
Book 2, Chapter 1 operationalizes the Vijigīṣu’s power by manufacturing a governable countryside: Kautilya treats the janapada not as a natural given but as a designed asset. Settlement is achieved by importing population from other lands and relieving demographic/agrarian pressure at home, then fixing village size, spacing, and mutual-protection obligations. Administrative geometry follows: clusters of villages are aggregated into graded nodes (saṃgraha, kārvaṭika, droṇamukha, sthānīya) to make revenue, justice, and logistics legible. Border gates and frontier forts under antapālas harden the perimeter, while forest and marginal groups are assigned interstitial security roles. Finally, the chapter binds artha to dharma through targeted grants: brahmadeya and immunities to ritual-educational elites and exemptions to key state-service professions, while cultivators receive prepared fields but lose rights if they do not cultivate. The result is a territory that yields surplus, recruits manpower, and resists penetration—core prerequisites for conquest.
Sutra 1
भूतपूर्वमभूतपूर्वं वा जनपदं परदेशापवाहनेन स्वदेशाभिष्यन्दवमनेन वा निवेशयेत् ॥ कZ_०२.०१.०१ ॥
भूतपूर्वम् अभूतपूर्वं वा जनपदं परदेशापवाहनेन स्वदेशाभिष्यन्दवमनेन वा निवेशयेत्।
Sutra 2
शूद्रकर्षकप्रायं कुलशतावरं पञ्चकुलशतपरं ग्रामं क्रोशद्विक्रोशसीमानमन्योन्यारक्षं निवेशयेत् ॥ कZ_०२.०१.०२ ॥
शूद्रकर्षकप्रायं कुलशतावरं पञ्चकुलशतपरं ग्रामं क्रोशद्विक्रोशसीमानम् अन्योन्यारक्षं निवेशयेत्।
Sutra 3
नलीशैलवनभृष्टिदरीसेतुबन्धशमीशाल्मलीक्षीरवृक्षानन्तेषु सीम्नां स्थापयेत् ॥ कZ_०२.०१.०३ ॥
नलीशैलवनभृष्टिदरीसेतुबन्धशमीशाल्मलीक्षीरवृक्षान् अन्तेषु सीम्नां स्थापयेत्।
Sutra 4
अष्टशतग्राम्या मध्ये स्थानीयं चतुह्शतग्राम्या द्रोणमुखम् द्विशतग्राम्याः कार्वटिकम् दशग्रामीसंग्रहेण संग्रहं स्थापयेत् ॥ कZ_०२.०१.०४ ॥
अष्टशतग्राम्याः मध्ये स्थानीयं चतुह्शतग्राम्याः द्रोणमुखं द्विशतग्राम्याः कार्वटिकं दशग्रामीसंग्रहेण संग्रहं स्थापयेत्।
Sutra 5
अन्तेष्वन्तपालदुर्गाणि जनपदद्वाराण्यन्तपालाधिष्ठितानि स्थापयेत् ॥ कZ_०२.०१.०५ ॥
अन्तेषु अन्तपालदुर्गाणि जनपदद्वाराणि अन्तपालाधिष्ठितानि स्थापयेत्।
Sutra 6
तेषामन्तराणि वागुरिकशबरपुलिन्दचण्डालारण्यचरा रक्षेयुः ॥ कZ_०२.०१.०६ ॥
तेषामन्तराणि वागुरिकशबरपुलिन्दचण्डालारण्यचरैः रक्षेयुः।
