那迦敦度毗(Ānakadundubhi);当他诞生之时,天界敦度毗鼓声轰然作响。
Verse 147
आनकानां च संह्नादः सुमहानभवद्दिवि / पपात पुष्पवर्षं च शरस्य भवने महत्
天界中响起阿那迦鼓的巨大轰鸣;在舍罗的居所里,降下了盛大的花雨。
Verse 148
मनुष्यलोके कृत्स्ने ऽपि रूपे नास्ति समो भुवि / यस्यासीत्पुरुषाग्र्यस्य कान्तिश्चन्द्रमसो यथा
在整个人间世上,大地之上无人能与他容貌相等;那位至上之人的光辉如同明月。
Verse 149
देवभागस्ततो जज्ञे ततो देवश्रवाः पुनः / अनाधृष्टिवृकश्चैव नन्दनश्चैव सृंजयः
随后诞生了天福(Devabhāga),继而又有天闻(Devashravā);并且阿那陀栗什提弗利迦、难陀那与斯林阇耶也相继出生。
Verse 150
श्यामः शमीको गण्डूषः स्वसारस्तु वरागनाः / पृथा च श्रुतदेवा च श्रुतकीर्तिः श्रुत श्रवाः
有沙耶摩(Śyāma)、沙弥迦(Śamīka)、甘度沙(Gaṇḍūṣa);他们的姊妹则是:瓦兰伽那(Varāṅganā)、普丽塔(Pṛthā)、室鲁塔提瓦(Śrutadevā)、室鲁塔吉尔蒂(Śrutakīrti)与室鲁塔室拉瓦(Śrutaśravā)。
Verse 151
राजाधिदेवी च तथा पञ्चैता वीरमातरः / पृथां दुहितरं शूरः कुन्तिभोजाय वै ददौ
还有王上之女神(Rājādhidevī);这五位皆为勇士之母。舒罗(Śūra)把女儿普丽塔(Pṛthā)交予昆提博阇(Kuntibhoja)。
Verse 152
तस्मात्सा तु स्मृता कुन्ती कुन्तिभोजात्मजा पृथा / कुरुवीरः पाण्डुमुख्यस्तस्माद्भार्यामविन्दत
因此她被称为“昆蒂”,即昆提婆阇之女普丽塔;俱卢勇士般度由此迎娶她为如法之妻。
Verse 153
पुथा जज्ञे ततः पुत्रांस्त्रीनग्निसमतेजसः / लोके प्रतिरथान्वीराञ्छक्रतुल्यपराक्रमान्
随后普丽塔诞下三子,光辉如火;他们在世间皆为能遏敌之勇士,威力堪比因陀罗。
Verse 154
धर्माद्युधिष्टिरं पुत्रं मारुताच्च वृकोदरम् / इन्द्राद्धनञ्जयं चैव पृथा पुत्रानजीचनत्
由法神而生长子尤迪希提罗,由风神而生弗利科达罗(毗摩),由因陀罗而生达难阇耶(阿周那);普丽塔便诞下这些儿子。
Verse 155
माद्रवत्या तु जनितावश्विनाविति विश्रुतम् / नकुलः सहदेवश्च रुपसत्त्वगुणान्वितौ
众所周知,玛德丽由双生阿湿毗尼天所生二子:那俱罗与娑诃提婆,二人具足容貌、清净之性与诸德。
Verse 156
जज्ञे तु श्रुतदेवायां तनयो वृद्धशर्मणः / करूषाधिपतेर्ंवीरो दन्तवक्रो महाबलः
在室鲁提提瓦腹中,诞生了弗利陀沙尔摩之子——统治迦卢沙的勇士、力大无比的丹陀伐迦罗。
Verse 157
कैकयाच्छ्रुतिकीर्त्यं तु जज्ञे संतर्दनो बली / चेकितानबृहत्क्षत्रौ तथैवान्यौ महाबलौ
在迦迦耶国的室卢提吉尔蒂所生之中,诞生了勇力的桑塔尔达那;同样还有切吉塔那与布里哈特克沙特拉,以及另外两位大力者。
Verse 158
विन्दानुविन्दावावन्त्यौ भ्रातरौ सुमहाबलौ / श्रुतश्रवायां चैद्यस्तु शिशुपालो बभूव ह
阿凡提的两位兄弟温达与阿奴温达皆具大力;而室卢塔施拉瓦生下了切提国的希施帕拉。
Verse 159
दमघोषस्य राजर्षेः पुत्रो विख्यातपौरुषः / यः पुरा सदशग्रीवः संबभूवारिमर्दनः
罗阇仙达摩戈沙之子以英勇闻名;他昔日曾生为十首者(罗波那),为摧敌之人。
Verse 160
वैश्रवाणानुजस्तस्य कुंभकर्णो ऽनुजस्तथा पत्न्यस्तु वसुदेवस्य त्रयोदश वराङ्गनाः
