यद्ग्रामे॒ यदर॑ण्ये॒ यत्स॒भायां॒ यदि॑न्द्रि॒ये । यच्छू॒द्रे यदर्ये॒ यदेन॑श्चकृ॒मा व॒यं यदेक॒स्याधि॒ धर्म॑णि॒ तस्या॑व॒यज॑नमसि
yád grā́me yád áraṇye yát sabhā́yāṃ yád índriye | yác chū́dre yád ā́rye yád énaś cakṛmá vayám yád ékasyá̄dhi dhármaṇi tásyā́vayájanam asi ||
ଗ୍ରାମରେ ଯେ (ପାପ), ଅରଣ୍ୟରେ ଯେ, ସଭାରେ ଯେ, ଇନ୍ଦ୍ରିୟମାନଙ୍କ ଦ୍ୱାରା ଯେ; ଶୂଦ୍ର ସହ ଯେ, ଆର୍ୟ ସହ ଯେ—ଆମେ ଯେ ଦୋଷ କରିଛୁ; ଏବଂ କାହାରୋ ଏକଙ୍କ ଧର୍ମବିଧାନର ବିରୋଧରେ ଯେ (ଅପରାଧ) କରିଛୁ—ତାହାର ପ୍ରାୟଶ୍ଚିତ୍ତ ତୁମେ ହେଉ।
यत् । ग्रामे । यत् । अरण्ये । यत् । सभायाम् । यदि । इन्द्रिये । यत् । शूद्रे । यत् । आर्ये । यत् । एनः । चकृ॒म । व॒यम् । यत् । एकस्य । अधि । धर्मणि । तस्य । अवयजनम् । असि