
अमावसुवंशानुकीर्तनम् (Amāvasu-vaṃśānukīrtanam) — Recitation of the Amāvasu Lineage; Dhanvantari’s Origin
本章以族谱诵述(vaṃśānukīrtana)的体例,从Āyu的后裔展开,转入与王族与圣仙(ṛṣi)身份相关的显著支系。开篇记述Prabhā所生五子(Prabhā出自Svarbhānu之女Naya),以Nahusha为首,并列Kṣatravṛddha等名闻三界者。继而聚焦Kṣatravṛddha一系:Sunahotra及其三位正直的继承人——Kāśa、Śala、Gṛtsamada——再传至Śunaka(Śaunaka)。章中强调“种姓多出”的标志:此系分衍出婆罗门、刹帝利、吠舍与首陀罗,显示家系分支亦为社会—宇宙秩序的分类。随后续述诸支派(如Ārṣṭiṣeṇa/Śiśira;迦尸Kāśi系:Kāśipa → Dīrghatapas → Dhanva → Dhanvantari)。当诸圣者询问Sūta:Dhanvantari在人间的身份与出生为何,Sūta以正典神话作答:在搅乳海求甘露(amṛta-manthana)之时,Dhanvantari自宝瓶(kalaśa)中显现,光辉与Śrī同在,并与Viṣṇu及祭祀(yajña)分配相联系,从而在祭祀秩序与宇宙史中确立医药之神圣权威。
Verse 1
इति श्रीब्रह्माण्डे महापुराणे वायुप्रोक्ते मध्यमभागे तृतीय उवोद्धात पादे भार्गवचरिते अमावसुवंशानुकीर्त्तनं नाम षट्षष्टितमो ऽध्यायः // ६६// आयोः पुत्रा महात्मानः पञ्चैवासन्महाबलाः / स्वर्भानुत नयायां ते प्रभायां जज्ञिरे नृपाः
如是,在《圣梵卵大摩诃往世书》中,风神所宣说之中篇、第三“开示足”之《婆尔伽瓦行传》里,名为“阿摩婆苏族系颂述”的第六十六章告终。大士阿瑜有五位大力之子;诸王皆由斯瓦尔婆奴之女普拉婆所生。
Verse 2
नहुषः प्रथमस्तेषां क्षत्रवृद्धस्ततः स्मृतः / रंभो रजिरनेनाश्च त्रिषु लोकेषु विश्रुताः
其中首位为那胡沙;其后称为刹帝利弗利陀。然婆、罗吉与阿涅那,皆闻名于三界。
Verse 3
क्षत्रवृद्धात्मजश्चैव सुनहोत्रो महायशाः / सुनहोत्रस्य दायादास्त्रयः परमधार्मिकाः
刹多罗弗利陀之子名苏那霍特罗,声名显赫。苏那霍特罗有三位继嗣,皆为至极守法之人。
Verse 4
काशः शलश्च द्वावेतौ तथा गृत्समदः प्रभुः / पुत्रो गृत्समदस्यापि शुनको यस्य शौनकः
迦舍与舍罗为二人,又有主者格利特萨摩陀。格利特萨摩陀之子名舒那迦,亦称绍那迦。
Verse 5
ब्राह्मणाः क्षत्रियाश्चैव वैश्याः शूद्रास्तथैव च / एतस्य वंशेसंभूता विचित्रैः कर्मभिर्द्विजाः
婆罗门、刹帝利、吠舍与首陀罗,皆出自此族系;诸二生者以种种事业而显名。
Verse 6
शलात्मजो ह्यार्ष्टिषेणः शिशिरस्तस्य जात्मजः / शौनकाश्चार्ष्टिषेणाश्च क्षत्रोपेता द्विजातयः
舍罗之子为阿尔什提舍那,其子为希希罗。绍那迦与阿尔什提舍那诸族,皆为具刹帝利威德之二生者。
Verse 7
काश्यस्य काशिपो राजा पुत्रो दीर्घतपास्तथा / धन्वश्च दीर्घतपसो विद्वान्धन्वन्तरीस्ततः
迦舍耶之子为迦舍波王,其子为迪尔迦塔帕。迪尔迦塔帕之子名檀婆;由檀婆而生智者檀梵多利。
Verse 8
तपसोंऽते महातेजा जातो वृद्धस्य धीमतः / अथैनमृषयः प्रोचुः सूतं वाक्यमिद पुनः
苦行圆满之际,那位睿智长者生出一位大光明之子。随后诸仙再度对苏多说了这番话。
Verse 9
ऋषय ऊचुः कश्च धन्वन्तरिर्देवो मानुषेष्विह जज्ञिवान् / एतद्वेदितुमिच्छामस्तन्नोब्रूहि परन्तप
诸仙说道:在此人间降生的天神“丹梵多利”究竟是谁?我们愿闻其详;噬敌者啊,请为我们宣说。
