अ॒श्विभ्यां॑ पिन्वस्व॒ सर॑स्वत्यै पिन्व॒स्वेन्द्रा॑य पिन्वस्व । स्वाहेन्द्र॑वत् स्वाहेन्द्र॑वत् स्वाहेन्द्र॑वत् ।
aśvíbhyāṃ pinvasva sárasvatyai pinvasvéndrāya pinvasva | svāhéndravat svāhéndravat svāhéndravat |
अश्विभ्यां पिन्वस्व; सरस्वत्यै पिन्वस्व; इन्द्राय पिन्वस्व। स्वाहेन्द्रवत् स्वाहेन्द्रवत् स्वाहेन्द्रवत्।
अ॒श्विभ्याम् । पिन्वस्व । सर॑स्वत्यै । पिन्वस्व । इन्द्रा॑य । पिन्वस्व । स्वाहा । इन्द्र॑वत् । स्वाहा । इन्द्र॑वत् । स्वाहा । इन्द्र॑वत् ।