प्रत्यु॑ष्ट॒ᳪ रक्ष॒: प्रत्यु॑ष्टा॒ अरा॑तयो निष्ट॑प्त॒ᳪ रक्षो॒ निष्ट॑प्ता॒ अरा॑तयः । अनि॑शितोऽसि सपत्न॒क्षिद्वा॒जिनं॑ त्वा वाजे॒ध्यायै॒ सम्मा॑र्ज्मि । प्रत्यु॑ष्ट॒ᳪ रक्ष॒: प्रत्यु॑ष्टा॒ अरा॑तयो॒ निष्ट॑प्त॒ᳪ रक्षो॒ निष्ट॑प्ता॒ अरा॑तयः । अनि॑शिताऽसि सपत्न॒क्षिद्वा॒जिनीं॑ त्वा वाजे॒ध्यायै॒ सम्मा॑र्ज्मि
pratyū́ṣṭaṃ rakṣaḥ pratyū́ṣṭā arā́tayo niṣṭáptaṃ rakṣo niṣṭáptā arā́tayaḥ | aníśito ’si sapatna-kṣíd vājínaṃ tvā vājédhyāyai sammā́rjmi | pratyū́ṣṭaṃ rakṣaḥ pratyū́ṣṭā arā́tayo niṣṭáptaṃ rakṣo niṣṭáptā arā́tayaḥ | aníśitā ’si sapatna-kṣíd vājínīṃ tvā vājédhyāyai sammā́rjmi
प्रत्युष्टं रक्षः; प्रत्युष्टा अरातयः। निष्टप्तं रक्षः; निष्टप्ता अरातयः। अनिशितोऽसि सपत्नक्षिद्; वाजिनं त्वा वाजेध्याय सम्मार्ज्मि। प्रत्युष्टं रक्षः; प्रत्युष्टा अरातयः। निष्टप्तं रक्षः; निष्टप्ता अरातयः। अनिशिताऽसि सपत्नक्षिद्; वाजिनीं त्वा वाजेध्याय सम्मार्ज्मि।
प्रति-उष्टम् । रक्षः । प्रति-उष्टाः । अरा॒तयः । नि-तप्तम् । रक्षः । नि-तप्ताः । अरा॒तयः । अ-नि॒शितः । अ॒सि । स॒प॒त्न-क्षि॑त् । वा॒जिनम् । त्वा । वा॒जे॒ध्या॒यै । सम्-मा॒र्ज्मि । प्रति-उष्टम् । रक्षः । प्रति-उष्टाः । अरा॒तयः । नि-तप्तम् । रक्षः । नि-तप्ताः । अरा॒तयः । अ-नि॒शिता । अ॒सि । स॒प॒त्न-क्षि॑त् । वा॒जिनीम् । त्वा । वा॒जे॒ध्या॒यै । सम्-मा॒र्ज्मि