Verse 10
सूत उवाच धन्वन्तरेः संभवो ऽयं श्रूयतामिह वै द्विजाः / स संभूतः समुद्रान्ते मथ्यमाने ऽमृते पुरा
苏多说道:诸位二生者,请听丹梵多利的来历。远古为求甘露搅拌大海之时,他在海中显现而出。
Verse 11
उत्पन्नः कलशात्पूर्वं सर्वतश्च श्रिया वृतः / सद्यःसंसिद्धकार्यं तं दृष्ट्वा विष्णुखस्थितः
他先从宝瓶中出现,四方皆为吉祥女神室利的光辉所环绕。见其使命即刻圆满,毗湿奴便安住于虚空之中。
Verse 12
अब्जस्त्वमिति होवाच तस्मादब्जस्तु स स्मृतः / अब्जः प्रोवाच विष्णुं तं तनयो ऽस्मि तव प्रभो
他说:“你是阿阇婆(Abja)”;因此他被称为“阿阇婆”。随后阿阇婆对毗湿奴说道:“主啊,我是您的儿子。”
Verse 13
विधत्स्व भागं स्थानं च मम लोके सुरोत्तम / एवमुक्तः स दृष्ट्वा तु तथ्यं प्रोवाच स प्रभुः
噢,诸天中最尊者,请在我的世界中为我安立应得之分与住处。如此言毕,彼主宰观见真实,遂如实宣说。
Verse 14
कृतो यज्ञविभागस्तु दैतेयैर्हि सुरैस्तथा / वेदेषु विधियुक्तं च विधिहोत्रं महर्षिभिः
代底耶与诸天已定祭祀之分配;诸大圣仙又依吠陀所载,建立合乎仪轨的火供之法。
Verse 15
न सक्यमिह होमं वै तुभ्यं कर्तुं कदायन / अर्वाक्सूतो ऽसि हे देव तव मन्त्रो न वै प्रभो
噢,天神,在此无论何时都不能为你行火供;因为你是“arvāksūta”——主啊,你并无持诵真言之资格。
Verse 16
द्वितीयायां तु संभूत्यां लोके ख्यातिं गमिष्यसि / अणिमादियुतां सिद्धिं गतस्तत्र भविष्यसि
在第二次出生之时,你将在世间获得声名;并得具足“微细”等诸悉地,安住于彼处。
Verse 17
एतेनैव शरीरेण देवत्वं प्राप्स्यसि प्रभो / चा (च) तुर्मन्त्रैर्घृतैर्गव्यैर्यक्ष्यन्ते त्वां द्विजातयः
主啊,正以此身你将获得神格;二次生者将以四句真言、酥油与牛所出之供品祭祀于你。
Verse 18
अथ वा त्वं पुनश्चैव ह्यायुर्वेदं विधास्यसि / अवश्यभावीह्यर्थो ऽयं प्राग्दृष्टस्त्वब्जयोनिना
或者你将再次制定《阿育吠陀》。此事必然发生;莲华生的梵天早已预见了这一切。
Verse 19
द्वितीयं द्वापर प्राप्य भविता त्वं न संशयः / तस्मात्तस्मै वरं दत्त्वा विष्णुरन्तर्दधे ततः
待到第二个兜婆罗时代,你必定会出现——毫无疑问。于是赐他一愿后,毗湿奴便在彼处隐没。
Verse 20
द्वितीये द्वापरे प्राप्ते सौनहोत्रः स काशिराट् / पुत्रकामस्तपस्तेपे नृपो दीर्घतपास्तथा
第二个兜婆罗时代到来时,迦尸国王娑乌那霍特罗为求子嗣而行长久苦行。
Verse 21
अब्जं देवं तु पुत्रार्थे ह्यारिराधयिषुर्नृपः / वरेण च्छन्दयामास ततो धन्वन्तरिर्नृपम्
为求子嗣,国王欲礼敬莲华之神。于是檀梵多梨以赐愿使国王心满意足。
Verse 22
नृप उवाच भगवन्यदि तुष्टस्त्वं पुत्रो मे गतिमान्भवेः / तथेति समनुज्ञाय तत्रैवान्तरधात्प्रभुः
国王说道:“世尊,若您欢喜,愿我之子具威德与才能。”主答“如是”,允诺后便在彼处隐没。
Verse 23
तस्य गेहे समुत्पन्नो देवो धन्वन्तरिस्तदा / काशिराजो महाराजः सर्व रोगप्रणाशनः
当时在他家中,天神檀梵多利降生。祂为迦尸的大王,能灭除一切疾病。
Verse 24
