दे॒वो दे॒वै॒र्वन॒स्पति॒र्हिर॑ण्यपर्णो॒ मधु॑शाखः सुपिप्प॒लो दे॒वमिन्द्र॑मवर्धयत् । दिव॒मग्रे॑णास्पृक्ष॒दान्तरि॑क्षं पृथि॒वीम॑दृᳪहीद्वसु॒वने॑ वसु॒धेय॑स्य वेतु॒ यज॑
dēvó dēvaír vanaspátir híraṇyaparṇo mádhuśākhaḥ supippaló dēvám índram avardhayat | divám ágreṇāspṛkṣad ántárikṣaṃ pṛthivīm adṛṃhīd vasuváne vasudhḗyasya vetu yája
देवो देवैर्वनस्पतिर्हिरण्यपर्णो मधुशाखः सुपिप्पलो देवमिन्द्रमवर्धयत्। दिवमग्रेणास्पृक्षदान्तरिक्षं पृथिवीमदृᳪहीद्वसुवने वसुधेयस्य वेतु यज॥
दे॒वः । दे॒वैः । वन॒स्पतिः । हिर॑ण्य-पर्णः । मधु॑-शाखः । सु-पिप्प॒लः । दे॒वम् । इन्द्र॑म् । अ-वर्धयत् । दि॒वम् । अग्रे॑ण । अ-स्पृक्षत् । अन्तरि॑क्षम् । पृथि॒वीम् । अ-दृᳪहीत् । वसु॒-वने॑ । वसु॒-धेय॑स्य । वेतु॑ । यज॑