其弟为毗舍罗伐那(俱毗罗);昆婆迦尔那亦为其弟。至于婆苏提婆之妻,共有十三位殊胜佳丽。
Verse 161
पौरवी रोहिणी चैव मदिरा चापरा तथा / तथैव भद्रवैशाखी सुनाम्नी पञ्चमी तथा
普劳拉维、罗希尼、玛迪拉与阿帕拉;同样还有跋陀罗外沙迦希,以及苏那姆尼,为第五位。
Verse 162
सहदेवा शान्तिदेवा श्रीदेवा देवरक्षिता / धृतदेवोपदेवा च देवकी सप्तमी तथा
萨哈德薇、尚提德薇、室利德薇与天护德薇;又有持德薇、优波德薇及提婆姬——她亦为第七位。
Verse 163
सुगन्धा वनराजी च द्वेचान्ये परिचारिके / रोहिणी पौरवी चैव बाह्लीकस्यानुजाभवत्
苏甘达与林王丽是另外两位侍女;而罗希妮与波罗薇则成为巴赫利迦的幼妹。
Verse 164
ज्येष्ठा पत्नी महाभागदयिताऽनकदुन्दुभेः / ज्येष्ठे लेभे सुतं रामं सारणं हि शठं तथा
耶什塔是阿那迦敦杜毗最蒙福、最钟爱的妻子;由耶什塔得子:罗摩、萨罗那与沙塔。
Verse 165
दुर्दमं दमनं शुभ्रं पिण्डारककुशीतकौ / चित्रां नाम कुमारीं च रोहिण्यष्टौ व्यजायत
罗希妮生下八位子女:杜尔达摩、达摩那、舒婆罗、品达罗迦、库希多迦,并有一位名为“奇特拉”的女儿——共八人。
Verse 166
पुत्रौ रामस्य जज्ञाते विज्ञातौ निशठोल्मुकौ / पार्श्वी च पार्श्वमर्दी च शिशुः सत्यधृतिस्तथा
罗摩生下两位著名的儿子:尼沙塔与乌尔穆迦;并又有帕尔什薇、帕尔什瓦玛尔迪、希舒与萨提耶德里提等。
Verse 167
मन्दबाह्यो ऽथ रामणाङ्गिरिको गिरिरेव च / शुल्कगुल्मो ऽतिगुल्मश्च दरिद्रान्तक एव च
曼达巴胡、罗摩那昂吉里迦与吉里雷瓦;又有舒尔卡古尔玛、阿提古尔玛与达利德兰塔迦——皆为所称述之神圣名号。
Verse 168
कुमार्यश्चापि पञ्जान्या नामतस्ता निबोधत / अर्चिष्मती सुनन्दा च सुरसा सुवचास्तथा
请听般阇那雅诸女之名:阿尔奇什玛蒂、苏难达、苏拉萨、苏瓦查。
Verse 169
तथा शतबला चैव सारणस्य सुतास्त्विमाः / भद्राश्वो भद्रगुप्तिश्च भद्रविष्टस्तथैव च
又有沙塔巴拉;此等为萨拉那之子:跋陀罗阿湿瓦、跋陀罗古普提、跋陀罗维什塔。
Verse 170
भद्रबाहुर्भद्ररथो भद्रकल्पस्तथैव च / सुपार्श्वकः कीर्त्तिमांश्च रोहिताश्वः शठात्मजाः
跋陀罗巴胡、跋陀罗罗陀、跋陀罗劫波;又有苏帕尔什瓦迦、吉尔提曼与罗希塔湿瓦——皆为沙塔之子。
Verse 171
दुर्मदस्याभिभूतश्च रोहिण्याः कुलजाः स्मृताः / नन्दोपनन्दौ मित्रश्च कुक्षिमित्रस्तथा बलः
降伏杜尔摩陀之阿毗部多,亦被记为罗希尼族裔;南达、乌帕南达、密特拉、库克希密特拉与婆罗。
Verse 172
चित्रोपचित्रौ कृतकस्तुष्टिः पुष्टिरथापरः / मदिरायाः सुता एते वसुदेवाद्धिजज्ञिरे
奇特罗帕奇特罗、克利塔卡、图什蒂、普什蒂与阿帕罗——皆为玛迪拉之子,确由婆苏提婆所生。
Verse 173
उपबिंबो ऽथ बिंबश्च सत्त्वदन्तमहौजसौ / चत्वार एते विख्याता भद्रापुत्रा महाबलाः
乌帕宾巴与宾巴,以及萨特瓦丹塔与摩诃乌迦萨——此四人皆著名,为跋陀罗之子,力大无比。
Verse 174
वैशाल्यामदधाच्छौरिः पुत्रं कौशिकमुत्तमम् / देवक्यां जज्ञिरे सौरेः सुषेणः कीर्त्तिमानपि
绍利在毗舍利娅处得一殊胜之子,名考希迦;而在提婆姬处,亦诞生绍利之名子苏舍那。
Verse 175
उदर्षिर्भद्रसेनश्च ऋजुदायश्च पञ्चमः / षष्ठो हि भद्रदेवश्च कंसः सर्वाञ्जघान तान्
