अपि॒ तेषु॑ त्रि॒षु प॒देष्व॑स्मि॒ येषु॒ विश्वं॒ भुव॑नमा वि॒वेश॑ । स॒द्यः पर्ये॑मि पृथि॒वीमु॒त द्यामेके॒नाङ्गे॑न दि॒वो अ॒स्य पृ॒ष्ठम्
ápi téṣu triṣú padéṣv asmi yéṣu víśvaṃ bhúvanam ā vivéśa | sadyáḥ páryemi pṛthivī́m utá dyā́m ékenā́ṅgena divó asyá pṛṣṭhám
ସେଇ ତିନି ପଦରେ ମଧ୍ୟ ମୁଁ ଅଛି, ଯେଉଁଥିରେ ସର୍ବ ଭୁବନ—ସମଗ୍ର ଜଗତ—ପ୍ରବେଶ କରିଛି। ସଦ୍ୟଃ ମୁଁ ପୃଥିବୀ ଓ ଦ୍ୟାଉକୁ ଆବୃତ କରେ; ଏକ ଅଙ୍ଗରେ ମୁଁ ସେ ପର ଆକାଶର ପୃଷ୍ଠକୁ ସ୍ପର୍ଶ କରେ।
अपि । तेषु । त्रिषु । पदेषु । अस्मि । येषु । विश्वम् । भुवनम् । आ । विवेश । सद्यः । पर्येमि । पृथिवीम् । उत । द्याम् । एकेन । अङ्गेन । दिवः । अस्य । पृष्ठम्