आयुर्वेदं भरद्वाजात्प्राप्येह सभिषक्क्रियम् / तमष्टधा पुनर्व्यस्य शिष्येभ्यः प्रत्यपादयत्
他从婆罗陀婆阇处获得含医治法门的《阿育吠陀》,又将其重新分为八支,传授给诸弟子。
Verse 25
धन्वन्तरिसुतश्चापि केतुमानिति विश्रुतः / अथ केतुमतः पुत्रो जज्ञे भीमरथो नृपः
檀梵多利之子亦以“计都曼”闻名。随后,计都曼之子——国王毗摩罗他诞生。
Verse 26
पुत्रो भीमरथस्यापि जातो धीमान्प्रजेश्वरः / दिवोदास इति ख्यातो वाराणस्यधिपो ऽभवत्
毗摩罗他亦有一子,聪慧而为民之主;名号“提婆陀娑”,遂为婆罗那西之君。
Verse 27
एतस्मिन्नेव काले तु पुरीं वारामसीं पुरा / शून्यां निवेशयामास क्षेमको नाम राक्षसः
就在那时,古老的瓦罗摩西城被名为“刹摩迦”的罗刹使之空寂,化为无人之城。
Verse 28
शप्ता हि सा पुरी पूर्वं निकुंभेन महात्मना / शून्या वर्षसहस्रं वै भवित्रीति पुनः पुनः
那座城昔日被大圣尼库姆婆诅咒道:“此城将一再空寂,长达千年。”
Verse 29
तस्यां तु शप्तमात्रायां दिवोदासः प्रजेश्वरः / विषयान्ते पुरीं रम्यां गोमत्यां संन्यवेशयत्
在那诅咒之时,民众之主提沃达萨在其国境尽头、戈摩提河畔安置了一座秀丽之城。
Verse 30
ऋषय ऊचुः वाराणसीं किमर्थं तां निकुंभः शप्तवान्पुरा / निकुंभश्चापि धर्मात्मा सिद्धक्षेत्रं शशाप यः
诸仙人问道:“为何具法之尼库姆婆昔日诅咒瓦拉纳西?他既为正法之人,何以竟诅咒成就者的圣地?”
Verse 31
सूत उवाच दिवोदासस्तु राजर्षिर्नगरीं प्राप्य पार्थिवः / वसते स महातेजाः स्फीतायां वै नराधिपः
苏多说道:“王仙提沃达萨抵达那城后,以大威光为人王,居于那繁盛之都。”
Verse 32
एतस्मिन्नेव काले तु कृतदारो महेश्वरः / देव्याः स प्रियकामस्तु वसन्वै श्वशुरान्तिके
就在那时,大自在天已成婚,为遂女神所爱之愿,居于岳父近旁。
Verse 33
देवाज्ञया पारिषदा विश्वरुपास्तपोधनाः / पूर्वोक्तरूपसंवेषैस्तोषयन्ति महेश्वरीम्
奉诸天之命,那些具苦行功德、形相万千的侍从,依先前所述之形饰装束,令大自在女神(摩诃湿婆丽)欢喜。
Verse 34
हृष्यते तैर्महादेवो मेना नैव तु तुष्यति / जुगुप्सते सा नित्यं वै देवं देवीं तथैव च
他们使大自在天欢喜,然而梅那并不满足;她恒常厌恶神与女神,二者皆然。
Verse 35
मम पार्श्वे त्वनाचारस्तव भर्त्ता महेश्वरः / दरिद्रः सर्वथैवेह हा कष्टं लज्जते न वै
在我看来,你的夫君大自在天不守礼法;在此他处处贫乏——唉,竟也不知羞惭。
Verse 36
मात्रा तथोक्ता वचसा स्त्रीस्वभावान्न चक्षमे / स्मितं कृत्वा तु वरदा हरपार्श्वमथागमत्
母亲如此言语,她以女子之性情难以忍受;然而赐愿女神含笑,遂走近哈拉(湿婆)身旁。
Verse 37
विषण्णवदना देवी महादेवमभाषत / नेह वत्स्याम्यहं देव नय मां स्वं निवेशनम्
女神面带忧容,对大自在天说道:“大德,我不愿住在此处;请带我去你的居所。”
Verse 38
तथोक्तस्तु महादेवः सर्वांल्लोकान्निरीक्ष्य ह / वासार्थं रोचयामास पृथिव्यां तु द्विजोत्तमाः
闻此言后,大天尊遍观诸界;诸位最胜婆罗门啊,他在大地上择定一处作为居所。
Verse 39
वाराणसीं महातेजाः सिद्धक्षेत्रं महेश्वरः / दिवोदासेन तां ज्ञात्वा निविष्टां नगरीं भवः
