नम॑ उष्णी॒षिणे॑ गिरिच॒राय॑ कुलु॒ञ्चानां॒ पत॑ये॒ नमो॒ नम॑ इषु॒मद्भ्यो॑ धन्वा॒यिभ्य॑श्च वो॒ नमो॒ नम॑ आतन्वा॒नेभ्य॑: प्रति॒दधा॑नेभ्यश्च वो॒ नमो॒ नम॑ आ॒यच्छ॒द्भ्यो ऽस्य॑द्भ्यश्च वो॒ नम॑:
náma uṣṇīṣíṇe giricárāya kulūñcā́nāṃ pátaye námo náma iṣumádbhyo dhanvāyíbhyas ca vo námo náma ātanvānébhyaḥ pratidadhānébhyaś ca vo námo náma āyácchadbhyo ’syádbhyaś ca vo námaḥ
Поклонение увенчанному тюрбаном, странствующему по горам — Владыке кулуñча! Поклонение, поклонение вам, носящим стрелы и лучникам! Поклонение, поклонение вам, натягивающим (лук) и накладывающим (стрелу)! Поклонение, поклонение вам, натягивающим и пускающим (стрелу)!
नमः । उष्णीषिणे । गिरिचराय । कुलुञ्चानाम् । पतये । नमः । नमः । इषुमद्भ्यः । धन्वायिभ्यः । च । वः । नमः । नमः । आतन्वानेभ्यः । प्रतिदधानेभ्यः । च । वः । नमः । नमः । आयच्छद्भ्यः । अस्यद्भ्यः । च । वः । नमः ।