Lokakalpanā / The Ordering of the Worlds
Cosmogony and Earth’s Retrieval
वक्त्राद्यस्य ब्राह्मणाः संप्रसूता वक्षसश्चैव क्षत्रियाः पूर्वभागे / वैश्या ऊरुभ्यां यस्य पद्भ्यां च शूद्राःसर्वेवर्णा गात्रतः संप्रसूताः
vaktrādyasya brāhmaṇāḥ saṃprasūtā vakṣasaścaiva kṣatriyāḥ pūrvabhāge / vaiśyā ūrubhyāṃ yasya padbhyāṃ ca śūdrāḥsarvevarṇā gātrataḥ saṃprasūtāḥ
यस्य वक्त्रात् ब्राह्मणाः संप्रसूताः, वक्षसः पूर्वभागे क्षत्रियाश्च; ऊरुभ्यां वैश्याः, पद्भ्यां शूद्राः—सर्वे वर्णा गात्रतः संप्रसूताः।