मा त॑ इन्द्र ते व॒यं तु॑राषा॒डयु॑क्तासो अब्र॒ह्मता॒ विद॑साम । तिष्ठा॒ रथ॒मधि॒ यं व॑ज्रह॒स्ता र॒श्मीन् दे॑व युवसे॒ स्वश्वा॑न्
mā́ ta indra te vayáṃ turāṣā́ḍ ayúktāso abrahmatā́ vídasāma | tíṣṭhā rátham ádhi yáṃ vajrahástā raśmī́n deva yuvase sváśvān
मा ते, इन्द्र, वयं तुराषाड् अयुक्तासोऽब्राह्मता विदसाम। तिष्ठ रथम् अधि यं वज्रहस्ता देव युवसे; रश्मीन् युवसे स्वश्वान्।
मा । ते॒ । इ॒न्द्र॒ । ते॒ । व॒यम् । तु॒रा॒षाट् । अ॒यु॒क्ता॒सः । अ॒-ब्र॒ह्मता॑ । विद॑साम । ति॒ष्ठ॒ । रथ॑म् । अधि॑ । यम् । व॒ज्र॒-ह॒स्ता । र॒श्मीन् । दे॒व॒ । यु॒व॒से॒ । सु॒-अश्वा॑न्