乌达尔希、跋陀罗塞那、第五的梨朱达耶与第六的跋陀罗提婆——坎萨将他们尽皆杀害。
Verse 176
अथ तस्या मवस्थाया आयुष्मान्संबभूव ह / लोकनाथः पुनर्विष्णुः पूर्वं कृष्णः प्रजापतिः
于是于彼时彼境,阿尤什曼降生;他即是再现的毗湿奴——世间之主,昔为生主黑天者。
Verse 177
अनुजाताभवकृष्णात्सुभद्रा भद्रभाषिणी / कृष्णा सुभद्रेति पुनर्व्याख्याता वृष्णिनन्दिनी
苏跋陀罗作为黑天(克里希那)的幼妹而生,言辞吉祥。她又被称释为“克里希那”(黑色者)与“苏跋陀罗”(吉祥者),为弗利什尼族的明珠。
Verse 178
सुभद्रायां रथी पार्थादभिमन्युरजायत / वसुदेवस्य भार्यासु महाभागासु सप्तसु
在苏跋陀罗处,由帕尔塔·阿周那,诞生了战车勇士阿毗曼纽。此事见于婆苏提婆七位大福德夫人的谱系叙述中。
Verse 179
ये पुत्रा जज्ञिरे शुरा नामतस्तान्निबोधत / पूर्वाद्याः सहदेवायां शूराद्वै जज्ञिरे सुताः
当知从舒拉所生诸子之名。最初的诸子确由舒拉在萨诃提娃处所生。
Verse 180
शान्तिदेवा जनस्तम्बं शौरेर्जज्ञे कुलोद्वहम् / आगावहो महात्मा च वृकदेव्या मजायत
由善提提娃,绍里之子嗣中诞生名为“阇那斯坦婆”者,为族门之栋梁。又由弗利迦提薇,生“阿迦婆诃”及一位大心之子。
Verse 181
श्रीदेवायां स्वयं जज्ञे मन्दको नाम नामतः / उपासंगं वसुं चापि तनयौ देवरक्षिता
在室利提娃处,自生一子名“曼陀迦”。又由提婆罗克希塔,亦生二子:“优帕桑伽”与“婆苏”。
Verse 182
एवं दश सुतास्तस्य कंसस्तानप्यघातयत् / विजयं रोचनं चैव वर्द्धमानं च देवलम्
就这样,甘萨也杀害了他的十个儿子;维阇耶、罗遮那、伐陀摩那与提婆罗也一并被他诛灭。
Verse 183
एतान्महात्मनः पुत्रान्सुषाव शिशिरावती / सप्तमी देवकी पुत्रं सुनामानमसूयत
这些大士之子由希希罗伐底所生;而第七次,提婆姬诞下一子,名为苏那摩。
Verse 184
गवेषणं महाभागं संग्रामे चित्रयोधिनम् / श्राद्धदेव्यां पुरोद्याने वने तु विचरन्द्विजाः
吉祥的伽维沙那在战场上是奇异的勇士;诸婆罗门啊,他在施罗陀提毗的前苑林中游行。
Verse 185
वैश्यायामदधाच्छौरिः पुत्रं कौशिकमव्ययम् / सुगन्धी वनराजी च शौरेरास्तां परिग्रहौ
绍利在一位吠舍女子中生下不灭之子,名为考希迦;而苏甘提与婆那罗阇仪为绍利的配偶(parigraha)。
Verse 186
पुण्डश्च कपिलश्चैव सुगन्ध्याश्चात्मजौ तु तौ / तयो राजाभवत्पुण्ड्रः कपिलस्तु वनं ययौ
苏甘提有二子:本荼与迦毗罗;其中本陀罗为王,而迦毗罗则入林而去。
Verse 187
अन्यस्यामभवद्वीरो वसुदेवात्मजो बली / जरा नाम निषादो ऽसौ प्रथमः स धनुर्द्धरः
在另一位妻子处,诞生了婆苏提婆那勇猛强健之子;他是名为“阇罗”的尼沙陀族人,被称为最初的持弓者。
Verse 188
विख्यातो देवभाग्यस्य महाभागः सुतो ऽभवत् / पण्डितानां मतं प्राहुर्देवश्रवसमुद्भवम्
天福(Devabhāgya)得一位大福德、声名远播之子;学者们认为,他出自天闻(Devaśravas)一系。
Verse 189
अश्मक्यां लभते पुत्रमनाधृष्टिर्यशास्विनम् / निवृत्तशत्रुं शत्रुघ्नं श्राद्धदेवं महाबलम्
在阿湿摩姬处,阿那陀利什提得一位声名显赫之子:令敌退却、灭敌者——大力的“施罗陀提婆”(Śrāddhadeva)。
Verse 190
