Āditya-vyūha-kīrtana
Praise/Account of the Solar Array and Celestial Motions
मुहूर्त्ता बन्धुरास्तस्य रम्याश्चास्य कलाः स्मृताः / तस्य काष्ठा स्मृता घोणा अक्षदण्डः क्षणस्तु वै
muhūrttā bandhurāstasya ramyāścāsya kalāḥ smṛtāḥ / tasya kāṣṭhā smṛtā ghoṇā akṣadaṇḍaḥ kṣaṇastu vai
तस्य मुहूर्ताः बन्धुराः, कलाश्च रम्याः स्मृताः। तस्य काष्ठा ‘घोणा’ इति, ‘अक्षदण्डः’ क्षण एव च स्मृतः॥