यदा॑पि॒पेष॑ मा॒तरं॑ पु॒त्रः प्रमु॑दितो॒ धय॑न् । ए॒तत्तद॑ग्ने अनृ॒णो भ॑वा॒म्यह॑तौ पि॒तरौ॒ मया॑ । स॒म्पृच॑ स्थ॒ सं मा॑ भ॒द्रेण॑ पृङ्क्त वि॒पृच॑ स्थ॒ वि मा॑ पा॒प्मना॑ पृङ्क्त
yádā́pipéṣa mātáraṃ putráḥ pramúdito dháyan | etát tád agne anṛṇó bhavāmy áhatāu pitaráu máyā | sampṛ́ca stha sáṃ mā bhadréṇa pṛṅkta vipṛ́ca stha ví mā pāpmánā pṛṅkta
When the son, rejoicing, hath pressed his mother, sucking (her milk),—even so, O Agni, thereby I become debtless, my parents by me unharmed. Mix ye (me) with the good; with the good do ye unite me. Unmix ye (me) from evil; from evil do ye disjoin me.
यदा । अपिपेष । मातरम् । पुत्रः । प्रमुदितः । धयन् । एतत् । तत् । अग्ने । अनृणः । भवामि । अहतौ । पितरौ । मया । सम्पृचः । स्थ । सम् । मा । भद्रेण । पृङ्क्त । विपृचः । स्थ । वि । मा । पाप्मना । पृङ्क्त ।