चि॒त्रं दे॒वाना॒मुदगा॒दनी॑कं॒ चक्षु॑र्मि॒त्रस्य॒ वरु॑णस्या॒ग्नेः । आप्रा॒ द्यावा॑पृथि॒वी अ॒न्तरि॑क्ष॒j सूर्य॑ आ॒त्मा जग॑तस्त॒स्थुष॑श्च॒ स्वाहा॑
citrám devā́nām úd agād ánīkaṃ cákṣur mitrásya váruṇasyāgnéḥ | ā́prā dyā́vā-pṛthivī́ antárikṣaṃ sū́rya ā́tmā jágatas tásthuṣaś ca svā́hā ||
พระพักตร์อันน่าอัศจรรย์ของเหล่าเทวะได้ผุดขึ้นสูง—เป็นดวงตาของมิตระ (Mitra), วรุณะ (Varuṇa) และอัคนี (Agni). พระองค์ทรงเติมเต็มฟ้า แผ่นดิน และอากาศระหว่างกลาง; สุริยะ (Sūrya) คืออาตมัน (Ātman) แห่งสิ่งที่เคลื่อนไหวและสิ่งที่ตั้งมั่น—สวาหา (Svāhā)!
चित्रम् । देवानाम् । उत्-अगात् । अनीकम् । चक्षुः । मित्रस्य । वरुणस्य । अग्नेः । आ । अप्राः । द्यावापृथिवी इति । अन्तरिक्षम् । सूर्यः । आत्मा । जगतः । तस्थुषः । च । स्वाहा ।