व्यजायत श्राद्धदेवो नैषादिर्यः पारिश्रुतः / एकलव्यो महाभागो निषादैः परिवर्द्धितः
名为“施罗陀提婆”的尼沙陀诞生了,他亦被称作“帕利施鲁塔”。大福德的埃迦罗毗耶由尼沙陀族人抚育长大。
Verse 191
गण्डूषायानपत्याय कृष्णस्तुष्टो ऽददात्सुतौ / चारुदेष्णं च सांबं च कृतास्त्रौ शस्तलक्षणौ
因甘杜沙无子,克里希纳欢喜,赐她二子:恰鲁德什那与三婆;二人皆精于兵器之术,具足武者之相。
Verse 192
रन्तिश्च रन्तिपालश्च द्वौ पुत्रौ नन्दनस्य च / वृकाय वै त्वपुत्राय वसुदेवः प्रतापवान्
难陀那有两子:兰提与兰提波罗。又因弗里迦无嗣,威德具足的婆苏提婆被赐与他为子。
Verse 193
सौमिं ददौ सुत वीरं शौरिः कौशिकमेव च / सृंजयस्य धनुश्चैव विरजाश्च सुताविमौ
绍利赐予名为“苏弥”的勇子,并赐与“乔尸迦”。这二人乃斯林阇耶之子:达努与毗罗阇。
Verse 194
अनपत्यो ऽभवच्छ्यामः शमीकस्तु वनं ययौ / जुगुप्समानो भोजत्वं राजर्षित्वमवाप्तवान्
沙耶摩无有子嗣;而沙弥迦入于林野。厌弃“婆阇”之位,他证得王仙之境。
Verse 195
य इदं जन्म कृष्णस्य पठते नियतव्रतः / श्रावयेद्ब्राह्मणंवापि स महात्सुखमवाप्नुयात्
若有人持守净戒,诵读此《黑天降生》之章,或令婆罗门聆听诵说,彼必得大乐。
Verse 196
देवदेवो महातेजाः पूर्वं कृष्णः प्रजापतिः / विहारार्थं मनुष्येषु जज्ञे नारायणः प्रभुः
诸神之神、光辉无量者——昔为名“黑天”的生主——为行神圣游戏,降生人间,示现为主那罗延。
Verse 197
देवक्यां वसुदेवेन तपसा पुष्करेक्षणः / चतुर्बाहुस्तु संजज्ञे दिव्यरूपश्रियान्वितः
在提婆姬的胎中,由于婆苏提婆的苦行,莲眼的至尊以四臂之相诞生,具足神圣形相之光辉。
Verse 198
प्रकाश्यो भगवान्योगी कृष्णो मानुषतां गतः / अव्यक्तो व्यक्तलिङ्गश्च स एव भगवान्प्रभुः
应当显现的瑜伽自在者——薄伽梵克里希纳——进入人身;虽为不显,却具显相之标志:他正是至上主宰。
Verse 199
नारायणो यतश्चक्रे व्ययं चैवाव्ययं हि यत् / देवो नारायणो भूत्वा हरिरासीत्सनातनः
由那罗延而生起可坏与不可坏;他化为天神那罗延,安住为永恒之诃利。
Verse 200
यो ऽबुञ्जाच्चादिपुरुषं पुरा चक्रे प्रजापतिम् / अदितेरपि पुत्रत्वमेत्य यादवनन्दनः
昔日连原初之人也被他立为生主(Prajāpati);那位雅度族之欢喜者亦取阿底提之子身而降世。
The chapter catalogs Sāttvata-linked Yādava branches, foregrounding the Vṛṣṇi and Andhaka-associated lines and connected sub-branches through named descendants and family linkages.
It exemplifies a Purāṇic pattern where austerity authorizes an ideal heir; Babhru’s birth is then validated by communal memory via a gāthā, reinforcing dynastic prestige and continuity.
Based on the provided excerpt, the emphasis is genealogical rather than bhuvana-kośa measurement; the chapter’s core function is lineage enumeration and exemplary dynastic episodes.