इ॒मं मा हि॑ᳪसीर्द्वि॒पादं॑ प॒शुᳪ स॑हस्रा॒क्षो मेधा॑य ची॒यमा॑नः । म॒युं प॒शुं मेध॑मग्ने जुषस्व॒ तेन॑ चिन्वा॒नस्त॒न्वो नि षी॑द । म॒युं ते॒ शुगृ॑च्छतु॒ यं द्वि॒ष्मस्तं ते॒ शुगृ॑च्छतु
imáṁ mā́ hiṁsīr dvi̱pādáṁ pa̱śúṁ sahasrā̱kṣo médhāya cī̱yámānaḥ | ma̱yúṁ pa̱śúṁ médham agne juṣasva téna cinvā̱nas ta̱nvò ní ṣīda | ma̱yúṁ te śúg gṛcchatu yáṁ dvi̱ṣmás táṁ te śúg gṛcchatu ||
Injure thou not this two-footed victim, whilst thou art being built for sacred power, O thousand-eyed! Accept, O Agni, the mayu-beast, meet for sacrifice; with it, as we build thee, sit down within our body. Let the mayu bear away thy hurtful heat; whom we hate, on him let thy hurtful heat fall.
इ॒मम् । मा । हि॒ᳪसीः । द्वि॒पाद॑म् । प॒शुम् । स॒ह॒स्र॒अ॒क्षः । मेधा॑य । ची॒यमा॑नः । म॒युम् । प॒शुम् । मेध॑म् । अ॒ग्ने॒ । जु॒ष॒स्व॒ । तेन॑ । चि॒न्वा॒नः । त॒न्वः॑ । नि । षी॑द । म॒युम् । ते॒ । शुक् । गृ॒च्छ॒तु॒ । यम् । द्वि॒ष्मः । तम् । ते॒ । शुक् । गृ॒च्छ॒तु॒