
Chapter 369 — शरीरावयवाः (The Limbs/Organs and Constituents of the Body)
火神阿耆尼开示:人体是有序的结构之域,既可供医理认识,亦可作灵性辨观。经中分别五知觉根(耳、皮肤、眼、舌、鼻)及其境(声、触、色、味、香),并列五作业根(肛门、生殖器、手、足、言语)及其作用。心意被说为统摄诸根、诸境与五大(mahābhūta),继而上升至数论式范畴:自我(Ātman)、未显(prakṛti)、二十四谛(tattva)与至上补卢沙(Puruṣa)——相依而不混,如鱼与水。又详述诸“阿舍耶”(āśaya,容受处)、诸道脉(srotas/śirā)与器官起源,并联系三多沙/诸德(doṣa/guṇa);提及影响受胎的生殖状况、莲华般之心为命我(jīva)之座,以及骨、关节、筋、肌与诸网结(jāla、kūrca)的数目。以“阿阇梨”(añjali)计量体液,终归于观修要旨:知此身乃垢秽(mala)与多沙之聚,当舍对身之认同,安住于自性之我。
Verse 1
इत्य् आग्नेये महापुराणे आत्यन्तिकलयगर्भोत्पत्तिनिरूपणं नामाष्टष्ट्यधिकत्रिशततमो ऽध्यायः अथोनसप्तत्यधिकत्रिशततमो ऽध्यायः शरीरावयवाः अग्निर् उवाच श्रोत्रं त्वक् चक्षुषी जिह्वा घ्राणं धीः खुञ्च भूतगं शब्दस्पर्शरूपरमगन्धाः खादिषु तद्गुणाः
如是,在《阿耆尼摩诃往世书》中,题为“于究竟劫坏中胎藏起源之阐明”的第三百六十八章告终。今起第三百六十九章,论“身体诸器官”。阿耆尼言:耳、皮肤、双目、舌、鼻与心/智,皆与诸大相系;其所缘之境与德相,依次为声、触、色、味、香,于相应的感官领域中显现。
Verse 2
पायूपस्थौ करौ पादौ वाग्भवेत् कर्मखुन्तथा उत्सर्गानन्दकादानगतिवागादि कर्म तत्
肛门与生殖器、双手、双足以及言语,被称为行动之根(karmendriya)。其各自作用为:排泄、性乐、执取/受取、行走迁移与发言等。
Verse 3
पञ्चकर्मेन्द्रियान्यत्र पञ्चबुद्धीन्द्रियाणि च इन्द्रियार्थाश् च पञ्चैव महाभूता मनो ऽधिपाः
此处有五种作业根,亦有五种知觉根;又有五种境(感官对象),并且确有五大元素——于这一切之上,心为主宰。
Verse 4
आत्माव्यक्तश् चतुर्विंशतत्त्वानि पुरुषः परः संयुक्तश् च वियुक्तश् च यथा मत्स्योदके उभे
自我与未显(Prakṛti,原质)、二十四谛(tattva)以及至上之人(Puruṣa),被说为既相合又相离——如鱼与水,同处而仍有别。
Verse 5
अव्यक्तमास्रितानीह रजःसत्त्वतमांसि च आन्तरः पुरुषो जीवः स परं ब्रह्म कारणं
在此,三德(guṇa)——罗阇斯、萨埵、怛摩——依止于未显(Prakṛti)。内在之人、个体灵魂(jīva),即是至上梵,为因之本源。
Verse 6
स याति परमं स्थानं यो वेत्ति पुरुषं परं सप्ताशयाः स्मृता देहे रुधिरस्यैक आशयः
凡知至上之人者,得至无上住处。于身中说有七种“容器”(āśaya);其中之一为血之容器。
Verse 7
श्लेष्मणश्चामपित्ताभ्यां पक्वाशयस्तु पञ्चमः वायुमूत्राशयः सप्तः स्त्रीणां गर्भाशयो ऽष्टमः
Pakvāśaya(大肠)为第五容器,与痰(kapha)及生痰之胆(āma-pitta)相关。Vāyu-āśaya与Mūtra-āśaya(膀胱)合计为第七;而于女性,Garbhāśaya(子宫)为第八。
Verse 8
पित्तात्पक्वाशयो ऽग्नेः स्याद्योनिर्विकशिता द्युतौ पद्मवद्गर्भाशयः स्यात्तत्र घत्ते सरक्तकं
噢,阿耆尼(Agni)!当毕多(pitta)偏盛时,大肠如被“煮熟”般过热而发炎;阴道(yoni)异常张开而有光泽,子宫(garbhāśaya)被形容如莲花;在此状态下,会有夹杂血液的分泌物流出。
Verse 9
