भगवन्, शरीरमिदं मैथुनादेवोद्भूतं संविदपेतं निरय एव मूत्रद्वारेण निष्क्रान्तम्। अस्थिभिश्चितं मांसेनानुलिप्तं चर्मणावबद्धं विण्मूत्रवातपित्तकफमज्जामेदोवसाभिरन्यैश्च मलैर्बहुभिः परिपूर्णम्। एतादृशे शरीरे वर्तमानस्य, भगवन्, त्वं नो गतिरिति॥३॥
भगवन् । शरीरम् । इदम् । मैथुनात् । एव । उद्भूतम् । संवित्-अपेतम् । निरये । एव । मूत्र-द्वारेण । निष्क्रान्तम् । अस्थिभिः । चितम् । मांसेन । अनुलिप्तम् । चर्मणा । अवबद्धम् । विट्-मूत्र-वात-पित्त-कफ-मज्जा-मेदस्-वसाभिः । अन्यैः । च । मलैः । बहुभिः । परिपूर्णम् । एतादृशे । शरीरे । वर्तमानस्य । भगवन् । त्वम् । नः । गतिः । इति ॥३॥
bhagavan, śarīram idaṃ maithunād evodbhūtaṃ saṃvid-apetaṃ niraya eva mūtradvāreṇa niṣkrāntam | asthibhiś citaṃ māṃsenānuliptaṃ carmaṇāvabaddhaṃ viṇmūtravātapittakaphamajjāmedovasābhir anyaiś ca malair bahubhiḥ paripūrṇam | etādṛśe śarīre vartamānasya, bhagavan, tvaṃ no gatir iti ||3||
भगवन्, इदं शरीरं मैथुनादेवोत्पन्नं संविद्विहीनं, निरयादिव मूत्रमार्गेण निष्क्रान्तम्। अस्थिसंचितं मांसेनानुलिप्तं चर्मणावृतं, विण्मूत्रवातपित्तकफमज्जामेदोवसादिभिर्बहुभिर्मलैः परिपूर्णम्। एतादृशे शरीरे वर्तमानस्य, भगवन्, त्वमेव नो गतिः शरणं च॥३॥
Venerable sir, this body has arisen indeed from sexual union; it is devoid of consciousness; it has come forth through the urinary passage, as it were from a hell. It is piled up with bones, smeared with flesh, bound with skin, and filled with feces, urine, wind, bile, phlegm, marrow, fat, and grease, and with many other impurities. For one who abides in such a body, venerable sir, you are our refuge (goal/recourse).
Answers come straight from the texts, with the shlokas they draw on. Ask in your own words.
A free Google sign-in keeps your chat saved across web and the app.
Read Upanishads in the Vedapath app
Scan the QR code to open this directly in the app, with word-by-word meanings, Sanskrit recitation where available, and more.