大威光的摩诃伊湿伐罗知瓦罗那西为成就者之圣域;得知此城由提婆陀娑所建,婆伐便留意于此。
Verse 40
पार्श्वस्थं स समाहूय गणेशं क्षेममब्रवीत् / गणेश्वर पुरीं गत्वा शून्यां वाराणसीं कुरु
他召来身旁的伽内沙,问其安好,并说道:“伽内舍主啊,入城去,使瓦罗那西成为空城。”
Verse 41
मृदुना चाभ्युपायेन अतिवीर्यः स पार्थिवः / ततो गत्वा निकुंभस्तु पुरीं वाराणसीं पुरा
那位勇力无比的君王以柔和之策行事;随后尼昆婆先行前往瓦罗那西城。
Verse 42
स्वप्ने संदर्शयामास मङ्कनं नामतो द्विजम् / श्रेयस्ते ऽहं करिष्यामि स्थानं मे रोचयानघ
他在梦中示现于名为曼迦那的婆罗门,说:“我将成就你的吉祥;无垢者啊,为我择定一处住处。”
Verse 43
मद्रूपां प्रतिमां कृत्वा नगर्यन्ते निवेशय / तथा स्वप्ने यथा दृष्टं सर्वं कारितवान्द्विजः
他塑造与我形相相同的圣像,并安置于城中。那位婆罗门依梦中所见,使一切都如法成就。
Verse 44
नगरीद्वार्यनुज्ञाप्य राजानं तु यथाविधि / पूजा तुमहती चैव नित्यमेव प्रयुज्यते
他先得城门守卫许可,又依仪轨禀请国王准许。其处日日施行盛大供奉,恒常不辍。
Verse 45
गन्धैर्धूपैश्च वाल्यैश्च प्रेक्षणीयेस्तथैव च / अन्नप्रदानयुक्तैश्च ह्यत्यद्भुतमिवाभवत्
以香料、熏香、供献与可观之仪式,又兼施食布施,使这一切宛如极其神奇。
Verse 46
एवं संपूज्यते तत्र नित्यमेव गणेश्वरः / ततो वरसहस्राणि नागराणां प्रयच्छति
如是,彼处恒常如法供奉象头神主。于是他赐予城中百姓千千福愿。
Verse 47
पुत्रान्हिरण्यमायूंषि सर्वकामांस्तथैव च / राज्ञस्तु महिषी श्रेष्टा सुयशा नाम विश्रुता
他赐予子嗣、黄金、长寿与一切所愿。国王最尊贵的王后名为“苏耶沙”,声名远播。
Verse 48
पुत्रार्थमागता साध्वी राज्ञा देवी प्रचोदिता / पूजां तु विपुलां कृत्वा देवी पुत्रानयाचत
为求得子嗣,那位贞善的女神在国王劝请下前来;她举行盛大的供奉礼,向神明祈求赐予儿子。
Verse 49
पुनः पुनरथागत्य बहुशः पुत्रकारणात् / न प्रयच्छति पुत्रांस्तु निकुंभः कारणेन तु
因求子之故,她一次又一次多番前来;然而尼库姆婆因某种缘由,并不赐予儿子。
Verse 50
क्रुध्यते यदि राजा तु तत किञ्चित्प्रवर्त्तते / अथ दीर्घेण कालेन क्रोधो राजानमाविशत्
君王若发怒,必有举动;而在漫长岁月之后,愤怒终于侵入了国王之心。
Verse 51
भूतं त्विदं मंहद्द्वारि नागराणां प्रयच्छति / प्रीत्या वरांश्च शतशो न किञ्चिन्नः प्रयच्छति
这鬼灵在宏大的城门前施与城中百姓;欢喜时赐下百般恩许,却对我们毫无赐予。
Verse 52
मामकैः पूज्यते नित्यं नगर्यां मम चैव तु / स याचितश्च बहुशो देव्या मे पुत्रकारणात्
在我的城中,我的子民日日敬拜他;而我的王后女神也因求子之故,多次向他祈求。
Verse 53
न ददाति च पुत्रं मे कृतघ्नो बहुभोजनः / अतो नार्हति पूजा तु मत्सकाशात्कथञ्चन
他忘恩负义又贪食,连我的儿子也不肯交还;因此在我面前,他无论如何都不配受供奉礼敬。
Verse 54
तस्मात्तु नाशयिष्यामितस्य स्थानं दुरात्मनः / एवं तु स विनिश्चित्य दुरात्मा राजकिल्बिषी
