नमो॑ विसृ॒जद्भ्यो॒ विध्य॑द्भ्यश्च वो॒ नमो॒ नम॑: स्व॒पद्भ्यो॒ जाग्र॑द्भ्यश्च वो॒ नमो॒ नम॒: शया॑नेभ्य॒ आसी॑नेभ्यश्च वो॒ नमो॒ नम॒स्तिष्ठ॑द्भ्यो॒ धाव॑द्भ्यश्च वो॒ नम॑:
námo visṛjádbhyo vídhyadbhyaś ca vo námo námaḥ svapádbhyo jā́gradbhyaś ca vo námo námaḥ śayānébhya āsī́nebhyaś ca vo námo námas tíṣṭhadbhyo dhā́vadbhyaś ca vo námaḥ
Поклон вам — выпускающим (стрелу) и пронзающим: вам поклон, поклон! Поклон, поклон вам — спящим и бодрствующим! Поклон, поклон вам — лежащим и сидящим! Поклон, поклон вам — стоящим и бегущим!
नमः । विसृजद्भ्यः । विध्यद्भ्यः । च । वः । नमः । नमः । स्वपद्भ्यः । जाग्रद्भ्यः । च । वः । नमः । नमः । शयानेभ्यः । आसीनेभ्यः । च । वः । नमः । नमः । तिष्ठद्भ्यः । धावद्भ्यः । च । वः । नमः ।