अ॒ग्निम॒द्य होता॑रमवृणीता॒यं यज॑मान॒: पच॒न् पक्ती॒: पच॑न् पुरो॒डाशा॑न् ब॒ध्नन्न॒श्विभ्यां॒ छाग॒ᳪ सर॑स्वत्यै मे॒षमिन्द्रा॑य ऋष॒भᳪ सु॒न्वन्न॒श्विभ्या॒ᳪ सर॑स्वत्या॒ इन्द्रा॑य सु॒त्राम्णे॑ सुरासो॒मान्
agním adyá hotā́ram avṛṇīta̱yáṁ yájamānaḥ pácan paktī́ḥ pácan puroḍā́śān bádhnan aśvíbhyā̱ṁ chāgá̱ṁ sárasvatyai méṣam índrāya ṛṣabhá̱ṁ súnvan aśvíbhyā̱ṁ sárasvatyā índrāya sutrā́mṇe surāsomā́n
अग्निमद्य होतारमवृणीता॒यं यजमानः—पचन् पक्तीः पचन् पुरोडाशान्; बध्नन्नश्विभ्यां छागं सरस्वत्यै मेषमिन्द्राय ऋषभम्; सुन्वन्नश्विभ्यां सरस्वत्या इन्द्राय सुत्राम्णे सुरासोमान्।
अ॒ग्निम् । अ॒द्य । होता॑रम् । अ॒वृ॒णी॒त । अ॒यम् । यज॑मानः । पच॑न् । पक्तीः॑ । पच॑न् । पुरो॒डाशा॑न् । ब॒ध्नन् । अ॒श्विभ्या॑म् । छाग॑म् । सर॑स्वत्यै । मे॒षम् । इन्द्रा॑य । ऋष॒भम् । सु॒न्वन् । अ॒श्विभ्या॑म् । सर॑स्वत्या । इन्द्रा॑य । सु॒त्राम्णे॑ । सु॒रा-सो॒मान्