因此我必毁掉那恶人的所在。如此决断后,那心恶且负有王者罪业者便付诸行动。
Verse 55
स्थानं गणपतेश्तस्य नाशयामास दुर्मतिः / भग्नमायतनं दृष्ट्वा राजानमशपत्प्रभुः
那愚恶之人毁坏了伽那帕提的圣处。见到殿宇破碎,主宰便诅咒了国王。
Verse 56
यस्माद्विनापराधं मे त्वया स्थानं विनाशितम् / अकस्मात्तु पुरी शून्या भवित्रीते नराधिप
既然我并无过失,你却毁了我的所在;因此,人中王啊,你的城邑将骤然变得空寂无人。
Verse 57
ततस्तेन तु शापेन शून्या वाराणसी तदा / शप्त्वा पुरीं निकुंभस्तु महादेवमथानयत्
因那诅咒,当时瓦拉纳西遂成空城。诅咒城邑之后,尼库姆巴又将大自在天(摩诃提婆)引至其处。
Verse 58
शून्यां पुरीं महा देवो निर्ममे पदमात्मनः / तुल्यां देवविभूत्या तु देव्याश्चैव महामनाः
大自在天为自身的真我之境造作一座空寂之城;以广大心意,使其与诸天威德等同,亦与女神相称。
Verse 59
रमते तत्र वै देवी ह्यैश्वर्यात्सा तु विस्मिता / देव्या क्रीडार्थमीशानो देवो वाक्यमथाब्रवीत्
女神在那里因自身的自在威德而欢喜惊叹;为使女神嬉游,主宰伊沙那便宣说此言。
Verse 60
नाहं वेश्म विमोक्ष्यामि ह्यविमुक्तं हि मे गृहम् / प्रहस्यैनामथोवाच ह्यविमुक्तं हि मे गृहम् / नाहं देवि गमिष्यामि त्वन्यत्रेदं विहाय वै
我不将离开此宅;此乃我之“阿毗穆克多”(Avimukta)之居。主含笑对她说——此乃我之“阿毗穆克多”之居。女神啊,舍此我不往他处。
Verse 61
मया सह रमस्वेह क्षेत्रे भामिन्यनुत्तमे / तस्मात्तदविमुक्तं हि प्रोक्तं देवेन वै स्वयम्
无上佳丽啊,在此圣域与我同乐;因此此地由天神亲自称为“阿毗穆克多”(Avimukta)。
Verse 62
एवं वाराणसी शप्ता ह्यविमुक्तं च कीर्त्तिता / यस्मिन्वसेद्भवो देवः सर्वदेवनमस्कृतः
如是,婆罗那西被宣称并传颂为“阿毗穆克多”(Avimukta);因为在此处,受一切诸天礼敬的婆婆天(湿婆)居住。
Verse 63
युगेषु त्रिषु धर्मात्मा सह देव्या महेश्वरः / अन्तर्द्धानं कलौ याति तत्पुरं तु महात्मनः
在前三个劫中,具法性之大自在天与女神同住;至迦利劫时,他与那位大灵者之城邑皆隐没不现。
Verse 64
अन्तर्हिते पुरे तस्मिन्पुरी सा वसते पुनः / एवं वाराणसी शप्ता निवेशं पुनरागता
当那座城邑隐没之后,此城又再度有人居住;如是,被诅咒的婆罗那西重新回到其旧居。
Verse 65
भद्रसेनस्य पुत्राणां शतमुत्तमधन्विनाम् / हत्वा निवेशयामास दिवोदासो नराधिपः
诛杀跋陀罗塞那那一百位善射之子后,人王提婆陀娑便在彼处建立居所。
Verse 66
भद्रसेनस्य राज्यं तु हतं तेन बलीयसा / भद्रसेनस्य पुत्रस्तु दुर्मदो नाम नामतः
因那更强者之力,跋陀罗塞那的国度被摧毁;跋陀罗塞那有一子,名号即为“杜尔玛达”。
Verse 67
दिवोदासेन बालेति घृणया स विसर्जितः / दिवोदासाद्दृषद्वत्यां वीरो जज्ञे प्रतर्द्दनः
提婆陀娑怜悯他说“尚是孩童”而放过他;而提婆陀娑在德里沙德瓦蒂生下名为普拉塔尔达那的勇士。
Verse 68
तेन पुत्रेण बालेन प्रहृतं तस्य वै पुनः / वैरस्यान्त महाराज तदा तेन विधित्सता
那幼子又一次击打了他。大王啊,为了终结仇怨,那时他决意如此行事。
Verse 69
