अग्निनिचयः (Agninichaya) / The Accumulation of Sacred Fire & the Classification of Pitṛs by Time-Order
सुत उवाच तदुपश्रुत्य दक्षस्तु रुद्रं सो ऽभ्य शपत्पुनः / यस्मात्त्वं मत्कृते ऽनिष्टमृषीणां कृतवानसि / तस्मात्सार्द्धं सुरैर्यज्ञे न त्वां यक्ष्यन्ति वै द्विजाः
suta uvāca tadupaśrutya dakṣastu rudraṃ so 'bhya śapatpunaḥ / yasmāttvaṃ matkṛte 'niṣṭamṛṣīṇāṃ kṛtavānasi / tasmātsārddhaṃ surairyajñe na tvāṃ yakṣyanti vai dvijāḥ
सुत उवाच—तदुपश्रुत्य दक्षस्तु रुद्रं सोऽभ्यशपत्पुनः। यस्मात्त्वं मत्कृतेऽनिष्टमृषीणां कृतवानसि। तस्मात्सार्द्धं सुरैर्यज्ञे न त्वां यक्ष्यन्ति वै द्विजाः॥