मि॒त्रो न॒ एहि॒ सुमि॑त्रध॒ इन्द्र॑स्यो॒रुमा वि॑श॒ दक्षि॑णमु॒शन्नु॒शन्त॑ᳪ स्यो॒नः स्यो॒नम् । स्वान॒ भ्राजा॑ङ्घारे॒ बम्भा॑रे॒ हस्त॒ सुह॑स्त॒ कृशा॑नवे॒ते व॑: सोम॒क्रय॑णा॒स्तान्र॑क्षध्वं॒ मा वो॑ दभन्
mitró na éhi sumítradha índrasyoru mā víśa dákṣiṇam uśán uśántaṃ syónáḥ syónám | svānó bhrā́jāṅ ghāré bambhāré hásta suhástá kṛśā́nave | eté vaḥ somakráyaṇās tā́n rakṣadhvaṃ mā vo dabhán
मित्रो न एहि सुमित्रध इन्द्रस्योरुमा विश दक्षिणम्, उशन्नुशन्तं स्योनः स्योनम्। स्वान भ्राजाङ्घारे बम्भारे, हस्त सुहस्त कृशानवे—एते वः सोमक्रयणाः; तान् रक्षध्वं, मा वो दभन्।
मि॒त्रः । न॒ । ए॒हि॒ । सु-मि॑त्र-ध॒ । इन्द्र॑स्य । उ॒रु । मा । वि॑श । दक्षि॑णम् । उ॒शन् । उ॒शन्त॑म् । स्यो॒नः । स्यो॒नम् । स्वानः । भ्राजा॑न् । घारे॒ । बम्भा॑रे॒ । हस्त । सु-ह॑स्त । कृशा॑नवे । ए॒ते । वः । सोम॒-क्रय॑णाः । तान् । र॒क्ष॒ध्व॒म् । मा । वः । द॒भ॒न्