प्रतर्दनस्य पुत्रौ द्वौ वत्सो गर्गश्च विश्रुतौ / वत्सपुत्रो ह्यलर्कस्तु सन्नतिस्तस्य चात्मजः
普拉塔尔达那有两位著名的儿子:瓦特萨与伽尔伽。瓦特萨之子为阿拉尔迦,而阿拉尔迦之子为桑那提。
Verse 70
अलर्कं प्रति राजर्षिं श्रोकों गीतः पुरातनैः / षष्टिवर्षसहस्राणि षष्टिवर्षशतानि च
关于王仙阿拉尔迦,古人唱诵此偈:他得享(寿命/王权)六万年,又加六百年(共六万零六百年)。
Verse 71
युवा रूपेण संपन्नो ह्यलर्कः काशिसत्तमः / लोपामुद्राप्रसादेन परमायुरवाप्तवान्
阿拉尔迦乃迦尸之最胜者,具足青春之相;蒙罗波阿牟陀罗的恩赐,他得获无上寿命。
Verse 72
शापस्यान्ते महाबाहुर्हत्वा क्षेमकराक्षसम् / रम्यामावासयामास पुरीं वाराणसीं नृपः
诅咒终了之时,那位臂力雄伟的国王诛杀了克谢摩迦罗罗刹,使秀丽的瓦拉纳西城再度有人安居。
Verse 73
सन्नतेरपि दायादः सुनीथो नाम धार्मिकः / सुनीथस्य तु दायादः क्षैमाख्यो नाम धार्मिकः
在萨那提的后裔中,有一位名为苏尼塔的持法之人;而苏尼塔的继嗣,是名为克谢玛的虔敬守法者。
Verse 74
क्षेमस्य केतुमान्पुत्रः सुकेतुस्तस्य चात्मजः / सुकेतुतनयश्चापि धर्मकेतुरिति श्रुतः
克谢玛之子为凯图曼,其子为苏凯图;苏凯图之子亦被传闻名为“达摩凯图”。
Verse 75
धर्मकेतोस्तु दायादः सत्यकेतुर्महारथः / सत्यकेतुसुतश्चापि विभुर्नाम प्रजेश्वरः
达摩凯图的继嗣是大车战士萨提亚凯图;萨提亚凯图之子名为毗布,为众民之主。
Verse 76
सुविभुस्तु विभोः पुत्रः सुकुमारस्ततः स्मृतः / सुकुमारस्य पुत्रस्तु धृष्टकेतुः सुधार्मिकः
毗布之子为苏毗布;其后记有苏库玛罗。苏库玛罗之子为德里什塔凯图,极其守持正法。
Verse 77
धृष्टकेतोस्तु दायादो वेणुहोत्रः प्रजेश्वरः / वेणुहोत्रसुतश्चापि गार्ग्यो वै नाम विश्रुतः
德里什塔凯图的继嗣为韦努霍特罗,乃众民之主;韦努霍特罗之子亦以“伽尔吉亚”之名闻名。
Verse 78
गार्ग्यस्य गर्गभूमिस्तु वंशो वत्सस्य धीमतः / ब्राह्मणाः क्षत्रियाश्चैव तयोः पुत्राः सुधार्मिकाः
伽尔吉耶的族系被称为“伽尔伽布弥”,而智者瓦特萨的家族亦闻名于世。两族之中既有婆罗门亦有刹帝利,其子嗣皆极为守持正法。
Verse 79
विक्रान्ता बलवन्तश्च सिहतुल्यपराक्रमाः / इत्येते काश्यपाः प्रोक्ता रजेरपि निबोधत
他们英勇无畏,强健有力,勇猛如狮。此等被称为“迦湿耶波族”;现在也当听闻关于罗阇的事迹。
Verse 80
रजेः पुत्रशतान्यासन्पञ्च वीर्यवतो भुवि / राजेयमिति विख्यातं क्षत्र सिंद्रभयावहम्
罗阇有百子,而大地之上有五位尤为雄健。其刹帝利族系以“罗阇耶”著称,令敌众心生畏惧。
Verse 81
तदा देवासुरे युद्धे समुत्पन्ने सुदारुणे / देवाश्चैवासुराश्चैव पितामहमथाब्रुवन्
当时天神与阿修罗之间爆发了极其惨烈的战争。天神与阿修罗双方遂向祖父神梵天启言。
Verse 82
आवयोर्भगवन्युद्धे विजेता को भविष्यति / ब्रूहि नः सर्वलोकेश श्रोतुमिच्छामहे वयम्
世尊啊,在我们这场战争中,胜者将是谁?万界之主啊,请告知我们;我们渴望聆听。
Verse 83
ब्रह्मोवाच / येषामर्थाय संग्रामे रजिरात्तायुधः प्रभुः / योत्स्यते ते विजष्यन्ते त्रींल्लोकान्नात्र संशयः