शुक्रं स्वशुक्रतश्चाङ्गं कुन्तलान्यत्र कालतः न्यस्तं शुक्रमतो योनौ नेति गर्भाशयं मुने
噢,牟尼(圣者)!精液连同自身的精髓、身体的部分,乃至毛发,按其时而置入彼处;此精液进入阴道(yoni)后,并不(立刻)到达子宫(garbhāśaya)。
Verse 10
ऋतावपि च योनिश्चेद्वातपित्तकफावृता भवेत्तदा विकाशित्वं नैव तस्यां प्रजायते
即便在受孕期(ṛtu),若阴道(yoni)为风(vāta)、胆(pitta)与痰(kapha)三者所覆蔽或阻塞,则不能如法开张;因此,她便不能受孕。
Verse 11
बुक्कात्पुक्कसकप्लीहकृतकोष्ठाङ्गहृद्व्रणाः तण्डकश् च महाभाग निबद्धान्याशये मतः
噢,大福德者!膀胱、直肠、脾、肝、腹腔诸脏(koṣṭha)、四肢与心之疮疡(创伤),以及名为“檀陀迦”(taṇḍaka)之病,皆被认为是寄居于阿舍耶(āśaya,内在容器/脏腑所居)之患。
Verse 12
रसस्य पच्यमानस्य साराद्भवति देहिनां प्लीहा यकृच्च धर्मज्ञ रक्तफेणाच्च पुक्कसः
噢,知法者!在具身众生之中,当“味液”(rasa)正被“烹炼”(代谢转化)之时,由其精华(sāra)生起脾与肝;而由血之泡沫/秽浊则生起“普迦迦萨”(pukkasa)。
Verse 13
रक्तं पित्तञ्च भवति तथा तण्डकसंज्ञकः मेदोरक्तप्रसाराच्च वुक्कायाः सम्भवः स्मृतः
它成为血与胆汁(pitta,热性胆液)之疾,名为“Taṇḍaka”。又说“Vukkā”由于脂与血的败坏外溢、扩散而生。
Verse 14
रक्तमांसप्रसाराच्च भवन्त्यन्त्राणि देहिनां सार्धत्रिव्यामसंख्यानि तानि नॄणां विनिर्दिशेत्
由血与肉的扩展而生诸有身者之肠(内在管状器官)。其尺度说为三“vyāma”半;因此应当就人类而作明确说明。
Verse 15
त्रिव्यामानि तथा स्त्रीणां प्राहुर्वेदविदो जनः रक्तवायुसमायोगात् कामेयस्योद्भवः स्मृतः
通晓吠陀者宣说:女子具三“vyāma”(三种尺度/状况)。又教示:欲爱(kāma)由血与生命之风(vāyu)相合而生。
Verse 16
कफप्रसाराद्भवति हृदयं पद्मसन्निभं अधोमुखं तच्छूषिरं यत्र जीवो व्यवस्थितः
由痰湿(kapha)的扩散,心脏如莲华,向下而垂;其内中空——个体生命原理 jīva 即安住于彼。
Verse 17
चैतन्यानुगता भावःसर्वे तत्र व्यवस्थिताः तस्य वामे तथा प्लीहा दक्षिणे च तथा यकृत्
一切随从觉知而起的诸功能状态(bhāva)皆安立于彼;其左为脾,其右亦为肝。
Verse 18
दक्षिणे च तथा क्लोम पद्मस्यैवं प्रकीर्तितं श्रोतांसि यानि देहे ऽस्मिन् कफरक्तवहानि च
在右侧同样有“克洛摩”(kloma);如此便宣说了“莲华”(padma,莲花般的心)。并且在此身中,也宣示了输运痰质(kapha)与血液的诸“脉道”(srotas)。
Verse 19
तेषां भूतानुमानाच्च भवतीन्द्रियसम्भवः नेत्रयोर्मण्डलं शुक्लं कफाद्भवति पैतृकं
由推知这些体成分源自诸大( bhūta ),便可明了诸根(indriya,感官)的起源。于眼中,白色的圆域(巩膜)由痰质(kapha)所生,并属父系之分。
Verse 20
कृष्णञ्च मण्डलं वातात्तथा मवति मातृकं पित्तात्त्वङ्मण्डलं ज्ञेयं मातापितृसमुद्भवं
黑色的圆域当知由风(vāta)而生;同样,属母系的影响之相亦随之显现。由火胆(pitta)则当知有皮肤之圆相,为父母二缘所生。
Verse 21
मांसासृक्कफजा जिह्वा मेदो ऽसृक्कफमांसजौ वृषाणौ दश प्राणस्य ज्ञेयान्यायतनानि तु
