नम॑: श॒ङ्गवे॑ च पशु॒पत॑ये च॒ नम॑ उ॒ग्राय॑ च भी॒माय॑ च॒ नमो॑ऽग्रेव॒धाय॑ च दूरेव॒धाय॑ च॒ नमो॑ ह॒न्त्रे च॒ हनी॑यसे च॒ नमो॑ वृ॒क्षेभ्यो॒ हरि॑केशेभ्यो॒ नम॑स्ता॒राय॑
námaḥ śaṅgáve ca paśupátaye ca náma ugrā́ya ca bhīmā́ya ca námo ’grevadhā́ya ca dūrevadhā́ya ca námo hantré ca hanī́yase ca námo vṛkṣébhyo hárikeśebhyo námas tārā́ya
ขอนอบน้อมแด่ผู้เกื้อกูล และแด่เจ้าแห่งสัตว์ทั้งหลาย (Paśupati) ขอนอบน้อมแด่ผู้ดุร้าย และแด่ผู้ครั่นคร้าม ขอนอบน้อมแด่ผู้สังหารในระยะใกล้ และแด่ผู้สังหารจากระยะไกล ขอนอบน้อมแด่ผู้ฟาดฟัน และแด่ผู้ฟาดฟันอันทำลายยิ่งกว่า ขอนอบน้อมแด่หมู่ไม้ทั้งหลาย ผู้มีเรือนผมสีเหลืองทอง ขอนอบน้อมแด่ตารา (Tārā)
नमः । शङ्गवे । च । पशुपतये । च । नमः । उग्राय । च । भीमाय । च । नमः । अग्रेवधाय । च । दूरेवधाय । च । नमः । हन्त्रे । च । हनीयसे । च । नमः । वृक्षेभ्यः । हरिकेशेभ्यः । नमः । ताराय