梵天说道:为着谁的利益,执持兵器的主宰罗吉在战场上出战;那一方必将征服三界,此中毫无疑虑。
Verse 84
रजिर्यतस्ततो लक्ष्मीर्यतो लक्ष्मीस्ततो धृतिः / यतो धृतिस्ततो धर्मो यतो धर्मस्ततो जयः
罗吉所在之处,即有吉祥天女拉克什米;拉克什米所在之处,即有坚忍;坚忍所在之处,即有法;法所在之处,即有胜利。
Verse 85
ते देवा दानवाः सर्वे ततः श्रुत्वा रजेर्जयम् / अभ्ययुर्जयमिच्छन्तः स्तुवन्तो राजसत्तमम्
于是诸天与阿修罗众听闻罗吉得胜,皆怀求胜之愿,赞颂这位最上之王,前来趋近。
Verse 86
ते हृष्टमनसः सर्वे राजानं देवदानवाः / ऊचुरस्मज्जयाय त्वं गृहाम वरकार्मुकम्
诸天与阿修罗众皆心生欢喜,对王说道:“为我等得胜,请受此上妙神弓。”
Verse 87
रजिरुवाच अहं जेष्यामि भो दैत्या देवाञ्च्छ क्रपुरोगमान् / इन्द्रो भवामि धर्मात्मा ततो योत्स्ये रणाजिरे
罗吉说道:“噢,代提耶众!我将战胜诸天,连同他们的领袖因陀罗在内。我将以守法之心成为因陀罗,然后在战场上交战。”
Verse 88
दानवा ऊचुः अस्माकमिन्द्रः प्रह्लादस्तस्यार्थे विजयामहे / अस्मिन्तु समये राजंस्तिष्ठेथा देवनोदिते
达那婆众说道:“普罗诃罗陀是我们的因陀罗;为他我们求得胜利。大王,此时在诸天的启示下,请你留在此处。”
Verse 89
स तथेति ब्रुवन्नेव देवैरप्यभिनोदितः / भविष्यसींद्रो जित्वेति देवैरपि निमन्त्रितः
他答道“如此”,也得到了诸天的赞许。诸天又邀请他说:“你将获胜而成为因陀罗。”
Verse 90
जघान दानवान्सर्वान्ये ऽवध्या वज्रपाणयः / स विप्रनष्टां देवानां परमश्रीः श्रियं वशी
执金刚者诛灭了所有被认为不可杀的达那婆。由他制伏并复兴了诸天失落的至上吉祥与荣光。
Verse 91
निहत्य दानवान्सर्वा नाजहार रजिः प्रभुः / तं तथाह रजिं तत्र देवैः सह शतक्रतुः
即便诛尽诸达那婆,主宰罗阇依仍未接受(职位/王权)。于是当场,沙塔克拉图与诸天一同对罗阇依如此说道。
Verse 92
रजिपुत्रो ऽहमित्युक्त्वा पुनरेवाब्रहवीद्वचः / इन्द्रो ऽसि राजन्देवानां सर्वेषां नात्र संशयः
他说“我是罗阇依之子”,又再次宣言:“大王,你就是一切诸天的因陀罗;对此毫无疑惑。”
Verse 93
यस्याहमिन्द्रः पुत्रस्ते ख्यातिं यास्यामि शत्रुहन् / स तु शक्रवचः श्रुत्वा वञ्चितस्तेन मायया
“我乃敌杀者(Śatruhan),是因陀罗之子;我将使你的名声显扬。”然而他听了释迦罗(Śakra)之言,竟被那幻力(māyā)所欺。
Verse 94
तथेत्येवाह वै राजा प्रीयमाणः शतक्रतुम् / तस्मिंस्तु देवसदृशे दिवं प्राप्ते महीपतौ
国王取悦于百祭者(Śatakratu),说道:“就如此吧。”当那位如天神般的地上君王升至天界之时。
Verse 95
दायाद्यमिन्द्रादा जह्नुराचार्यतनया रजेः / तानि पुत्रशतान्यस्य तच्च स्थानं शचीपतेः
罗阇(Raje)的师子们夺去了因陀罗的继承权;他那成百的儿子与那尊位,也就成了舍契之主(Śacīpati)的座位。
Verse 96
समाक्रामन्त बहुधा स्वर्गलोकं त्रिविष्टपम् / ततः काले बहुतिथे समतीते महाबलः
他们以种种方式进逼三十三天(Triviṣṭapa)之天界。其后岁月久远流逝,那位大力者。
Verse 97
हतराज्यो ऽब्रवीच्छक्रो हतभागो बृहस्पतिम् / बदरी फलमात्रं वै पुरोडाशं विधत्स्व मे