舌由肉、血与痰质(kapha)所成;脂( medas )由血、痰质与肉所成;两睾( vṛṣaṇa )由脂、血、痰质与肉所成。此等当知为普拉那(prāṇa,生命气息)之十处依止之一。
Verse 22
मूर्धा हृन्नाभिकण्ठाश् च जिह्वा शुक्रञ्च शोणितं गुदं वस्तिश् च गुल्फञ्च कण्डुराः शोडशेरिताः
头、心区、脐与喉;舌;精液与血;肛门;膀胱;以及踝部——这些被宣说为瘙痒之十六处(部位/显现)。
Verse 23
द्वे करे द्वे च चरणे चतस्रः पृष्ठतो गले देहे पादादिशीर्षान्ते जालानि चैव षोडश
两处“jāla”在双手,两处在双足;四处在背部与咽喉。由此可知,人体自足端至头顶之终,确有十六处“jāla”(网络/丛)。
Verse 24
मांसस्नायुशिरास्थिन्यः चत्वारश् च पृथक् पृथक् मणिबन्धनगुल्फेषु निबद्धानि परस्परं
肌肉、snāyu(韧带/肌腱)、sīrā(脉管/那底、静脉)与骨——此四者各自有别——在腕关节与踝关节处彼此系结相连。
Verse 25
षट्कूर्चानि स्मृतानीह हस्तयोः पादयोः पृथक् ग्रीवायाञ्च तथा मेढ्रे कथितानि मनीषिभिः
于此处,六个“kūrca”要点被承认为:分别在双手与双足,并且也在颈部与阴茎处——诸贤者如是宣说。
Verse 26
पृष्ठवंशस्योपगताश् चतस्रो मांसरज्जवः नवत्यश् च तथा पेश्यस्तासां बन्धनकारिकाः
与脊柱相连者有四条肌肉之索;又有九十条“peśī”(腱性或肌性之带),作为这些结构的系缚与固定之用。
Verse 27
सीरण्यश् च तथा सप्त पञ्च मूर्धानमाश्रिताः एकैका मेढ्रजिह्वास्ता अस्थि षष्टिशतत्रयं
又有七组“sīraṇya”,并有五者依止于头部。各各皆为单一;舌与阴茎亦如是计入。骨之数为三百六十。
Verse 28
सूक्ष्मैः सह चतुःषष्ठिर्दशना विंशतिर्नखाः पाणिपादशलाकाश् च तासां स्थानचतुष्टयं
连同极微细者在内,牙齿共六十四;指(趾)甲二十;又有手足之指趾,如杖状之节——此等皆分布于四处(四组)。
Verse 29
षष्ट्यङ्गुलीनां द्वे पार्ष्ण्योर्गुल्फेषु च चतुष्टयं चत्वार्यरत्न्योरस्थीनि जङ्घयोस्तद्वदेव तु
指(趾)节之骨为六十;足跟二;踝部四;前臂之骨四;小腿亦复如是。
Verse 30
द्वे द्वे जानुकपोलोरुफलकांशसमुद्भवं अक्षस्थानांशकश्रोणिफलके चैवमादिशेत्
亦当如是规定:各处皆以二计——生于膝部、颊部与股板(股骨区);又于轴状关节之处及骨盆板(髋部)之分亦各二。
Verse 31
भगास्तोकं तथा पृष्ठे चत्वारिंशच्च पञ्च च ग्रीवायाञ्च तथास्थीनि जत्रुकञ्च तथा हमुः
于骨盆下部(bhaga)骨数甚少;背部有四十五;颈部亦有诸骨;锁骨(jatrukā)与颌骨(hanu)亦复如是。
Verse 32
तन्मूलं द्वेललाटाक्षिगण्डनासाङ्घ्य्रवस्थिताः पर्शुकास्तालुकैः सार्धमर्वुदैश् च द्विसप्ततिः
自其根本起,有二类:分布于额、眼、颊、鼻与足。肋骨并与上腭及腺性肿块(arbuda)合计,据说为七十二。
Verse 33
द्वेशङ्खके कपालानि चत्वार्येव शिरस् तथा उरः सप्तदशास्थीनि सन्धीनां द्वे शते दश
在头骨两侧的太阳穴处有四块颅骨板;头部亦复如是。胸中有十七块骨;诸关节合计二百一十处。
Verse 34
अष्टषष्टिस्तु शाखासु षष्टिश् चैकविवर्जिता अन्तरा वै त्र्यशीतिश् च स्नायोर् नवशतानि च
在四肢(śākhā)中有六十八块骨;在躯干中有六十块(除去一块)。在诸中间部位有八十三;而筋腱(snāyu)共九百。
Verse 35
त्रिंशाधिके द्वे शते तु अन्तराधौ तु सप्ततिः ऊर्ध्वगाः षट्शतान्येव शाखास्तु कथितानि तु
