इ॒मं मा हि॑ᳪसी॒रेक॑शफं प॒शुं क॑निक्र॒दं वा॒जिनं॒ वाजि॑नेषु । गौ॒रमा॑र॒ण्यमनु॑ ते दिशामि॒ तेन॑ चिन्वा॒नस्त॒न्वो नि षी॑द । गौ॒रं ते॒ शुगृ॑च्छतु॒ यं द्वि॒ष्मस्तं ते॒ शुगृ॑च्छतु
imáṁ mā́ hiṁsī́r ékaśaphaṁ pa̱śúṁ kanikra̱dáṁ vā̱jínaṁ vā̱jíneṣu | gau̱rám āra̱ṇyám ánu te diśāmi téna cinvā̱nas ta̱nvò ní ṣīda | gau̱ráṁ te śúg gṛcchatu yáṁ dvi̱ṣmás táṁ te śúg gṛcchatu ||
Injure thou not this single-hoofed victim, the neighing racer, victorious among the strong. The wild gaura of the forest I assign unto thee: with it, as we build thee, sit down within our body. Let the gaura bear away thy hurtful heat; whom we hate, on him let thy hurtful heat fall.
इ॒मम् । मा । हि॒ᳪसीः । एक॑शफम् । प॒शुम् । क॒नि॒क्र॒दम् । वा॒जिन॑म् । वाजि॑नेषु । गौ॒रम् । आ॒र॒ण्यम् । अनु॑ । ते॒ । दि॒शा॒मि॒ । तेन॑ । चि॒न्वा॒नः । त॒न्वः॑ । नि । षी॑द । गौ॒रम् । ते॒ । शुक् । गृ॒च्छ॒तु॒ । यम् । द्वि॒ष्मः । तम् । ते॒ । शुक् । गृ॒च्छ॒तु॒