失去王权、福分尽失的释迦罗对布里哈斯帕提说:“请为我备办一份祭饼(puroḍāśa),只需如一枚枣果(badarī)之量。”
Verse 98
ब्रह्मर्षे येन तिष्ठेयं तेजसाप्यायितस्ततः / ब्रह्मन्कृशो ऽहं विमना त्दृतराज्यो हृतासनः
噢婆罗门仙(Brahmarṣi)!请示我凭何法得以由彼神辉(tejas)再度充盈而安立。噢婆罗门!我已羸弱、心神沮丧,国位被夺,座席亦被夺去。
Verse 99
हतौजा दुर्बलो युद्धे रजिपुत्रेः प्रसीद मे / बृहस्पतिरुवाच यद्येवं चोदितःशक्र त्वयास्यां पूर्वमेव हि
我已失却神辉,在战阵中羸弱;噢罗阇之子,请垂怜于我。布里哈斯帕提说道:“噢释迦罗,若你如此催请,那么早先便已……”
Verse 100
नाभविष्यत्त्वत्प्रियार्थमकर्त्तव्यं ममानघ / प्रयतिष्यामि देवेन्द्र त्वद्धितार्थं महाद्युते
噢无垢者!为你所爱之事,于我并无不可为之举。噢天帝(Devendra)、大光明者!我将为你的利益而竭力。
Verse 101
यज्ञभागं च राज्यं च अचिरात्प्रतिपत्स्यसे / तथा शक्र गमिष्यामि मा भूत्ते विक्लवं मनः
不久你将重得祭祀之分(yajñabhāga)与王权。噢释迦罗,我也将如此前往行事;愿你心中勿生动摇。
Verse 102
ततः कर्म चकारास्य तेजःसंवर्द्धनं महत् / तेषां च बुद्धिसंमोहमकरोद्बुद्धिसत्तमः
于是,那位智慧至上的尊者施行了增盛其神辉的伟大法业,并使他们的心智亦陷于迷乱。
Verse 103
ते यदा तु सुसंमूडा रागान्मत्तो विधर्मिणः / ब्रह्मद्विषश्च संबृत्ता हतवीर्यपराक्रमाः
当他们被贪爱所迷醉,极度昏乱,背离正法并憎恨梵(Brahman)之时,他们的精力与勇武便尽皆丧失。
Verse 104
ततो लेभे ऽसुरैश्वर्यमैन्द्रस्थानं तथोत्तमम् / हत्वा रजिसुतान्सर्वान्कामक्रोधपरायणान्
于是他获得了阿修罗的王权,也得到了因陀罗那至上的座位;因为他已诛灭了沉溺于欲与怒的罗吉诸子。
Verse 105
य इदं च्यवनं स्थानात्प्रतिष्ठां च शतक्रतोः / शृणुयाच्छ्रावयेद्वापि न स दौरात्म्यमाप्नुयात्
凡听闻或为人宣说此关于因陀罗(百祭主)失位与复归尊荣之事者,必不堕入恶心与邪行。
It recites the Amāvasu-related lineage stream beginning with Āyu’s descendants (including Nahuṣa and Kṣatravṛddha), then details Kṣatravṛddha → Sunahotra → (Kāśa, Śala, Gṛtsamada) and the Kāśī branch (Kāśipa → Dīrghatapas → Dhanva → Dhanvantari).
The verse frames lineage as a generator of diverse karmic functions: a single dynastic root can branch into multiple social-ritual roles, presenting varna not only as social classification but as genealogical and vocational diversification across time.
Sūta explains that Dhanvantari’s origin is cosmic: he manifested during the Samudra-manthana at the emergence of amṛta, born from a pot (kalaśa) and radiant with Śrī; his placement is then interpreted through yajña order and divine allotment in relation to Viṣṇu.