Sukta 10.54
त्वं विश्वा दधिषे केवलानि यान्याविर्या च गुहा वसूनि । काममिन्मे मघवन्मा वि तारीस्त्वमाज्ञाता त्वमिन्द्रासि दाता ॥
tváṃ víśvā dadhiṣe kévalāni yā́ny āvír yā́ ca gúhā vásūni | kā́mam ín me maghavan mā́ ví tā́rīs tvám ājñātā́ tvám indrāsi dātā́ ||
त्वं विश्वा दधिषे केवलानि—यानि आविर्वा गुहा वसूनि। काममिन् मे मघवन् मा वि तारीः; त्वम् आज्ञाता, त्वम् इन्द्रासि दाता।