Lokakalpanā / The Ordering of the Worlds
Cosmogony and Earth’s Retrieval
मूर्द्धानं वै यस्य वेदा वदन्ति वियन्नाभिश्चन्द्रसूर्यौं च नेत्रे / दिशः श्रोत्रे विद्धि पादौ क्षितिं च सो ऽचिन्त्यात्मा सर्वभूतप्रणेता
mūrddhānaṃ vai yasya vedā vadanti viyannābhiścandrasūryauṃ ca netre / diśaḥ śrotre viddhi pādau kṣitiṃ ca so 'cintyātmā sarvabhūtapraṇetā
यस्य मूर्धानं वेदा वदन्ति, व्योम नाभिः, चन्द्रसूर्यौ नेत्रे, दिशः श्रोत्रे, क्षितिः पादौ—स अचिन्त्यात्मा सर्वभूतप्रणेता।