ययातिना पूरौ राज्याभिषेकः, दिक्प्रदानं, तृष्णा-वैराग्योपदेशः, वनप्रवेशः च
पुत्रसंक्रामितश्रीस्तु हर्षनिर्भरमानसः प्रीतिमानभवद्राजा भारम् आवेश्य बन्धुषु
putrasaṃkrāmitaśrīstu harṣanirbharamānasaḥ prītimānabhavadrājā bhāram āveśya bandhuṣu
पुत्रे राज्यश्रियं संक्राम्य राजा हर्षनिर्भरमानसः शान्तचित्तः प्रीतिमान् अभवत्, बन्धुषु च राज्यभारं न्यस्य निश्चिन्तो बभूव।
Suta Goswami (narrating the Purana to the sages of Naimisharanya; contextual)