Prashna
यः पुनरेतं त्रिमात्रेणोमित्येतेनैवाक्षरेण परं पुरुषमभिध्यायीत स तेजसि सूर्ये सम्पन्नः । यथा पादोदरस्त्वचा विनिर्भुच्यत एवं ह वै स पाप्मना विनिर्भुक्तः स सामभिरुन्नीयते ब्रह्मलोकं स एतस्माज्जीवघनात् परात्परं पुरुशयं पुरुषमीक्षते । तदेतौ श्लोकौ भवतः ॥५॥
यः । पुनः । एतम् । त्रि-मात्रेण । ओम्-इति । एतेन । एव । अक्षरेण । परम् । पुरुषम् । अभिध्यायीत । सः । तेजसि । सूर्ये । सम्पन्नः । यथा । पाद-उदरः । त्वचा । विनिर्भुच्यते । एवम् । ह । वै । सः । पाप्मना । विनिर्भुक्तः । सः । सामभिः । उन्नीयते । ब्रह्म-लोकम् । सः । एतस्मात् । जीव-घनात् । परात्-परम् । पुरुशयम् । पुरुषम् । ईक्षते । तत् । एतौ । श्लोकौ । भवतः ॥५॥
yaḥ punar etaṃ trimātreṇom ity etenaivākṣareṇa paraṃ puruṣam abhidhyāyīta sa tejasi sūrye sampannaḥ | yathā pādodaras tvacā vinirbhucyata evaṃ ha vai sa pāpmanā vinirbhuktaḥ sa sāmabhir unnīyate brahmalokaṃ sa etasmāj jīvaghanāt parātparaṃ puruśayaṃ puruṣam īkṣate | tad etau ślokau bhavataḥ ||5||
Mas aquele que medita neste Oṃ com as três mātrās — na própria sílaba Oṃ — contemplando o Purusha supremo, estabelece-se no fulgor, no Sol. Assim como a serpente se liberta da pele, assim ele se liberta do mal. Pelos cânticos do Sāman é conduzido ao mundo de Brahmā; e, desta massa densa de vida, o corpo, contempla o Purusha além do além, o Purusha que habita na “cidade” do coração. Sobre isso há estes dois versos.
But he who meditates on this (Oṃ) with the three measures—on the syllable Oṃ itself—upon the Supreme Person: he becomes established in the luminous (sphere), in the Sun. As a snake (pādodara) is freed from its skin, so indeed is he freed from evil. He is led upward by the Sāman-chants to the world of Brahmā; from this dense mass of life (the body), he beholds the Person who lies beyond the beyond, the Person abiding in the ‘city’ (of the heart). On this there are these two verses (to follow).