Sutra 7
अध्यक्षसंख्यायकादिभ्यो गोपस्थानिकानीकस्थचिकित्सकाश्वदमकजङ्घाकारिकेभ्यश्च विक्रयाधानवर्जानि ॥ कZ_०२.०१.०७ब् ॥
अध्यक्षसंख्यायकादिभ्यः गोपस्थानिकानीकस्थचिकित्सकाश्वदमकजङ्घाकारिकेभ्यश्च विक्रयाधानवर्जानि (क्षेत्राणि) प्रयच्छेत्।
Sutra 8
करदेभ्यः कृतक्षेत्राण्यैकपुरुषिकाणि प्रयच्छेत् ॥ कZ_०२.०१.०८ ॥
करदेभ्यः कृतक्षेत्राणि एकपुरुषिकाणि प्रयच्छेत्।
Sutra 9
निवेशसमकालं यथागतकं वा परिहारं दद्यात् ॥ कZ_०२.०१.१७ ॥
निवेशसमकालं यथागतकं वा परिहारं दद्यात्।
Sutra 10
निवृत्तपरिहारान्पितेवानुगृह्णीयात् ॥ कZ_०२.०१.१८ ॥
निवृत्तपरिहारान् पितेव अनुगृह्णीयात्।
Sutra 19
आकरकर्मान्तद्रव्यहस्तिवनव्रजवणिक्पथप्रचारान्वारिस्थलपथपण्यपत्तनानि च निवेशयेत् ॥ कZ_०२.०१.१९ ॥
आकरकर्मान्तद्रव्यहस्तिवनव्रजवणिक्पथप्रचारान्, वारिस्थलपथपण्यपत्तनानि च निवेशयेत्।
Sutra 20
सहोदकमाहार्योदकं वा सेतुं बन्धयेत् ॥ कZ_०२.०१.२० ॥
सहोदकम् आहार्योदकं वा सेतुं बन्धयेत्।
Sutra 21
अन्येषां वा बध्नतां भूमिमार्गवृक्षोपकरणानुग्रहं कुर्यात्पुण्यस्थानारामाणां च ॥ कZ_०२.०१.२१ ॥
अन्येषां वा बध्नतां भूमिमार्गवृक्षोपकरणानुग्रहं कुर्यात् पुण्यस्थानारामाणां च।
Sutra 22
सम्भूयसेतुबन्धादपक्रामतः कर्मकरबलीवर्दाः कर्म कुर्युः ॥ कZ_०२.०१.२२ ॥
सम्भूयसेतुबन्धाद् अपक्रामतः कर्मकरबलीवर्दाः कर्म कुर्युः।
Sutra 23
व्ययकर्मणि च भागी स्यात् न चांशं लभेत ॥ कZ_०२.०१.२३ ॥
व्ययकर्मणि च भागी स्यात् न च अंशं लभेत।
Sutra 24
मत्स्यप्लवहरितपण्यानां सेतुषु राजा स्वाम्यं गच्छेत् ॥ कZ_०२.०१.२४ ॥
मत्स्यप्लवहरितपण्यानां सेतुषु राजा स्वाम्यं गच्छेत्।
Sutra 25
दासाहितकबन्धूनशृण्वतो राजा विनयं ग्राहयेत् ॥ कZ_०२.०१.२५ ॥
दासाहितकबन्धूनां शिकायतान् अशृण्वतः पुरुषस्य विनयं राजा ग्राहयेत्।
Sutra 26
बालवृद्धव्यसन्यनाथांश्च राजा बिभृयात्स्त्रियमप्रजातां प्रजातायश्च पुत्रान् ॥ कZ_०२.०१.२६ ॥
राजा बालान् वृद्धान् व्यसनिनः अनाथांश्च बिभृयात्; अप्रजातां स्त्रियं प्रजातायाश्च स्त्रियाः पुत्रान् च पोषयेत्।
Sutra 27
बालद्रव्यं ग्रामवृद्धा वर्धयेयुरा व्यवहारप्रापणात्देवद्रव्यं च ॥ कZ_०२.०१.२७ ॥
ग्रामवृद्धाः बालद्रव्यं व्यवहारप्रापणात् वर्धयेयुः; देवद्रव्यं च तथा।
Sutra 28
अपत्यदारं मातापितरौ भ्रातृऋनप्राप्तव्यवहारान्भगिनीः कन्या विधवाश्चाबिभ्रतः शक्तिमतो द्वादशपणो दण्डः अन्यत्र पतितेभ्यः अन्यत्र मातुः ॥ कZ_०२.०१.२८ ॥
अपत्यदारं मातापितरौ भ्रातॄन् ऋणप्राप्तव्यवहारान् भगिनीः कन्याः विधवाश्च शक्तिमान् यो न बिभर्ति, तस्य द्वादशपणो दण्डः; पतितेभ्यः अन्यत्र, मातुः तु न।