在总数为二百三十的一组中,于中间的计数内有七十;而在更高的列举中,诸“支分/枝”(śākhā)被说为恰为六百。
Verse 36
पञ्चपेशीशतान्येव चत्वारिंशत्तथोर्ध्वगाः चतुःशतन्तु शाखासु अन्तराधौ च षष्टिका
肌肉(peśī)实有五百,且上部另有四十。其间四百在四肢(śākhā),六十在中部/躯干(antarādhi)。
Verse 37
स्त्रीणाम् चैकाधिका वै स्याद्विंशतिश् चतुरुत्तरा स्तनयोर्दश योनौ च त्रयोदश तथाशये
于女性,此数确多一,为二十四。两乳之中有十(脉道/结构);于阴道(yoni)有十三;于受胎之所——子宫/胞宫——亦复如是。
Verse 38
गर्भस्य च चतस्रः स्युः शिराणाञ्च शरीरिणां त्रिंशच्छतसहस्राणि तथान्यानि नवैव तु
据说在胚胎中有四条主要的脉道(śirāḥ)。在具身众生之中,脉道(śirāḥ)共有三十万,此外另有九条。
Verse 39
षट्पञ्चाशत्सहस्राणि रसन्देहे वहन्ति ताः केदार इव कुल्याश् च क्लेदलेपादिकञ्च यत्
五万六千条(脉道)在体内输送rasa(滋养之液)。如同田地里的灌溉沟渠,它们将湿润、涂覆与相关的滋养作用遍布全身。
Verse 40
द्वासप्ततिस् तथा कोट्यो व्योम्नामिह महामुने मज्जाया मेदसश् चैव वसायाश् च तथा द्विज
并且在此,噢大牟尼,有七十二俱胝的“vyoman”(如天之空隙)。同样地,噢二生者,也有七十二俱胝的骨髓、脂肪,以及vasa(凝脂/牛羊脂)。
Verse 41
मूत्रस्य चैव पित्तस्य श्लेष्मणः शकृतस् तथा पञ्चपेशीशतान्यत्रेति ख , ञ च रक्तस्य सरसस्यात्र क्रमशो ऽञ्जलयो मताः
在此,诸量(以añjali,即合掌一掬为度)被认为依次属于尿、胆汁(pitta)、痰(śleṣman)与粪。并且在此语境中,某些传本读法(kha、ña)亦说肌肉数为五百。同样,血与rasa(循环的滋养液)的量也在此按次第以若干añjali给出。
Verse 42
अर्धार्धाभ्यधिकाः सर्वाः पूर्वपूर्वाञ्जलेर्मताः अर्धाञ्जलिश् च शुक्रस्य तदर्धञ्च ततौजसः
一切先前所述的度量,都被理解为每一项都比前一项多出一又二分之一。精液(śukra)的量说为半个añjali,而ojas的量为其一半(即四分之一个añjali)。
Verse 43
रजसस्तु तथा स्त्रीणाञ्चतस्रः कथिता बुधैः शरीरं मलदोषादि पिण्डं ज्ञात्वात्मनि त्यजेत्
同样,智者也说女子月经之流有四种状态。了知此身不过是聚合之团——由不净与诸多ṣa(体液失衡之过患)等构成——当于自我(我性)中舍离对身体的认同。
A śāstric, metric anatomy: enumerations of indriyas and their objects, āśayas (including garbhāśaya), networks (jāla, kūrca), and quantitative counts such as 360 bones and 210 joints, plus channel totals (e.g., śirā and rasa-vāhinī srotas) and fluid measures in añjali.
By coupling embodied science with tattva-vicāra: after mapping senses, guṇas, and the tattvas up to Puruṣa/Brahman, it frames the body as a doṣa-mala aggregate and directs the seeker to relinquish identification with it, strengthening viveka (discernment) central to yoga and Brahma-vidyā.