Sukta 1.164
द्वादशारं नहि तज्जराय वर्वर्ति चक्रं परि द्यामृतस्य । आ पुत्रा अग्ने मिथुनासो अत्र सप्त शतानि विंशतिश्च तस्थुः ॥
द्वाद॑शारं न॒हि तज्जरा॑य॒ वर्व॑र्ति च॒क्रं परि॒ द्यामृ॒तस्य॑ । आ पु॒त्रा अ॑ग्ने मिथु॒नासो॒ अत्र॑ स॒प्त श॒तानि॑ विंश॒तिश्च॑ तस्थुः ॥
dvādaśā́raṁ náhi tát járāya várvarti cákraṁ pári dyā́m ṛtásya | ā́ putrā́ agne mithunā́so átra saptá śatā́ni viṁśatíś ca tasthuḥ ||
กงล้อสิบสองซี่นั้น หาได้สึกกร่อนด้วยกาลชราไม่; มันหมุนเวียนรอบฟ้าแห่ง ṛta (ความจริงและระเบียบจักรวาล). ณ ที่นี้ โอ อัคนี บุตรผู้เป็นคู่ได้เข้าประจำที่—เจ็ดร้อยยี่สิบ ยืนเรียงตามระเบียบของตน.
द्वाद॑शऽअरम् । न॒हि । तत् । जरा॑य । वर्व॑र्ति । च॒क्रम् । परि॑ । द्याम् । ऋ॒तस्य॑ । आ । पु॒त्राः । अ॒ग्ने॒ । मि॒थु॒नासः॑ । अत्र॑ । स॒प्त । श॒तानि॑ । विं॒श॒तिः । च॒ । त॒स्थुः॒ ॥द्वादशअरम् । नहि । तत् । जराय । वर्वर्ति । चक्रम् । परि । द्याम् । ऋतस्य । आ । पुत्राः । अग्ने । मिथुनासः । अत्र । सप्त । शतानि । विंशतिः । च । तस्थुः ॥dvādaśa-aram | nahi | tat | jarāya | varvarti | cakram | pari | dyām | ṛtasya | ā | putrāḥ | agne | mithunāsaḥ | atra | sapta | śatāni | viṃśatiḥ | ca | tasthuḥ