Sutra 29
पुत्रदारमप्रतिविधाय प्रव्रजतः पूर्वः साहसदण्डः स्त्रियं च प्रव्राजयतः ॥ कZ_०२.०१.२९ ॥
पुत्रदारम् अप्रतिविधाय प्रव्रजतः पूर्वः साहसदण्डः; स्त्रियं च प्रव्राजयतः।
Sutra 30
लुप्तव्यायामः प्रव्रजेदापृच्छ्य धर्मस्थान् ॥ कZ_०२.०१.३० ॥
लुप्तव्यायामः स्वनियुक्तकर्मव्यवहारात् विमुक्तः सन् धर्मस्थान् आपृच्छ्य (अनुज्ञां गृहीत्वा) एव प्रव्रजेत।
Sutra 31
अन्यथा नियम्येत ॥ कZ_०२.०१.३१ ॥
अन्यथा स नियम्येत।
Sutra 32
वानप्रस्थादन्यः प्रव्रजितभावः सजातादन्यः संघः सामुत्थायिकादन्यः समयानुबन्धो वा नास्य जनपदमुपनिविशेत ॥ कZ_०२.०१.३२ ॥
वानप्रस्थादन्यः प्रव्रजितभावः, सजातादन्यः संघः, सामुत्थायिकादन्यः समयानुबन्धो वा—नास्य जनपदमुपनिविशेत।
Sutra 33
न च तत्रारामा विहारार्था वा शालाः स्युः ॥ कZ_०२.०१.३३ ॥
न च तत्रारामा विहारार्था वा शालाः स्युः।
Sutra 34
नटनर्तकगायनवादकवाग्जीवनकुशीलवा न कर्मविघ्नं कुर्युः ॥ कZ_०२.०१.३४ ॥
नटनर्तकगायनवादकवाग्जीवनकुशीलवा न कर्मविघ्नं कुर्युः।
Sutra 35
निराश्रयत्वाद्ग्रामाणां क्षेत्राभिरतत्वाच्च पुरुषाणां कोशविष्टिद्रव्यधान्यरसवृद्धिर्भवति ॥ कZ_०२.०१.३५ ॥
निराश्रयत्वात् ग्रामाणां क्षेत्राभिरतत्वाच्च पुरुषाणां कोशविष्टिद्रव्यधान्यरसवृद्धिर्भवति।
Sutra 36
देशं परिहरेद् राजा व्ययक्रीडाश्च वारयेत् ॥ कZ_०२.०१.३६च्द् ॥
देशं परिहरेद् राजा व्ययक्रीडाश्च वारयेत्।
Sutra 37
स्तेनव्यालविषग्राहैर्व्याधिभिश्च पशुव्रजान् ॥ कZ_०२.०१.३७च्द् ॥
स्तेनव्यालविषग्राहैर्व्याधिभिश्च पशुव्रजान्॥
Sutra 38
शोधयेत्पशुसंघैश्च क्षीयमाणं वणिक्पथम् ॥ कZ_०२.०१.३८च्द् ॥
क्षीयमाणं वणिक्पथं पशुसंघैश्च शोधयेत्।
Sutra 39
रक्षेत्पूर्वकृतान् राजा नवांश्चाभिप्रवर्तयेत् ॥ कZ_०२.०१.३९च्द् ॥
राजा पूर्वकृतान् रक्षेत्, नवान् चाभिप्रवर्तयेत्।
A stable, populated, and productive countryside: villages are sized for viability, spaced for mutual aid, bounded to reduce disputes, protected by frontier gates/forts, and incentivized through grants and material support—yielding food security, predictable revenue, and internal peace.
Non-cultivators lose entitlements: lands are made ‘āchidyānya’ (liable to be taken back/forfeited) for those who do not cultivate; additionally, the frontier architecture (antapāla durgas and janapada gates) implies coercive enforcement against threats and disorder.