Sukta 1.105
नव्यं तदुक्थ्यं हितं देवासः सुप्रवाचनम् । ऋतमर्षन्ति सिन्धवः सत्यं तातान सूर्यो वित्तं मे अस्य रोदसी ॥
नव्यं॒ तदु॒क्थ्यं॑ हि॒तं देवा॑सः सुप्रवाच॒नम् । ऋ॒तम॑र्षन्ति॒ सिन्ध॑वः स॒त्यं ता॑तान॒ सूर्यो॑ वि॒त्तं मे॑ अ॒स्य रो॑दसी ॥
návyaṁ tád ukthyàṁ hitáṁ devāsaḥ supravācánam | ṛtám arṣanti síndhavaḥ satyáṁ tātāna sū́ryo vittáṁ me asyá rodasī ||
โอ้เหล่าเทพทั้งหลาย ถ้อยคำสรรเสริญอันใหม่ (ukthya) นี้ ซึ่งวางไว้ถูกที่และกล่าวได้ไพเราะ—ขอให้ตั้งมั่นเถิด. สายน้ำทั้งหลายไหลไปตาม ṛta (ระเบียบจักรวาล); สุริยะกางขยาย satya (ความจริง). ขอฟ้าและแผ่นดินจงรู้และยืนยันการค้นพบนี้ในข้า.
नव्य॑म् । तत् । उ॒क्थ्य॑म् । हि॒तम् । देवा॑सः । सु॒ऽप्र॒वा॒च॒नम् । ऋ॒तम् । अ॒र्ष॒न्ति॒ सिन्ध॑वः । स॒त्यम् । त॒ता॒न॒ । सूर्यः॑ । वि॒त्तम् । मे॒ । अ॒स्य । रो॒द॒सी॒ इति॑ ॥नव्यम् । तत् । उक्थ्यम् । हितम् । देवासः । सुप्रवाचनम् । ऋतम् । अर्षन्ति सिन्धवः । सत्यम् । ततान । सूर्यः । वित्तम् । मे । अस्य । रोदसी इति ॥navyam | tat | ukthyam | hitam | devāsaḥ | su-pravācanam | ṛtam | arṣantisindhavaḥ | satyam | tatāna | sūryaḥ | vittam | me | asya | rodasī iti